________________
१४४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व तं च वप्रम'वष्टभ्याऽवतस्थे नलकूबरः । भटैः परिवृत: कोपाज्ज्वलन् वह्रिकुमारवत् ॥५५४।। तेऽप्येत्य कुम्भकर्णाद्यास्तं द्रष्टुमपि नाऽशकन् । ग्रीष्ममध्याह्नमार्तण्डमिव सुप्तोत्थिता नराः ।।५५५।। दुर्लङ्घमेतद् दुर्लङ्घपुरमित्यपसृत्य ते। भग्नोत्साहा: कथमपि दशास्याय व्यजिज्ञपन्॥५५६।। स्वयं दशास्यस्तत्राऽगात्तं वप्रं प्रेक्ष्य तादृशम्। अपश्यंस्तद्ग्रहोपायं चिरं दध्यौ सबान्धवः॥५५७।।
अनुरक्ता दशास्यस्य नलकूबरपत्न्यथ। प्रैषीद् दूतीमुपरम्भा सा तमेत्यैवमब्रवीत्॥५५८॥ जयश्रीरिव मूर्तोपरम्भा त्वयि रिरंसते। सा त्वद्गुणैर्हतमनास्तत्र मूत्यैव तिष्ठति॥५५९।। इमांच विद्यामाशालीमस्य वप्रस्य रक्षिकाम्। करिष्यति तवाऽऽयत्तामात्मानमिव मानद! ॥५६०॥ ग्रहीष्यति तया चेदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं देव! नाम्ना सुदर्शनम्॥५६१।। सप्रहासंदशास्येन वीक्षितोऽथ बिभीषणः। एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम्॥५६२।। अथ क्रुद्धो दशग्रीव आबभाषे बिभीषणम्। अरे! कुलविरुद्धं किं प्रतिपन्नमिदं त्वया?॥५६३।। हृदयं जातुचिद् दत्तं परस्त्रीणां न कैरपि। अस्मत्कुलभवैर्मूढ! रणे पृष्ठं द्विषामिव॥५६४॥ नव: कुलकलङ्कोऽयं वचसाऽपि कृतस्त्वया । रेबिभीषण! केयं ते मतिर्येनेदमब्रवी: ? ॥५६५॥ बिभीषणोऽप्युवाचैवं प्रसीदाऽऽर्य! महाभुज! । न वाग्मात्रं कलङ्काय विशुद्धमनसां नृणाम्॥५६६।। सा समायातु विद्यां ते प्रयच्छतु स च द्विषन् । वश्योऽस्तु मा भजेथास्तां वाचोयुक्त्या परित्यजेः ।।५६७॥ यावद् बिभीषणवचोऽनुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरॅम्भलम्पटा॥५६८॥ ददौ चाऽऽशालिकां विद्यां पत्या वप्रीकृतां पुरे। मोघेतराणि शस्त्राणि व्यन्तराधिष्ठितानि च॥५६९।। दशास्य: सञ्जहाराऽग्निप्राकारं विद्यया तया। प्रविवेश च दुर्लङ्घपुरं सबलवाहन: ॥५७०॥ उत्तस्थे चाऽथ सन्ना रणाय नलकूबरः । बिभीषणेन चाऽग्राहि चर्मभस्त्रेव दन्तिना॥५७१।। देवासुरैरप्यजय्यं शक्रसम्बन्धि दुर्धरम् । चक्रंसुदर्शनं नाम तत्र प्राप चरावणः ।।५७२।। प्रणताय ततस्तस्मै दशास्यस्तत्पुरं ददौ। अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये यथा॥५७३।। उपरम्भामप्युवाच दशास्यः स्वकुलोचिताम्। भद्रे! भजाऽऽत्मभर्तारं कर्तारं विनयं मयि॥५७४।। विद्यादानाद् गुरुस्थाने मम त्वमसि सम्प्रति। स्वसृ-मातृपदे पश्याम्यन्या अपि परस्त्रियः॥५७५॥ पुत्री कामंध्वजस्याऽसि सुन्दर्युदरसम्भवा। कुलद्वयविशुद्धाया: कलङ्को मा स्म भूत् तव॥५७६।। तामित्युक्त्वाऽपर्यामासनलकबरभभुजे। अदषितां पितुर्गेहेरुषित्वेव समागताम॥५७७। नलकूबरराजेन कुम्भकर्णाग्रजोऽर्चित: । चचाल सह चाऽभिरथनूपुरपत्तनम् ॥५७८॥ आयान्तंरावणं श्रुत्वा सहस्रारो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत॥५७९|| भवता वत्स! जातेन वंशोऽस्माकं महौजसा। अन्यवंशोन्नतिं हत्वा प्रापित: प्रोन्नतिं पराम्॥५८०॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम्। नीतीनामप्यवकाशो दातव्य: सम्प्रति त्वया॥५८१।। एकान्तविक्रम: क्वाऽपि विपदेऽपि प्रजायते। एकान्तविक्रमान्नाशं शरभाद्या: प्रयान्ति हि॥५८२॥ बलीयसो बलिभ्योऽपि प्रसूते हि वसुन्धरा। सर्वेभ्योऽप्यहमोजस्वीत्यहङ्कारं स्म मा कृथाः॥५८३॥ उत्थितोऽस्त्यधुना वीर: सर्ववीरत्वतस्करः। प्रतापेन सहस्रांशुः सहस्रांशुनियन्त्रकः॥५८४।। हेलोत्पाटितकैलासो मरुत्तमखभञ्जनः । जम्बूद्वीपेशयक्षेन्द्रेणाऽप्यक्षोभितमानसः ।।५८५॥ उपार्हन्निजदोर्वीणागीततोषितचेतसः। धरणेन्द्रादमोघाप्तशक्ति: शक्तित्रयोर्जितः ॥५८६॥ १. अवलम्ब्य ।। २. दुर्लध्य० ता. ला. मु., खंता.२ ॥ ३. दशाननः खंता.२, पाता. ता. ॥४. स्वगृहे केवलं शरीरेणैव तिष्ठति, मनस्तु तस्यास्त्वयि वर्तत इति ।।५. ०माशाला० ता. ॥ ६. दैवं मु. मो. ता.॥७. अस्मत्कुलभटै० ता.।। ८. तदालिङ्गनोत्सुका ।।९. अमोघानि ॥१०. कासध्वज० रसंपा. ॥११. ०विरुद्धाया: मु.॥१२. चमूभी० खंता.१-२, पाता. ता.; सेनाभी० मो. मु. ॥१३. हित्वा हे.; हित्वा का. ।। १४. वीर! ता. ॥१५. सर्वेषां वीरत्वं लुण्टतिनाशयतीत्येतादृशस्तस्करः ।।१६. सूर्यः ।। १७. सहस्रांशु म राजा, तन्नियन्त्रकः ।। १८. अष्टापदपर्वतः ।। १९. अर्हत्समीपे निजदोर्वीणाया गीतेन प्रसादितं चित्तं यस्य तस्मात् ।। २०.०दमोघास्त्रशक्तिः पाता. ॥ २१. प्रभाव-उत्साह-मन्त्रजास्तिस्रः शक्तय:, ताभिरूर्जितो बलवान् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org