________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
पित्रा सञ्ज्ञयाऽऽदिष्टो 'मधुर्मधुरमभ्यधात्। इदं मे चमरेन्द्रेण प्राग्जन्मसुहृदाऽर्पितम् ॥ ५२० ॥ ||अवोचच्चमरश्चैवं धातकीखण्ड नामनि । द्वीप ऐरावत क्षेत्रे शतद्वारे महापुरे ॥ ५२१ ॥ सुमित्रो राजपुत्रोऽभूत् प्रभवः कुलपुत्रकः । उभावभूतां ते मित्रे वसन्त- मदनाविव ॥५२२॥ युग्मम्॥ गुरोरेकस्य पार्श्वे तौ बाल्ये जगृहतुः कलाः । सह चिक्रीडतुश्चाऽविप्रयुक्तावश्विनाविव ॥५२३॥ उद्यौवनः सुमित्रोऽथ तत्राऽभून्नगरे नृपः । महर्द्धिर्विदधे तेन प्रभवोऽप्यात्मसन्निभः ॥५२४॥ राजैकदा तुरङ्गेण हतः प्राप महाटवीम् । पल्लीपतिसुतां तत्र वनमालामुपायत ॥५२५॥ तामादाय समायातः स राजा स्वपुरे पुनः । प्रभवेण च सा प्रेक्षि रूप-यौवनशालिनी ॥५२६ ॥ तद्दर्शनात् प्रभृत्येव स मैनोभवपीडितः । दिने दिने कृशो जज्ञे कृष्णपक्ष इवोडुपः ॥ ५२७॥ असाध्यं मन्त्र-तन्त्राणां तं ज्ञात्वाऽतिकृशं नृपः । इत्यूचे बाधते किं ते ? सम्यगाख्याहि बान्धव! ॥५२८॥ अभ्यधात् प्रभवोऽप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनः स्थमपि प्रभो! ।। ५२९ ।। निर्बन्धाद् भूभुजा पृष्टः स आख्यत् कुलपुत्रकः । वनमालानुरागो मे देहदौर्बल्यकारणम् ॥५३०॥ राजाऽप्यूचे राज्यमपि त्वदर्थे सन्त्यजाम्यहम्। किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ॥५३१ ॥ इत्युक्त्वा तं विसृज्याऽथ तस्याऽनुपदमेव ताम् । स्वयं दूतीमिव प्रैषीत् तदोकसि निशामुखे ॥ ५३२॥ इत्यूचे साऽपि राज्ञाऽहं तुभ्यं दत्ताऽस्मि सीदते । जीवातुरिव तच्छाधि पत्याज्ञा मे बलीयसी ॥५३३॥ मम भर्ता त्वदर्थे हि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीन: किमीक्षसे ? ॥ ५३४|| बभाषे प्रभवोऽप्येवं धिग्धिङ् मां निरपत्रपम् । अहो ! स तु महासत्त्वो यस्येदृक् सौहृदं मयि ॥ ५३५॥ प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाऽद्य मत्कृते ॥ ५३६|| पिशुनानामिवाऽवाच्यं नाऽयाच्यं बत मादृशाम् । कल्पद्रूणामिवाऽदेयं नाऽस्ति किञ्चित्तु तादृशाम् ॥५३७॥ सर्वथा गच्छ माताऽसि मांडतः परमिमं जनम् । पश्य भाषस्व वा पापराशिं पत्याज्ञयाऽपि हि ॥५३८॥ तत्र च च्छन्नमागत्य राजा शुश्राव तद्वचः । सुहृदः सत्त्वमालोक्य प्रकर्षेण जहर्ष च ॥ ५३९ ॥ वनमालां नमस्कृत्य विसृज्य प्रभवोऽपि हि । स्वशिरश्छेत्तुमारेभे खड्गमाकृष्य पाणिना । ५४० ॥ आविर्भूय सुमित्रोऽपि मित्र! मा साहसं कृथाः । इति जल्पन्नपाहार्षीत् कृपाणं तस्य पाणितः ॥५४१ ॥ विविक्षेन्निव वसुधां प्रभवोऽधोमुखो हिया । कथञ्चन सुमित्रेण स्वस्थावस्थामैनीयत ॥५४२॥ चक्रतुस्तौ चिरं राज्यं प्राग्वन्मैत्रीपरायणौ । सुमित्रस्तु परिव्रज्य मृत्वेशानसुरोऽभ ऽभवत् ॥५४३ ॥ ततश्च्युत्वा मथुरेशहरिवहणनन्दनः । त्वं सुबाहुर्मधुनीमा माधवी कुक्षिभूरभूः ॥ ५४४ ॥ प्रभवोऽपि भवं भ्रान्त्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इति नाम्ना तैनूरुहः ।। ५४५ ।। सनिदानं तपः कृत्वा कालयोगाद् विपद्य च । अभवं चमरेन्द्रो ऽहं पूर्वजन्मसुहृत् तव ॥ ५४६ ॥ इत्याख्याय स मेऽदत्त शूलमेतदुपेत्य यत् । आयोजनद्विसहस्याः कृत्वा कार्यं निवर्तते ॥५४७॥ इति श्रुत्वा दशग्रीवो भक्ति-शक्तिविराजिने । ददौ मधुकुमाराय कन्यां नाम मनोरमाम् ॥ ५४८।। ॥अथ लङ्काप्रयाणाहाद् वर्षेष्वष्टादशस्वगात् । स्वर्णाद्रौ पाँण्डके चैत्यान्यर्चितुं दशकन्धरः ॥५४९।। सोत्कण्ठस्तत्र चैत्यानि दशकण्ठोऽभ्यवन्दत । ऋद्ध्या महत्या सङ्गीत-पूजोत्सवपुरःसरम् ॥५५०॥ दुर्लच्चनगरेऽथेन्द्रदिक्पालं नलकूबरम् । ग्रहीतुं कुम्भकर्णाद्या दशग्रीवाज्ञया ययुः ॥५५१॥ आशाली विद्यया वह्निमयं वप्रमथ व्यधात् । स्वपुरे योजनशतप्रमाणं नलकूबरः ।। ५५२॥ हुताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रेंदीपनमिव व्योम्नि कुर्वाणानि शिखोत्करैः ॥५५३॥
१४३
१. मधुरं मधुरमभ्यधात् मु.॥ २. दशद्वारे पाता. ॥ ३. अवियोगिनौ देववैद्याविव ॥ ४. कामपीडितः ॥ ५. चन्द्रः ॥ ६. आग्रहात् ।। ७. दुःखिने ।। ८. आदिश ।। ९. निर्लज्जम् ॥ १०. नाऽतः मु. ॥। ११. सा मु. ॥। १२. प्रवेष्टुमिच्छन् । १३. ० मनायि सः ला. कां. ता. मु. ॥ १४. ० हरिवाहन० ला. ता. ।। १५. ०र्मधुर्नाम० ला. ।। १६. पुत्रः ।। १७. ०पाण्डकचैत्या० ला ॥ १८. दुर्लङ्घपुरेऽथेन्द्रप्राग्दिक्पालं० ला. हे. कां. ला. ॥ १९. आशाला० ता. ॥ २०. 'तापणुं ' इति भाषायाम्, अग्निम् ॥ २१. शरोत्करैः खंता. १; ज्वालासमूहैः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org