________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
तर्जयित्वाऽञ्जनामेवं नेतुं पितृनिकेतने । आदिक्षदारक्षनरान् निष्कृपा राक्षसीव सा ॥१३०॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्ते नीत्वाऽमुञ्चन्नुदश्रवः ॥१३१॥ तां मातृवन्नमस्कृत्य क्षमयित्वा च ते ययुः । स्वामिवत् स्वाम्यपत्येऽपि सेवकाः समवृत्तयः ॥ १३२॥ तद्दुःखदुःखित इव तदा चाऽस्तमगाद् रविः । सन्तः सतां न विपदं विलोकयितुमीश्वराः || १३३ || घूकानां घोरघूत्कारैः फेत्कारैः फेर्रुयोषिताम् । क्रन्दितैर्वृकवृन्दानां श्वाविधां विविधैः स्वनैः ॥ १३४ ॥ तुमुलैः पिङ्गलानां च सङ्गीतैरिव रक्षसाम् । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यनयन्निशाम् ॥ १३५॥युग्मम्॥ प्रातरुत्थाय सा दीना शालीनेव हिया शनैः । ययौ पितृगृहद्वारे भिक्षुकीवाऽपरिच्छदा ॥१३६॥ दृष्ट्वा ससम्भ्रमस्तां च प्रतीहारोऽनुयुज्य च । अवस्थां तादृशीं सख्याख्यातां राज्ञे व्यजिज्ञपत् ॥१३७॥ लज्जातश्याममुखो राजाऽप्येवमचिन्तयत् । अचिन्त्यं चरितं स्त्रीणां हि ( ही ) विपाको विधेरिव ॥१३८॥ इयं कुलकलङ्काय कुलटा गृहमागता । अञ्जनाऽञ्जनलेशोऽपि दूषयत्यंशुकं शुचि ॥ १३९ ॥ इति चिन्ताप्रपन्नं तमप्रसन्नीभवन्मुखः । प्रसन्नकीर्ति स्तनयो नयनिष्ठोऽब्रवीदिति ॥१४०॥ द्रुतं निर्वास्यतामेषा दूषितं ह्यनया कुलम् । अहिदष्टाङ्गुलिः किं न छिद्यते धीर्मता नृणा ? ॥ १४१ ॥ अथाऽवोचन्महोत्साहो नाम मन्त्रीति भूपतिम् । श्वश्रूदुःखे दुहितृणां शरणं शरणं पितुः ॥ १४२॥ किं च केतुमती श्वश्रूर्निर्दोषामप्यमूं प्रभो ! । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥१४३॥ व्यक्तिर्यावद् भवेद् दोषाऽदोषयोस्तावदत्र हि । प्रच्छन्नं पाल्यतामेषा स्वपुत्रीति कृपां कुरु ॥१४४॥ राजाऽपीत्यवदच्छ्वश्रूः सर्वत्र भवतीदृशी । ईदृशं चरितं तु स्याद् वधूनां न हि कुत्रचित् ॥ १४५ ॥ किं च संशृण्महेऽग्रेऽपि द्वेष्येयं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुष्याः पवनादेव तत् कथम् ? ॥१४६॥ सर्वथा दोषवत्येषा साधु निर्वासिता तया । निर्वास्यतामितोऽपि द्राक् पश्यामस्तन्मुखं न हि ॥ १४७ ॥ इत्थं राजाज्ञया द्वाःस्थो निरवासयदञ्जनाम् । जनैरपि कृताक्रन्दैर्दीनास्यैः कष्टमीक्षिताम् ॥१४८॥ तानिःश्वसन्त्यश्रुवर्षिणी । दर्भविद्धेपदासृग्भी रञ्जयन्ती महीतलम् ॥१४९॥
1
१५२
पदे पदे प्रस्खलन्ती विश्राम्यन्ती तरौ तरौ । सह सख्याऽञ्जनाऽचालीद् रोदयन्ती दिशोऽपि हि ॥ १५०॥ यत्र यत्र पुरे ग्रामे साऽगच्छत् तत्र तत्र च । पूर्वायातनृपपुम्भिर्निषेधान्नाऽऽसदत् स्थितिम् ॥ १५१ ॥ पर्यन्ती तु साप्राप कामप्येकां महाटवीम् । गिरिकुञ्जे तरोर्मूले निषद्य विललाप च ॥ १५२ ॥ || अहो ! मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत् पश्चादपराधविवेचनम् ॥१५३॥ साधु केतुमति! कुलकलङ्को रक्षितस्त्वया । त्वयाऽपि सम्बन्धिभयात् तात ! साधु विचारितम् ॥१५४॥ दुःखितानां हि नारीणां माताऽऽश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाऽप्यहमुपेक्षिता ।। १५५।। भ्रातर्दोषोऽपि नाऽस्त्येव ताते जीवति ते ननु । नाथ! त्वयि च दूरस्थे जैज्ञे सर्वोऽप्यरिर्मम ॥१५६॥ सर्वथा स्त्री विना नाथं मैकार्हमपि जीवतु । यथाऽहमेषा जीवामि मन्दभाग्यशिरोमणिः ॥१५७॥ विलपन्त्यञ्जना सख्या निन्ये सम्बोध्य चाऽग्रतः । ददर्शाऽन्तर्गुहं ध्यानस्थं चाऽमितगतिं मुनिम् ॥ १५८ ॥ चारणश्रमणं तं च प्रणम्य विनयेन ते । निषेदतुः पुरो भूमौ सोऽपि ध्यानमपारयत् ॥ १५९ ॥ मनश्चिन्तितकल्याणमहारामैकसारणिम् । धर्मलाभाशिषं सोऽदात् करमुन्नम्य दक्षिणम् ॥१६०॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिलका तु सा । सर्वमप्यञ्जनादुःखमाचख्यौ मूलतोऽपि हि ॥ १६९॥ कोsस्या गर्भेऽभवत् ? केन कर्मणा चेदृशीं दशाम् । सम्प्राप्तैषेति ? तत्सख्या पृष्टः स मुनिरब्रवीत् ॥ १६२॥ "अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दीत्यभूद् वणिक् ।।१६३।। जयानाम्न्यां च जायायां तस्याऽजायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दुवत् ॥१६४॥
(सप्तमं पर्व
१. शृगालीनाम् ॥ २. शाहुडी' इति भाषायाम् ; श्वापदां ला. कां. ॥ ३. नकुलानाम् ॥ ४. संलीनेव भिया ला.; “अधृष्टेव” ला. टि. ॥ ५. पितुर्गृह० ता. ॥ ६. “ पृष्ट्वा ” इति ला. टि. ॥ ७. लज्जानतः पाता. ला ॥। ८. वस्त्रम् ॥ ९. बुद्धिशालिना मु. ॥ १०. गृहम् ॥ ११. च भोः ! ला. ॥। १२. दर्भैर्विद्धयोः पादयोः शोणितैः ।। १३. पतीच्छानुवर्तिनी । १४. विदूरस्थे कां ।। १५. जातः पाता. छा. पा. ।। १६. नैकाहमपि पाता.; एकदिनमपि न । १७. यथाहमेका मु.
Jain Educatioखतापाता सर्वत्र ॥
For Private & Personal Use Only
www.jainelibrary.org