________________
॥तृतीयः सर्गः॥
अथेह वैताढ्यगिरावादित्यपुरपत्तने । प्रह्लादो नाम राजाऽभूत् केतुमत्यस्य तु प्रिया ॥१॥ तयोर्बभूव तनयो नामत: पवनञ्जयः । जयी पवनवत् स्थाम्ना गगने गमनेन च ॥२॥ पाइतश्च भरतेऽत्रैवोपार्णवं दन्तिपर्वते । विद्याधरेन्द्रो महेन्द्रो महेन्द्रनगरेऽभवत् ।।३।। पत्न्यां हृदयसुन्दयाँ तस्य चाऽञ्जनसुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत सुता ॥४॥ उद्यौवनायास्तस्याश्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ॥५॥ महेन्द्रस्याऽऽज्ञयाऽमात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्यपटेष्वानाय्य समदर्शयन् ।।६।। तत्र विद्याधराधीशहिरण्याभाङ्गजन्मनः । रूपं विद्युत्प्रभाख्यस्य सुमन:कुक्षिजन्मनः ॥७।। प्रह्लादसूनो: पवनञ्जयस्य च मनोरमम् । चित्रस्थं सचिवोऽन्येधुर्महेन्द्रस्याऽभ्यढौकयत् ।।८।।युग्मम्।। रूपवन्तौ कुलीनौ च द्वावप्येतौ तदेतयोः । वत्साया: को वर ? इति राज्ञोक्तः सचिवोऽब्रवीत् ।।९।। एषोऽष्टादशवर्षायुर्मोक्षं विद्युत्प्रभो गमी। इति नैमित्तिका: स्वामिन्! व्यक्तमाख्यातपूर्विणः ॥१०॥ प्रह्लादतनयस्त्वेष चिरायु: पवनञ्जयः । योग्यो वरस्तदेतस्मै प्रयच्छाऽञ्जनसुन्दरीम् ॥११।। अत्राऽन्तरे तु यात्रायै द्वीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेऽपि सर्वा सपरिच्छदाः॥१२॥ प्रहादस्तत्रे यान् प्रेक्ष्य महेन्द्रमिदमभ्यधात् । दीयतां मत्सुतायैषा स्वसुताऽञ्जनसुन्दरी ॥१३।। महेन्द्रः प्रतिपेदे तदग्रेऽपि हृदयस्थितम् । निमित्तमात्रमेवाऽऽसीत् प्रह्लादप्रार्थना तु सा ॥१४॥ इतस्तृतीये दिवसे मानसाख्ये सरोवरे । कार्यो विवाह इत्युक्त्वा तौ यथास्थानमीयतुः ॥१५।। ततो महेन्द्र-प्रह्लादौ साह्लादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्च तौ ॥१६।। पमित्रं प्रहसितं नामोवाचेति पवनञ्जयः । दृष्टाऽस्ति किं त्वया ? ब्रूहि कीदृश्यञ्जनसुन्दरी ?॥१७।। हसित्वेषत् प्रहसितोऽप्येवमूचे मयेक्षिता । सा हि रम्भादिकाभ्योऽपि सुन्दर्यञ्जनसुन्दरी ॥१८॥ तस्या निरुपमं रूपं यादृशं दृश्यते दृशा। तादृशं वचसा वक्तुं वाग्मिनाऽपि न शक्यते॥१९।। पवनञ्जय इत्यूचे दूरे ह्युद्वाहवासरः । सा दृग्गोचरमद्यैव कथं नेया मया सखे! ? ॥२०॥ वल्लभोत्कण्ठितानां हि घटिकाऽपि दिनायते । मासायते दिनमपि किं पुनस्तद्दिनत्रयम् ? ॥२१॥ तत: प्रहसितोऽप्येवं व्याजहार स्थिरीभव। निशि तत्रैत्य तां कान्तां द्रक्षस्यनुपलक्षितः ॥२२॥ उत्पत्य साहसितो निश्यगात् पवनञ्जयः। आस्थितेऽञ्जनसुन्दर्या प्रासादे सप्तभूमिके ॥२३॥ रोजस्पश इव च्छन्नीभूय सोऽञ्जनसुन्दरीम् । सम्यगीक्षितुमारेभे समित्र: पवनञ्जयः ॥२४॥ धन्याऽसि या हि प्रापस्त्वं तं पतिं पवनञ्जयम् । सखी वसन्ततिलकेत्युवाचाऽञ्जनसुन्दरीम् ॥२५।। हले! मुक्त्वा वरं विद्युत्प्रभं चरमविग्रहम् । को वरः श्लाघ्यते ? इति मिश्रकेश्यवदत् सखी ॥२६।। प्रथमा प्रत्युवाचैवं मुग्धे! वेत्सि न किञ्चन। विद्युत्प्रभो हि स्वल्पायुः स्वामिन्या युज्यते कथम् ? ||२७|| द्वितीयाऽपीत्यभाषिष्ट वयस्ये! मन्दधीरसि । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु ।।२८।। इत्यालापं तयोः श्रुत्वाऽचिन्तयत् पवनञ्जयः । अस्याः प्रियमिदं नूनं तेन नैषा निषेधति ॥२९।। इति क्रुद्धोऽसिमाकृष्याऽऽविरोसीत् पवनञ्जयः । निशाचर इवाऽकस्मादन्धकारात् समुत्थितः ॥३०॥ १. तिच पाता. ।। २. बलेन ।। ३. समुद्रसमीपे ।। ४. ० पट्टे०; चित्रपटेषु ।। ५.०हरिणाभाग० खंता.१-२, ला. ॥ ६. तदेनयोः हे. मो. ॥७. कन्याया: मु.॥८. सचिवोऽभ्यधात् मु.॥९. एकोऽष्टा० पाता. ला. मो. ॥१०. गमिष्यति ।।११. पूर्वमाख्यातवन्तः ।।१२. प्रहादस्तनयां मु.॥ १३. गच्छन् ।। १४. राजानौ ता. ॥१५. प्रशस्ता वागस्येति वाग्मी॥१६. अज्ञातः ॥ १७. निरगात् मु. ॥१८. आस्थिताञ्जन० ला.; अधिष्ठिते ॥ १९. “चरः” इति ला.टि. ॥ २०. चरमशरीरिणम् ।। २१. समूहः ।। २२. क्रुद्धः समाकृष्याऽऽवि० ला. ॥ २३. प्रकटोऽभवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org