________________
१४१
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । पाकोऽयं महाकाल इति पृष्टो दशमुखेन तु। उवाच नारदोऽत्राऽस्ति चारणयुगलं पुरम् ॥४५५।। राजा तत्राऽयोघनोऽभूदु दितिर्नाम्नां च तत्प्रिया। तयोश्चसुलसा नाम दुहिता रूपशालिनी॥४५६।। पित्रा स्वयंवरे तस्या आहूता: समुपाययुः। सर्वेऽपि पार्थिवास्तेषु पार्थिव: सगरोऽधिकः॥४५७।। सगरस्याऽऽज्ञया द्वा:स्था मन्दोदर्यभिधानतः। अयोधननृपावासे जगाम प्रतिवासरम्॥४५८।। एकदा च गृहोद्यानकदलीसदनेऽविशत्। दितिः समंसुलसया मन्दोदर्यपि चाऽऽययौ॥४५९॥ लतान्तरंनिलीनाऽथ श्रोतुकामा तयोर्वचः। तस्थौ मन्दोदरी प्रोचे दितिश्च सुलसामिति॥४६०॥ वत्से! मम मन:शल्यमस्ति तेऽस्मिन् स्वयंवरे । त्वदधीनस्तदुद्धारस्तत् सम्यक् शृणु मूलतः॥४६१।। ऋषभस्वामिनोऽभूतामुभौ वंशधरौ सुतौ। भरतो बाहुबलिश्चसूर्य-सोमौ ययोः सुतौ॥४६२॥ सोमवंशे मम भ्राता तृणबिन्दुरजायत।सूर्यवंशे ते पिताऽसावयोघनमहीपतिः॥४६३॥ अयोधनस्वसा सत्ययशा नाम महीपतेः । तृणबिन्दोरभूद्भार्या मधुपिङ्गस्तयोः सुतः॥४६४।। तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि! । प्रदित्सते त्वत्पिता त्वां स्वयंवरवराय तु॥४६५।। न जाने कं वृणोषि त्वं? मन:शल्यमिदं मम। वरणीयस्त्वया राजमध्ये मद्भ्रातृजस्तत:॥४६६।। सुलसाऽपि हि तच्छिक्षां तथैव प्रत्यपद्यत। मन्दोदर्यपि तच्छ्रुत्वाऽऽचख्यौ सगरभूपतेः ।।४६७।।
सगरोऽप्यादिशद् विश्वभूतिं निजपुरोधसम्। सद्य: कवि: सोऽपि चक्रे राजलक्षणसंहिताम्॥४६८।। तत्रोचे स तथा येन समस्तै राजलक्षणैः । सगरो जायते युक्तो हीनस्तु मधुपिङ्गलः॥४६९।। तत्पुस्तकं तु पेटायां स चिक्षेप पुराणवत्। राजाज्ञयाऽन्यदाऽऽकृष्टं तेन तद्राजपर्षदि॥४७०।। तत्राऽऽदौ सगरोऽवोचद् वाच्यमानेऽत्र पुस्तके। भवेल्लक्षणहीनो यो वध्यस्त्याज्यश्च सोऽखिलैः।।४७१।। यथा यथाऽवाचयत् तत्पुस्तकं स पुरोहितः। तथा तथा स जिह्राय मधुपिङ्गोऽपलक्षणः॥४७२।। निर्ययौ मधुपिङ्गोऽथसगरं सुलसाऽवृणोत् । जज्ञे विवाह: सद्योऽपि सर्वे स्वं स्थानमभ्ययुः ॥४७३।। पामधुपिङ्गोऽप्यपमानात् कृत्वा बालतपो मृत: । महाकालाभिध: षष्टिसहस्रंशोऽसुरोऽभवत् ॥४७४॥ अज्ञासीदेवधे: सोऽथ सगरस्य विजृम्भितम् । स्वयंवरे सुलसाया निजं न्यक्कारकारणम् ।।४७५॥ राजानं सगरं राज्ञोऽन्यांश्च हन्मीति सोऽसुरः। छिद्रान्वेषी शुक्तिमतीनद्यां पर्वतमैक्षत॥४७६।। विप्रवेषस्ततो भूत्वा गत्वा पर्वतमभ्यधात्। शाण्डिल्यो नाम मित्रं त्वत्पितुरस्मि महामते! ॥४७७।। धीमतो गौतमाख्यस्योपाध्यायस्य पुर: पुरा। अहं क्षीरकदम्बश्चाऽपठावसहितावुभौ॥४७८।। नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्पक्षं पूरयिष्यामि मन्त्रैर्विश्वं विमोहयन्॥४७९।। इत्युक्त्वा पर्वतयुत: कुधर्मेणाऽखिलं जनम्। असुरो मोहयामास दुर्गतौ पातनाय सः॥४८०।। व्याधि-भूतादिदोषांश्च सर्वत्राऽजनयन् जने। प्रपन्नपर्वतमतं निर्दोषंचचकार सः॥४८१॥ शाण्डिल्यस्याऽऽज्ञया सोऽपि रुक्छान्तिं पर्वतो व्यधात्। उपकृत्योपकृत्य स्वमते चाऽस्थापयज्जनम्॥४८२॥ सगरस्याऽपि नगरेऽन्त:पुरेऽथ परिच्छदे। विचक्रे सोऽसुरो रोगान् दारुणानतिभूयसः॥४८३।। लोकप्रत्ययतो भेजे पर्वतं सगरोऽपि हि। चकार शाण्डिल्ययुतो रुक्छान्तिं सोऽपि सर्वतः ॥४८४।। सौत्रीमण्यां विधानेन सुरापाणं न दुष्यति। अगम्यागमनं कार्यं यज्ञे गोसर्वनामनि ॥४८५॥ मातृमेधे वधो मातुः पितृमेधे वधः पितुः। अन्तर्वेदि विधातव्यो दोषस्तत्र न विद्यते॥४८६।।
आशुशुक्षणिमाधाय पृष्ठे कूर्मस्य तर्पयेत्। हविषा जुह्वकाख्याय स्वाहेत्युक्त्वा प्रयत्नतः॥४८७।। १. मि च खंता.१-२ ॥ २. द्वारपालिका ।। ३. लतान्तरविलीना० खंता.१-२, पाता. मु. ।। ४. तयोः कां. छा. पा. ॥ ५. प्रदातुमिच्छति ।। ६. तद्गत्वाऽऽचख्यौ मो. ।। ७. भूभुजे ता. ।। ८. नृप० मु. ।। ९. तत्र पुस्तके स विश्वभूतिपुरोहित: तथा रचयामासेत्यर्थः ।। १०. ०लक्षणन्यूनो ता. ॥११. ०स्ताड्यश्च पाता. ॥१२. लज्जां प्राप।।१३. “षष्टिवर्षसहस्रायुरसुरोऽभवत्" टि.हे.प्रतौ ॥१४. अवधिज्ञानात् ।। १५. तिरस्कारकारणम् ।। १६. गोतमा० ता.।। १७. तिरस्कृतम् ।।१८. अङ्गीकृतं पर्वतस्य मतं येन तं नरम् ।। १९. रोगशान्तिम् ॥२०.पर्वत: खंता.१, पाता. ॥ २१. यज्ञस्य नाम तत्र ।। २२. सुरापानम् मु.।। २३. अगम्यायाः खिया: गमनं-सङ्गः ।। २४. गोवध० खंता.१॥२५. अग्निम्।।
परुक्छान्ति समपर्वतमतंरिता पातनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org