________________
(सप्तमं पर्व
१५०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
श्रुत्वाऽञ्जना जनमुखात् पत्युर्यात्रामथोत्सुका । देवीव व्योमशिखरात् प्रासादादवरुह्य' च ॥६५॥ तमीक्षितुमवष्टभ्य स्तम्भं पाञ्चालिकेव सा । निर्निमेषेक्षणा तस्थावस्वास्थ्यमथिताशया ॥६६॥ युग्मम्।। द्वारस्तम्भनिषण्णाङ्गीं प्रतिपच्चन्द्रवत् कृशाम् । लुलितालकसञ्छन्नललाटां निर्विलेपनाम् ॥६७॥ नितम्बन्यस्तविम्रस्तश्लथलम्बिभुजालताम् । ताम्बूलरागरहितधूसराधरपल्लवाम् ||६८।। बाष्पाम्बुक्षालितमुखामुन्मुखां पुरतः स्थिताम् । अञ्जनां व्यञ्जनदृशं ददर्श पवनो व्रजन् ।।६९।।त्रिभिर्विशेषकम्।। तां निध्यायन्निदं दध्यौ सद्यः प्रह्लादनन्दनः । अहो निर्हीत्वमेतस्या निर्भीत्वमपि दुर्धियः ॥ ७० ॥ अथवा ज्ञातमेतस्या दौर्मनस्यं पुराऽपि हि । उदूढा तु मया पित्रोराज्ञालङ्घनभीरुणा ॥ ७१ ॥ पतित्वा पादयोस्तस्य साऽप्यूचे रचिताञ्जलिः । त्वया सम्भाषितः सर्वोऽप्यहं तु न मनागपि ॥ ७२ ॥ विज्ञप्यसे तथाऽपि त्वं विस्मार्या न ह्यहं त्वया । पुनरागमनेनाऽऽशु पन्थानः सन्तु ते शिवाः ॥७३॥ इति ब्रुवाणां तां दीनामहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ ७४ ॥ पत्यवज्ञावियोगार्ता गत्वाऽन्तर्वेश्म भूतले । वारिभिन्नतला सिन्धुतटीव निपपात सा ॥ ७५ ॥ पवमानवदुत्पत्य तदा प्रह्लादनन्दनः । जगाम मानससरस्युवास च निशामुखे ॥७६॥ विकृत्य तत्र प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् ॥७७॥ तत्र पर्यङ्कमारूढः सरः परिसरावनौ । आर्तां प्रियवियोगेन चक्रवाकीं ददर्श सः ॥७८॥ पूर्वोपात्तामभुञ्जानां मृणाललतिकामपि । तप्यमानां हिमेनाऽपि कथितेनेव वारिणा ॥७९॥ दूयमानां ज्योत्स्नयाऽपि वह्न्यर्चिश्छटयेव ताम् । क्रन्दन्तीं करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् ॥८०॥ सकलं वासरं पत्या रमन्ते चक्रवाकिकाः । न सोढुमीशते नक्तमपि तद्विरहं पुनः ॥ ८१ ॥ उद्वातोऽपि या त्यक्ता भाषिता या न जातुचित् । आगच्छताऽप्यवज्ञाता परनारीव या मया ॥८२॥ आक्रान्ता दु:खभारेण पर्वतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हो ! भविष्यति ? ॥ ८३ ॥ युग्मम्।। धिग्धिङ् ममाऽविवेकेन म्रियते सा तपस्विनी । तद्धत्यापातकेनाऽहं क्व गमिष्यामि दुर्मुखः ? ॥ ८४ ॥ इति चिन्तितमात्मीयमाख्यत् प्रहसिताय सः । स्वदुः खाख्यानपात्रं हि नाऽपरः सुहृदं विना ॥ ८५ ॥ प्रोचे प्रहसितोऽप्येवं साध्वज्ञासीश्चिरादपि । नूनं विपद्यते साऽद्य सारसीव वियोगतः ॥८६॥ आश्वासयितुमद्याऽपि सखे! सा तव युज्यते । प्रियोक्त्या तामनुज्ञाप्य स्वार्थाय पुनरीपतेः ॥८७॥
हृदेव सुहृदा तेन भावसंवादिनेरितः । ययावञ्जनसुन्दर्या वेश्मन्युत्पत्य मार्रुतः ॥ ८८॥ किञ्चित्तिरोहितस्तस्थौ द्वार्येव पवनञ्जयः । अग्रे भूत्वा प्रहसितः प्राविशच्च तदोकसि ॥८९॥ वेन्तीमधिपर्यङ्कं तोयेऽल्पे शफरीमिव । पीड्यमानां ज्योत्स्नयाऽपि हिमेनेव सरोजिनीम् ॥९०॥ अन्तर्हृर्देयसन्तापप्रस्फुटद्धारमौक्तिकाम्। उन्मुक्तदीर्घनिःश्वासतैरलालकमालिकाम् ॥९१॥ अधीषं निःसहस्रैस्तदोर्भग्नमणिकङ्कणाम् । वसन्ततिलकासख्याऽऽश्वास्यमाना मुहुर्मुहुः ॥९२॥ शून्यदत्तदृशं शून्यचित्तां काष्ठमयीमिव । ईक्षाञ्चक्रे प्रहसितस्तत्र चाऽञ्जनसुन्दरीम् ॥९३।।चतुर्भिः कलापकम्।। अकस्माद् व्यन्तर इव को नामेह समाययौ ? । इति भीताऽपि सा धैर्यमवलम्ब्येदमब्रवीत् ॥९४॥ अहो! कस्त्वमिहाऽऽयासीः ? परपुंसाऽथवा त्वया । अलं ज्ञातेन मेहैं स्था: परनारीनिकेतने ॥९५॥
१. अवतीर्य ॥ २. अस्वास्थ्येन मथितः आशयः (चित्तवृत्तिः ) यस्याः सा ॥। ३. ० निषण्णां तां ता. ला. ॥। ४. नितम्बे न्यस्ता-धारिता विम्रस्ता-श्लथा लम्बिनी भुजलता यया सा ।। ५. अञ्जनरहितनेत्राम् ।। ६. पश्यन् ।। ७. ७२तमश्लोकस्योपरि टिप्पितं गाथाद्वयं ला. प्रतावेवम्
“जीवं मरणंमि तुमे आयण्णं नत्थि एत्थ संदेहो । जइ वि हु जासि पवासं तह वि न अम्हं सरिजासु ॥ १ ॥
एवं पलवंतीए पवणगई मत्तकरिवरारूढो । निग्गंतूण पुराओ अवडिओ माणससरम्मि ||२|| इति वृद्धपद्मचरित्रे || "
८. पत्युरवज्ञया वियोगेन च पीडिता ।। ९. पवनवत् ॥ १०. निष्पक्केन ॥ ११. अमिशिखातेजसा ।। १२. नु पाता ।। १३. ८६तमश्लोकस्योपरि टिप्पितेयं गाथा ला. प्रतौ- “पवणंजएण भणिओ सद्दावेऊण मोग्गरामच्चो । ठविऊण सेणरक्खो भणिओ मेरुम्मि वच्चामो ॥१॥ इति वृद्धपद्मचरिते ॥ "
१४. “आगच्छेः” ला.टि. ।। १५. भावो मनोगताभिप्रायस्तेन प्रेरितः ।। १६. पवनञ्जयः ॥ १७. प्रविशतु ता. ला. ॥ १८. तस्मिन् गृहे इत्यर्थः ॥ १९. लुठन्तीम् ॥ २०. हृदयसन्तापेन प्रस्फुटन्ति हारस्य मौक्तिकानि यस्यास्ताम् ॥ २१. तरलकेशपङ्क्तिम् ॥ २२. असह्यतया बाह्वोः खट्वाङ्गे आस्फालनातू Jain Education | भग्नमणिकङ्कणाम् ॥ २३. शून्ये- आकाशे दत्ता दृग् यया सा, ताम् ॥ २४ मा इह || Use Only
www.jainelibrary.org