________________
१४६
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
रावणेन धृते शक्रे तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥ ६२०॥ सहैवैरावणेनेन्द्रं रावण: शिबिरे निजे । निनाय नायैक्यभवत् स्वयं श्रेणिद्वयेऽप्यथ ॥६२१॥ ततो निवृत्य लङ्कायां जगाम दशकन्धरः । कारायां चाऽक्षिपच्छक्रं कीरवत् काष्ठपञ्जरे ॥ ६२२॥ "सहस्रारः सदिक्पालो लङ्कायामेत्य रावणम् । नमस्कृत्येत्यभाषिष्ट पत्तिवद् रचिताञ्जलिः ॥६२३॥ कैलासमुदधार्षीद् यो लीलया ग्रावैखण्डवत् । दोष्मता तेन भवता विजिता न त्रपामहे ॥६२४॥ तादृशे त्वयि याच्ञाऽपि न त्रपायै मनागपि । तेद् याचेऽहं मुञ्च शक्रं पुत्रभिक्षां प्रयच्छ मे ॥ ६२५॥ उवाच रावणो ऽप्येवं शक्रं मुञ्चामि यद्यसौ । सदिक्पालपरीवारः कर्म कुर्यात् सदेदृशम् ॥ ६२६ ॥ परितोऽपि पुरीं लङ्कां करोत्वेष क्षणे क्षणे । तृणकाष्ठादिरहितां वासागारमहीमिव ॥ ६२७|| प्रात: प्रातर्दिव्यगन्धैरम्बुवाह इवाऽम्बुभिः । चेलर्वनोपं पुरीमेतामभितोऽप्यभिषिञ्चतु ॥ ६२८।। मालाकार इवोच्चित्य ग्रथित्वा च सदा स्वयम् । पुष्पाणि पूरयत्वेष देवतावसरादिषु ॥ ६२९ ॥ एवंविधानि कर्माणि कुर्वन्नेष सुतस्तव । पुनर्गृह्णातु राज्यं स्वं मत्प्रसादाच्च नन्दतु ॥६३०॥ एवं करिष्यतीत्युक्ते सहस्रारेण रावणः । मुमोच शक्रं कारायाः सत्कृत्य निजबन्धुवत्॥६३१॥ रथनूपुरमेत्येन्द्रस्तस्थावुद्विग्न उच्चकैः । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् ॥ ६३२ ॥ निर्वाणसङ्गमो नाम ज्ञानी तत्राऽन्यदा मुनिः । समवासरदिन्द्रोऽपि तं वन्दितुमुपाययौ ॥६३३॥ भगवन्! कर्मणा केन रावणादिदमासदम् । न्यक्कारमिति शक्रेण पृष्टः स मुनिरब्रवीत् ॥ ६३४॥ श्रीमत्यरिञ्जयपुरे पुरा विद्याधराग्रणीः । नाम्ना ज्वलनसिंहोऽभूद् वेगवत्यस्य तु प्रिया ॥ ६३५ ॥ . अहल्या नाम दुहिता रूपवत्यभवत् तयोः । तस्या: स्वयंवरेऽभ्येयुः सर्वे विद्याधरेश्वराः ॥ ६३६ || आनन्दमाली तत्राऽऽगाच्चन्द्रावर्तपुरेश्वरः । सूर्यावर्तपुरे शस्त्वमागान्नाम्ना तडित्प्रभः ॥ ६३७॥ सहाऽऽयातमपि त्यक्त्वा त्वामहल्या निजेच्छया । आनन्दमालिनं वव्रे तवाऽभूच्च पराभवः ॥ ६३८ ॥ आनन्दमालिनीर्ष्यालुस्त्वमभूस्तत्प्रभृत्यपि । मयि सत्यप्यसावेतामहल्यामूढवानिति ॥६३९॥ आनन्दमाली निर्वेदादन्यदा व्रतमग्रहीत्। तप्यमानस्तपस्तीव्रं व्यहार्षीच्च सहर्षिभिः ॥ ६४० ॥ विहरन् स रथावर्तं जगाम गिरिमेकदा । त्वया च ददृशेऽस्मारि चाऽहल्याया: स्वयंवरः ॥ ६४१|| ध्यानारूढस्त्वया बद्धस्ताडितोऽनेकशश्च सः । मनागपि न च ध्यानादचालीदचलाचलः ॥६४२॥ कल्याणगुणधरस्तु तेंदूभ्राता श्रमणाग्रणीः । प्रेक्ष्य त्वय्यमुचत् तेजोलेश्यां शम्पामिव द्रुमे ॥६४३॥ सत्यश्रिया च त्वत्पेत्या शमितो भक्तिजैंल्पितैः । तेजोलेश्यां स सञ्जहे न दग्धोऽस्ति तदैव तत् ॥६४४॥ मुनिर्यैत्कारजात् पापात् त्वं भ्रान्त्वा कतिचिद् भवान् । शुभं कर्म विधायेन्द्रः सहस्रारसुतोऽभवः ॥६४५॥ महामुनितिरस्कारप्रहारोद्भवकर्मणः । उपस्थितं फलमिदं रावणाद्यः पराभवः ॥ ६४६॥ कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥ ६४७॥ तच्छ्रुत्वा दर्त्तवीर्याय राज्यं दत्त्वाऽङ्गर्जन्मने । इन्द्रः पर्यव्रजत् तप्तोग्रतपाश्च ययौ शिवम् ॥६४८॥ रावणोऽपि ययौ स्वर्णतुङ्गशैलेऽपरेऽहनि । अनन्तवीर्यं नामर्षिं वन्दितुं जातकेवलम् ॥ ६४९॥ तं वन्दित्वा यथास्थानं निषण्णो दशकन्धरः । शुश्राव च श्रोत्रसुधासारणिं धर्मदेशनाम् ॥ ६५० ॥ देशनान्ते दशास्येन कुतः स्यान्मरणं मम ? । इति पृष्टो महर्षिः स भगवानेवमभ्यधात् ॥ ६५१ ॥ पारदारिकदोषेण वासुदेवाद् भँविष्यतः । भविष्यति विपत्तिस्ते प्रतिविष्णोर्दशानन! ॥६५२॥
(सप्तमं पर्व
१. नायकोऽभवत् हे. कां. ॥। २. अष्टापदम् ॥ ३. पाषाणखण्डवत् ॥ ४. याञ्चादि ला ॥ ५. तद् याच्यसे हे. कां. पा. छा. ला. ॥ ६. चेलोत्क्षेपं मु.; 'चलत्कोपं' इति पाठान्तरे इति टि. ला. प्रतौ; यावता चेलं (वस्त्रं) क्नूयते आर्द्रीभवति तावत् (सि.हे. ५-४-५८) ।। ७. 'चूंटीने' इति भाषा ॥ ८. ग्रन्थित्वा मु. ॥ ९. अचल (पर्वत) वद् अचला (भूमि) वद् वा अचलः । १०. 'आनन्दमालिभ्राता' इतिला. टि. ।। ११. 'विद्युतमिव' इतिला. टि. ॥। १२. 'तडित्प्रभापत्न्या ' इतिला. टि. ।। १३. भक्तिवचनैः । १४. मुनिन्यक्कार० मु., मुनितिरस्कारजातात् ।। १५. दत्तवीर्यस्य पाता. विना ॥ १६. ०जन्मनः पाता. विना ।। १७. भविष्यति मु., भाविनः इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org