________________
तृतीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । विद्युत्प्रभो हृदि ययोर्द्वयोरपि तयोः शिरः । छिनधीति वदन् रोषाच्चचाल पवनञ्जयः ॥३१॥ बाहदण्डे धारयंस्तमिति प्रहसितोऽवदन् । सापराधाऽप्यवध्यैव स्त्री गौरिव न वेत्सि किम् ? ॥३२।। किं पुनर्निरपराधैवेयमञ्जनसुन्दरी। तथाऽपवादिनीं नैषा निषेधति पुनर्हिया ॥३३॥ इति प्रहसिते नोच्चैर्निषिद्ध: पवनञ्जयः । उत्पत्याऽऽगात् स्वमावासं जाग्रत् तस्थौ च दुःखितः ।।३४।। प्रातश्चोचे प्रहसितं सखे! किमनयोढया ? । भृत्योऽपि हि विरक्तः स्यादापदे किं पुनः प्रिया ? ॥३५।। तदेहि याम: स्वपुरीमूरीकृत्य परं रयम् । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? ॥३६॥ इत्युदीर्योच्चकैर्यावच्चचाल पवनञ्जयः । धृत्वा तावत् प्रहसितस्तं सोम्नैवमबोधयत् ॥३७॥ न युक्तं महतां यत् स्वप्रतिपन्नस्य लङ्घनम् । अनुल्लङ्घयैस्तु गुरुभिः प्रतिपन्नस्य तु का कथा ? ॥३८|| विक्रीणते वा मूल्येन ददते वा प्रसादतः । गुरवो हीत्यपि सतां प्रमाणं नाऽपरा गतिः ॥३९॥ किं चेहाऽञ्जनसुन्दर्यामस्ति दोषलवोऽपि न । दूष्यते दैवदोषेण सुहृदो हृदयं पुनः ॥४०॥ महात्मानौ च पितरौ स्वस्य तस्याश्च विश्रुतौ । किं न लज्जयसि भ्रातर्गच्छन् स्वच्छन्दवृत्तितः ॥४१॥ उक्त: प्रहसितेनैवं विमृश्य पवनञ्जयः। तथैव कथमप्यस्थात् सशल्य इव चेतसि ॥४२॥ पवनाञ्जनसुन्दर्योर्निर्णीते च दिनेऽभवत् । पितृनेत्रोत्पलशशी पाणिग्रहमहोत्सवः ॥४३॥ तद्वधूवरमादाय सदायाद: प्रमोदभाक् । महेन्द्रेणाऽर्चित: स्नेहात् प्रह्लादः स्वां पुरीं ययौ ॥४४॥
प्रह्लादोऽञ्जनसुन्दर्याः प्रासादं सप्तभूमिकम् । अर्पयामास वासाय विमानमिव भूस्थितम् ।।४५।। तां न सम्भावयामास वाचाऽपि पवनञ्जयः । मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः॥४६॥ विना शशाङ्क श्यामेव सा विना पवनञ्जयम्। बाष्पान्धकारवदना तस्थावस्वास्थ्यभाजनम् ॥४७ पार्श्वद्वितयमानत्या पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च संवत्सरवद् द्राधीयस्योऽभवन् निशा: ॥४८॥ अनन्यमानसा जानुमध्यन्यस्तमुखाम्बुजा। भर्तुरीलेखनैरेव व्यतीयाय दिनानि सा॥४९॥ मुहुरालाप्यमानाऽपि सखीभिश्चाटुपूर्वकम् । परपुष्टेव हेमन्ते न सा तूष्णीकतां जहौ॥५०॥
एवं च काले व्रजति प्रह्लादनृपमन्यदा। दूतो राक्षसराजस्य समुपेत्यैवमब्रवीत् ॥५१॥ समं राक्षसनाथेन यादोनाथ: स दुर्मतिः। वैरायतेऽद्य नितरां प्रणिपातममानयन् ॥५२॥ याचित: स नमस्कारमहङ्कारमहागिरिः । दोर्दण्डो चक्षुषा पश्यन्निदं वदति कद्वदः ॥५३।। अरे! को रावणो नाम ? तेन किं नन सिध्यति ? | नाऽहमिन्द्रः कुबेरो वा न चाऽस्मि नलकूबरः ॥५४॥ सहस्ररश्मिर्नाऽप्यस्मि न मरुत्तो न वा यमः । न च कैलासशैलोऽस्मि किं त्वस्मि वरुणो ननु ॥५५।। देवताधिष्ठितैरस्थैर्यदि दर्पोऽस्य दुर्मते: । तदायातु हरिष्यामि तद्दएँ चिरसञ्चितम् ॥५६।। इत्युक्त्या रावणः क्रुद्धः समरायाऽभ्यषेणयत् । अरौत्सीत् तत्पुरं चाऽब्धिवेलेव तटपर्वतम् ॥५७।। पुरान्निःसृत्य वरुणो रणायाऽरुणलोचनः । राजीव-पुण्डरीकाद्यैर्वृत: पुत्रैरयुध्यत ॥५८॥ तस्मिन् महति सङ्ग्रामे वीरैर्वरुणसूनुभिः । योधयित्वा च बद्ध्वा च निन्याते खर-दूषणौ ॥५९॥ अभज्यत तत: सैन्यं राक्षसानामशेषतः। कृतार्थमानी वरुणोऽप्यविशन्नगरी निजाम्॥६०॥ विद्याधरेन्द्रानाह्वातुं प्राहिणोद्रावणोऽपि हि। दूतान् प्रत्येकमप्यद्य भवते प्रेषितस्त्वहम् ॥६१।। पप्रह्लादोऽथ दशास्याय साहायककृते स्वयम् । यावच्चचाल तावत् तमुवाच पवनञ्जयः ॥६२॥ इहैव तिष्ठ तात! त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवाऽस्मि तनयो ननु ॥६३|| इत्युदीर्य सनिर्बन्धं पितरं चाऽनुमान्य सः । लोकं चाऽशेषमाभाष्य चचाल पवनञ्जयः॥६४॥ १. कुत्सितवादिनीम् ।। २.दुःस्थित: खंता.१ ॥३. याव: ला. मु.प्रभृतिकागदप्रतिषु ।। ४. वेगम् ।। ५. शान्त्या॥६. सकुटुम्बः॥७. सम्भाषयामास ला.॥ ८. गर्वम् ।। ९. रात्रिरिव ।। १०. विना सा ता.॥११. पुष्टान्धकार० हे. ॥१२. पार्श्वयोः परावर्तनं कुर्वत्याः॥१३. दीर्घाः ॥ १४. भर्तुरालेखनैरेव कागदप्रतिषु मु. च ।। १५. कोकिला ॥ १६. मौनम् ॥ १७. राक्षसराजेन खं.१ ॥ १८. “वरुणः” इति ला. टि. ॥१९. कुत्सितवादी ॥२०. देवताधिष्ठितै रत्ने०
पाता. ला. विना॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org