________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
१४५
T
भ्रातृभ्यां स्वानुरूपाभ्यां स्वभुजाभ्यामिवोत्कटः । रावणो नाम लङ्केशः सुकेशकुलभास्करः ॥ ५८७॥ [ चतुर्भिः कलापकम् ] स यमं हेलयाऽभाङ्गीत् पंत्तिं वैश्रवणं च ते। पत्तीचक्रे वानरेन्द्रं सुग्रीवं वालिसोदरम् ॥ ५८८|| दुर्लङ्घवह्निप्राकारं दुर्लङ्घ्यपुरमस्य च। प्रविष्टस्याऽनुजो बद्ध्वा जग्राह नलकूबरम् ॥५८९|| स त्वां प्रत्यापतन्नस्ति युगान्ताग्निरिवोद्धतः । प्रणिपातसुधावृष्ट्या शमनीयोऽन्यथा न तु ॥ ५९०॥ रूपिणीं च सुतामस्मै यच्छ रूपवतीमिमाम् । एवं ह्युत्तमसन्धानं सम्बन्धात् ते भविष्यति ।।५९१।। एवं पितृवचः श्रुत्वा कुप्यन्नेवमुवाच सः । कन्यका स्वा कथङ्कारमस्मै वध्याय दीयते ? ।। ५९२ ।। किं च नाऽधुनिकं वैरममुना किं तु वंशजम् । तातं विजयसिंहं प्रागेतद्गृह्यैर्हतं स्मर ।।५९३।। एतत्पितामहस्याऽपि मालिनो यन्मया कृतम् । तदस्याऽपि करिष्यामि समायात्वेष को यम् ? ५९४ ॥ स्नेहतः कातरो मा भूः सहजं धैर्यमाश्रय । स्वसूनोः सर्वदा दृष्टं किं न वेत्सि पराक्रमम् ? ।। ५९५ ॥ " तस्यैवं वदतोऽभ्येत्य नगरं रथनूपुरम् । चमूभिर्वेष्टयामास दुर्धरो दशकन्धरः ||५९६ || पूर्वमेव दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवः ॥५९७|| ये केचिदिह राजानो विद्या-दोर्वीर्यदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ।। ५९८।। दशकण्ठस्य विस्मृत्या भवतश्चाऽऽर्जवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाऽधुना । । ५९९ ।। भक्तिं दर्शय तत् तस्मिन् शक्तिं वा दर्शयाऽधुना । भक्ति-शक्तिविहीनश्चेदेवमेव विनङ्क्ष्यसि ॥ ६०० ॥ इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥ ६०१ || यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ ६०२ ॥ गत्वा स्वस्वामिनो भक्तिं शक्तिं वा मयि दर्शय । स भक्ति-शक्तिहीनश्चेदेवमेव विनङ्क्ष्यति ॥ ६०३ || दूतेनाऽऽगत्य विज्ञप्तो रावणो कोपदारुणः । समनह्यन्महोत्साहः समं सकलसैनिकैः॥६०४॥ द्रुतमिन्द्रोऽपि सन्नह्य निर्ययौ रथनूपुरात् । 'वीरा हि न सहन्तेऽन्यवीराहङ्कारडम्बरम् ।।६०५।। [ सामन्ताः सह सामन्तैः सैनिका: सैनिकैः पुनः । सेनानीभिश्च सेनान्यो द्वयोर्युयुधिरे तयोः || ६०६ ॥ तयोर्बलानामन्योऽन्यं सॅम्फेटः शस्त्रवर्षिणाम् । संवर्त्त- पुष्करावर्त्तवारिदानामिवाऽभवत् ॥ ६०७॥ वराकैः सैनिकैरेभिः किं हतैर्मशकैरिव ? । इति ब्रुवाणो भुवनालङ्कारकरिपुङ्गवम् ॥६०८॥ स्वयमारुह्य युद्धायाऽधिज्यीकृतशरासनः । अढौकतैरावणस्थेनेन्द्रेण सह रावणः ॥ ६०९॥ युग्मम्॥ नागपाशमिवाऽन्योऽन्यं मुखयोः कैरवेष्टनम् । वितन्वानौ मिमिलतुः करिणौ रावणेन्द्रयोः ॥६१०॥ द्वावपीभौ महाप्राणौ दन्तैर्दन्तान् प्रजघ्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव॥६११॥ मिथोघातैर्विषणेभ्य: सौवर्णवलयावलिः । पपातोर्व्यां विरहिणीबाहुभ्य इव तत्क्षणात् ॥ ६१२॥ तद्दन्तघातक्षुण्णेभ्यः शरीरेभ्यो निरन्तरम् । गण्डेभ्यो मदधारावद् रक्तधाराः प्रसुभ्रुवुः ॥६१३॥ क्षणाच्छल्यै: क्षणाद् बाणै: क्षणादपि च मुद्गरैः । गजाविवें द्वितीयौ तौ रावणेन्द्रौ प्रजहतुः ||६१४॥ महाबलौ पिपिषेंतुरस्त्रैरस्त्राणि तौ मिथः । नैकोऽप्यहीयतैकस्मादब्धी पूर्वापराविव ॥६१५॥ बाध्य-बाधकताभाग्भिर्द्रागुत्सर्गा-ऽपवादवत् । मन्त्रास्त्रैरप्ययुध्येतां तौ रणक्रेतुदीक्षितौ ॥६१६।। गाढं मिलितयोरेकवृन्तस्थफलयोरिव । ऐरावण भुवनालङ्कारयोः करिणोरथ ॥ ६१७|| छलज्ञो रावणः स्वेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामत्रं बबन्धेन्द्रं करीन्द्रवत् ॥ ६१८॥ युग्मम्॥ स हस्ती परितोऽधस्ताद् रक्षोवीरैरवेष्ट्यत । हर्षादुत्तालतुमुलैर्मधुमैण्ड इवाऽलिभिः ॥६१९॥
१. दिक्पालं धनदं खंता. १ - २, ला.; दिक्पालधनदं हे. कां. ला. ता. ॥। २. दुर्लङ्घ्य० खंता. १, मु. ॥ ३. अभ्यागच्छन् । ४. विविधात् ते ता. ॥ ५. कुप्यन्निदमुवाच रसंपा. ।। ६. तावद् ला ॥ ७ एतत्पक्ष्यैः ॥ ८. समायात्वेषको ह्ययम् मु. ॥ ९. वदतोऽप्येत्य ला. ॥ १०. ० दोवीर्यदर्पिता: मु.; ० दोवीर्यदर्पणा: कां. ला. ॥ ११. मत्पार्श्वात् ॥ १२. विज्ञप्ते रसंपा. ॥ १३. धीरा ला ॥ १४. युद्धम् ॥ १५. करः शुण्डा ॥ १६. प्रजहतुः ला. रसंपा. ॥। १७. दन्तेभ्यः ॥१८. विरहाकुलत्वेन कृशायाः स्त्रियो बाहुभ्यः ॥ १९. करीरीभ्यो० हे. ता.; करीरीभ्यां० ला.; करीभ्योऽपि छा. पा. ॥ २०. गजाविवाद्वि० मु., ता. पाता. प्रभृतिषु ॥ २१. प्रजघ्नतुः मु. ॥ २२. सञ्चूर्णयामासतुः ।। २३. रण एव क्रतुः यज्ञः, तत्र दीक्षितौ ॥ २४. हस्तिपकम् (महावत ) ॥ २५. 'मधपूडो' इति
For Private & Personal Use Only
भाषायाम् ॥ Jain Education International
www.jainelibrary.org