________________
१४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व यदा न प्राप्नुयात् कूर्मं तदा शुद्धद्विजन्मनः । 'खलते: 'पिङ्गलाभस्य 'विक्रियस्य शुचौ जले॥४८८॥ आस्यदघ्नेऽवतीर्णस्य मस्तके कूर्मसन्निभे। प्रज्वाल्य ज्वलनं दीप्तमाहुतिं निक्षिपेद् द्विजः॥४८९॥युग्मम्।। सर्वं पुरुष एवेदं यद् भूतं यद् भविष्यति । ईशानो योऽमृतत्वस्य यदन्नेनाऽतिरोहति ॥४९०।। एवमेकत्र पुरुषे किं केनाऽत्र विपाद्यते ? । कुरुताऽतो यथाभीष्टं यज्ञे प्राणनिपातनम्॥४९१।। मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । यायजूकेन पूतं हि देवोद्देशेन तत्कृतम्॥४९२॥ इत्यादि समुपदिश्य सगरे स्वमतस्थिते। अन्तर्वेदि कुरुक्षेत्रादिषु सोऽकारयन्मखान् ।।४९३॥ सलब्धप्रसरोऽकार्षी राजसूयादिकानपि। असुरोऽप्यध्वरहतान् विमानस्थानदर्शयत्॥४९४॥ ततः सप्रत्ययो लोक: प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत् तस्य पर्वतस्य मते स्थितः॥४९५।। तत्प्रेक्ष्याऽहं तदा विद्याधरं नाम्ना दिवाकरम्। अवोचं यत् त्वया यज्ञे हर्तव्या: पशवोऽखिलाः॥४९६।। प्रतिपद्य स मे वाचंजहे यावत् पशून मखे। परमाधार्मिकस्तावत् तदज्ञासीत् सुराधमः॥४९७।। ऋषभप्रतिमांतत्र तद्विद्याघातनाय सः। अस्थापयन्महाकाल उपारंसीच्च खेचरः॥४९८॥ ततोऽहमपि तूष्णीक: क्षीणोपायोऽन्यतोऽभ्यगात्। यज्ञेषुभावयामास सगरं सोऽथ मायया॥४९९॥ सगरं सुलसायुक्तं स जुहावाऽध्वरानले। कृतकृत्यो जगामाऽथ महाकाल: स्वमाश्रयम्॥५००|| एवं चपर्वतात् पापपर्वतादध्वरा द्विजैः । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैव हि॥५०१|| तद्वाचमुररीकृत्य प्रणिपत्य च नारदम् । मरुत्तात् क्षमयित्वा च विससर्ज दशाननः॥५०२॥ मरुत्तो रावणं नत्वोवाच कोऽयं कृपानिधिः। पापादमुष्माद्यो ह्यस्मांस्त्वया स्वामिन्! न्यवारयत् ? ।।५०३।। आचख्यौ रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्य सतस्तस्य भार्या कूर्मीति गुळभूत् ।।५०४।। तत्रेयुः साधवोऽन्येद्युस्तेष्वेकः साधुरब्रवीत्। भवभीत्या गृहवासस्त्यक्तो यत् साधु साधु तत् ॥५०५॥ भूय: स्वदारसङ्गस्य विषयैर्लुप्तचेतसः । गृहवासाद् वनवास: कथं नाम विशिष्यते ? ॥५०६॥ श्रुत्वा ब्रह्मरुचिस्तत् तु प्रपन्नजिनशासन: । तदैव प्राव्रजत् सा चकूयंभूच्छ्राविका परा॥५०७।। मिथ्यात्ववर्जिता तत्र सा वसन्त्याश्रमे सुतम्। सुषुवे नारदं नाम रोदनादिविवर्जितम् ।।५०८॥ गतायाश्चाऽन्यतस्तस्यास्तं जहुर्जुम्भकामराः। पुत्रशोकादिन्दुमालार्यान्तिके प्राव्रजच्च सा॥५०९।। तेऽमरा: पालयामासुः शास्त्राण्यध्यापयंश्च तम्। आकाशगामिनी विद्यां ददुस्तस्मै क्रमेण च॥५१०॥ अणुव्रतधरः प्राप यौवनं च मनोहरम्। स शिखाधारणान्नित्यं न गृहस्थो न संयतः॥५११।। कलहप्रेक्षणाकाङ्क्षी गीत-नृत्यकुतूहली। सदा कन्दर्प-कौत्कुच्य-मौखर्यात्यन्तवत्सलः॥५१२॥ वीराणां कामुकानां च सन्धि-विग्रहकारकः । छत्रिका-ऽक्ष-वृषीपाणिरारूढ: पादुकासुच॥५१३॥ देवै: संवर्धित्वाच्च देवर्षिः प्रथितो भुवि। प्रायेण ब्रह्मचारी चस्वेच्छाचार्येष नारदः ॥५१४॥ इत्युक्तवन्तंलकेशमज्ञानकृतमात्मनः । मरुत्तः क्षमयामासाऽपराधं मखसम्भवम् ।।५१५।। मरुत्तराज: स्वां कन्यां नामत: कनकप्रभाम् । तदा ददौ दशास्याय दशास्योप्युदुवाह ताम्॥५१६।। पप्रेभञ्जन इवौजस्वीमरुत्तमखभञ्जनः। ततो जगाम मथुरां नगरीगुरुविक्रमः॥५१७।। उपतस्थे दशग्रीवं तन्नृपो हरिवोहणः। पुत्रेण मधुना सार्धमीशानेनेव शूलिना॥५१८।। तंभक्त्योपस्थितं प्रीतो वार्तयन् दशकन्धरः । पप्रच्छैव भवत्सूनो: कुतोऽदः शूलमायुधम् ? ॥५१९।। १. 'खल्वाटस्य,टालियुते शिरसि' टि. हे.प्रतौ ॥२. 'पिङ्गला आभा यस्य'टि. हे.प्रतौ॥३. विशिष्टा क्रिया यस्य' टि. हे.प्रतौ ॥ ४.मुखप्रमाणे॥५. प्रक्षिपेद् मु.॥६.“अमृतत्वं अजरामरपदम्" टि. हे.प्रतौ॥५.“अन्नेन-आहारेण अतिरोहति-वर्धते" टि. हे.प्रतौ ।। ८.“एकत्र सर्व-वस्तुमये पुरुषे सति किं वस्तु केन पुरुषेण अत्र विश्वे विनाश्यतेऽपि तु केनाऽपि किमपि न विनाश्यते, कस्याऽपि हिंसाजनितं पापं न लगतीत्यर्थः'' टि. हे.प्रतौ ॥९.क: केनाऽत्र ता. ॥१०. विपद्यते ला. मु.,खंता.१-२, पाता.ला.॥११. पुन: पुनर्यजतीति यायजूकस्तेन ॥ १२. समुपादिश्य मु.॥ १३. तं सत्कृत्य रसंपा. ॥१४. गर्भवती ॥१५. सदार० हे. कां.ला. मो.॥१६. पुत्रशोकादिन्दुमालासविधे मु.॥१७. ०नृत्त० रसंपा.॥१८. कामचेष्टित-वाचालत्वयोरत्यन्तवत्सलः॥१९. ०कौकुच्य० मु.॥२०. दर्भासनविशेषो वृषी।। २१. महावायुः ॥२२. हरिवाहन: मु.ला.॥२३. शङ्करेण त्रिशूलधारिणा ॥२४. प्रीतोऽवार्तयद्दश० मु. खंता.१-२ प्रभृतिषु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org