________________
तृतीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। वसन्ततिलके! दोष्णा विधृत्यैनं बहिः क्षिप । क्षपाकरविशुद्धाऽस्मि नैनं द्रष्टुमपि क्षमा॥९६।। पवनञ्जयमुज्झित्वाऽमुष्मिन् मम निकेतने। न प्रवेशाधिकारोऽस्ति कस्याऽपि किमुदीक्षसे ? ॥९७।। नत्वा प्रहसितोऽवादीद् दिष्ट्या स्वामिनि! वर्धसे। चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ॥९८॥ तस्य मित्रं प्रहसितो मन्मथस्येव माधवः । अग्रेसरोऽहमायातोऽन्वायातं विद्धि च प्रियम ॥१९॥ अञ्जनाऽपि जगादैवं हसितां विधिनैव माम। मा हसीस्त्वं प्रहसित! क्षणोऽयं न हि नर्मणः ॥१००।। अथवा नैष दोषस्ते दोषो मत्पूर्वकर्मणाम् । कुलीनस्तादृशो भर्ता त्यजेन्मां कथमन्यथा ? ||१०१।। पाणिग्रहात् प्रभूत्येव मुक्ताया: स्वामिना मम । द्वाविंशति: समा जग्मर्जीवाम्यद्याऽपि पापिनी॥१०२।। अथ सङ्क्रान्ततद्दुःखप्राग्भार: पवनञ्जयः। अन्तः प्रविश्य व्याहार्षीद् बाष्पगद्गदवागिदम् ॥१०३।। निर्दोषा दोषमारोप्य त्वमुद्वाहात् प्रभृत्यपि। अवज्ञाताऽस्यविज्ञेन मयका विज्ञमानिना ॥१०४।। मद्दोषादीदृशीमागा दुःसहां दुर्दशां प्रिये! । मृत्युं प्राप्ताऽपि मद्भाग्यैः स्तोकान्मुक्ताऽसि मृत्युना ॥१०५।। इत्युक्तवन्तं सा नाथमुपलक्ष्य त्रपावती। पर्यङ्केषामवष्टभ्याऽभ्युत्तस्थौ विनमन्मुखी ॥१०६॥ लतां हस्तीव हस्तेन दोष्णा वलयितेन ताम् । आददानोऽधिपर्यत न्यषदत् पवनञ्जयः ॥१०७॥ भूयस्तां पवनोऽवोचन्मयाऽतिक्षुद्रबुद्धिना । निरोगा: खेदिताऽसि त्वं तत् सहस्व प्रिये! मम ॥१०८।। अवोचदञ्जनाऽप्येवं नाथ! मा स्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षार्मणाऽनुचिता मयि ॥१०९।। निर्जगाम प्रहसितो वसन्ततिलकाऽप्यथ । रहःस्थयोर्हि दम्पत्योर्न च्छेका: पार्श्ववर्तिनः ॥११०।। रेमाते तत्र च स्वैरमञ्जना-पवनञ्जयौ। विरराम रसावेशाच्चैकयामेव यामिनी ॥१११॥ प्रभातप्रायमालोक्य तामूचे पवनञ्जयः । जयाय कान्ते! यास्यामि ज्ञास्यन्ति गुरवोऽन्यथा ॥११२॥ खेदं माऽतः परं कार्षीः सुखं तिष्ठ सखीवृता । दशास्यकृत्यं सम्पाद्य यावदायामि सुन्दरि! ।।११३।। साऽप्युवाचेति तत्कृत्यं दोष्मत: सिद्धमेव ते । कृतार्थः शीघ्रमागच्छेर्जीवन्तीं मां यदीच्छसि ॥११४।। अपरं च ऋतुस्नाताऽस्म्यद्यैव यदि मे भवेत् । गर्भस्तत् त्वत्परोक्षेऽवदेयुः पिशुना मयि ॥११५।। पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि! । मय्यायाते कथं क्षुद्रावकाशो भविता त्वयि ? ॥११६॥ अथवा गृह्यतामेतन्मदागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत् प्रकाशयेः॥११७॥ अर्पयित्वाऽङ्गुलीयं स्वमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिबिरे निजे॥११८॥ ततोऽपि सह सैन्येन नाकीव व्योमवर्त्मना। जगाम लेकां नगरी रावणं प्रणनाम च ॥११९॥ रावणोऽपि प्रविश्याऽथ पातालं पृतनान्वितः। प्रययौ प्रति वरुणं तरुणार्क इव त्विषा ॥१२०॥ पाइतश्च तद्दिने गर्भ बभाराऽञ्जनसुन्दरी। विशेषसुन्दरीभूतसर्वावयवशालिनी ॥१२१।। मुखमापाण्डुगण्डश्रि श्यामवक्त्रौ पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रेसृतोज्ज्वले ॥१२२।। गर्भलक्ष्माणि चाऽन्यानि तस्या व्यक्तानि वर्मणि । दृष्ट्वा केतुमती श्वश्रूः साधिक्षेपमदोऽवदत् ।।१२३॥युग्मम्।। हले! किमिदमाचारी: कुलद्वयकलङ्ककृत् । देशान्तरगते पत्यौ पापे यदुंदरिण्यभूः॥१२४॥ स्वपुत्रे त्वदवज्ञायामज्ञाय्यज्ञानदोषिता। इयच्चिरं त्वमस्माभिर्न हि ज्ञाताऽसि पांसुला ॥१२५।। एवं निर्भर्त्सता श्वश्र्वा साश्रुरञ्जनसुन्दरी। पत्युरागमनचिह्न तदङ्गुलीयमदर्शयत् ॥१२६।। सा लज्जानम्रमुख्येवं श्वश्वा भूयोऽप्यभयंत । यस्तेऽग्रहीन्न नामाऽपि कथं ते तेन सङ्गम: ? ॥१२७।। अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ? | प्रतारणाप्रकारान् हि बहून् जानन्ति पांसुला: ॥१२८।। मद्गृहादद्य निर्गच्छ गच्छ स्वच्छन्दचारिणि! । पितृवेश्मनि माऽत्र स्था: स्थानमेतत् न हीदृशाम् ॥१२९।। १. वसन्तः ।। २. त्वं मया विज्ञ० खंता.१-२, ला.; हे. कां. ला. ॥ ३. पर्यङ्कस्याऽवयवविशेष ईषा ॥ ४. वलयमिवाऽऽचरितेन ॥ ५. निरपराधा ।। ६. क्षमणा० खंता.१-२, पाता. ॥ ७. “निपुणा:" इति ला.टि. ॥८. प्रभातां रात्रिमालोक्य पाता. मु.॥९. सिद्धार्थः ता. ॥१०. अपवादं दधुः ।। ११. लङ्कानगरी मु.॥१२. “चमूः" इति ला.टि.; सेना ।। १३. दीप्त्या ।।१४. गल्लत्रि मो. ॥१५. प्रसृते च ते उज्ज्व ले च॥१६. शरीरे॥१७. किमिदमारब्धं खंता.१॥ १८. गर्भिणी॥१९. स्वपुत्रे-पवनञ्जये त्वदवज्ञायां-तव विषये तिरस्कारे तस्यैव अज्ञानदोषोऽद्यपर्यन्तं अज्ञायि-ज्ञातोऽस्माभिः । मत्पुत्रस्याऽज्ञानमेव तव तिरस्कारकरणे कारणमिति मम मान्यताऽऽसीदित्यर्थः ॥ २०. इयच्चिरं न त्वस्माभिर्ननु ज्ञाताऽसि पांसुला ता. ॥ २१. पितुर्वेश्मनि मु.॥२२. हीदृशम् ला.मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org