________________
१४०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व साक्षेपं पर्वतोऽजल्पदजान् मेषान् गुरुर्जगौ। गुरूपदेशशब्दार्थो लङ्घनाद्धर्ममर्जसि ? ॥४२४॥ मिथ्याभिमानवाचो हि न स्युदण्डभयानृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेद: पणोऽस्तु नः॥४२५।। प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः। प्रत्यश्रौषमहं तच्च न क्षोभ: सत्यभाषिणाम् ॥४२६॥ रह: पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम्। अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥४२७॥ जिह्वाच्छेदं पणेऽकार्षीर्य दर्पात् तदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥४२८॥ अवदत् पर्वतोऽप्येवं कृतं तावदिदं मया। यथा तथा कृतस्याऽम्ब! करणं न हि विद्यते॥४२९।। साऽथ पर्वतकापायपीडया हृदिशल्यिता। वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥४३०॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब! त्वमसीक्षिता। किं करोमि ? प्रयच्छामि किं वेत्यभिदधेवसुः॥४३१॥ साऽवादीद्दीयतां पुत्रभिक्षां मह्यं महीपते! । धन-धान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक! ॥४३२॥ वसुरूचे ततो मेऽम्ब! पाल्य: पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः॥४३३।। कस्याऽद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा ? । को जिघांसुर्धातरं मे ? ब्रूहि मात:! किमातुरा ? ॥४३४।। अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणं कृतश्चाऽसीत्याख्यायाऽर्थयते स्म सा॥४३५।। कुर्वाणो रक्षणं भ्रातुरजान् मेषानुदीरय। प्राणैरप्युपकुर्वन्ति महान्त: किं पुनर्गिरा ? ॥४३६।। अवोचत वेसुर्मातर्मिथ्या वच्मि वच: कथम् ? । प्राणात्ययेऽपि न शंसन्ति नाऽसत्यं सत्यभाषिणः॥४३७।। अन्यदप्यभिधातव्यं नाऽसत्यं पापभीरुणा। गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? ॥४३८॥ बहकुरु गुरोः सूनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमस्त पार्थिवः ।।४३९।। पाततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । अयाव पर्वतोऽहं च वसुराजस्य पर्षदि॥४४०॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिनांसदर्सद्वादक्षीर-नीरसितच्छदाः ।।४४१|| आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः ॥४४२।। तत: पर्वतकोऽहं च व्याख्यापक्षं निजं निजम् । अशंसाव नरेन्द्राय सत्यं ब्रूहीति भाषिणौ।।४४३॥ विप्रवृद्धैरथोचेस विवादस्त्वयि तिष्ठते। प्रमाणमनयो: साक्षी त्वं रोदस्योरिवाऽर्यमा ॥४४४।। घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद् वर्षति पर्जन्य: सत्यात् सिध्यन्ति देवताः॥४४५।। त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते! । त्वामिहाऽर्थे ब्रूमहे किं ? ब्रूहि सत्यव्रतोचितम् ॥४४६।। वैचोऽश्रुत्वेव तत्सत्यप्रसिद्धिं स्वां निरस्य च। अजान् मेषान् गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात्॥४४७।। असत्यवचसा तस्य क्रुद्धास्तत्रैव देवता: । देलयामासुराकाशस्फटिकासनवेदिकाम् ॥४४८॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले। पंपात सद्यो नरकपातं प्रस्तावयन्निव॥४४९।। देवताभिरसत्योक्तिकुपिताभिर्निपातितः। जगाम नरकं घोरं नरनाथो वसुस्ततः॥४५०॥ वसोः सुता: पृथुवसुश्चित्रवसुश्च वासवः । शक्रो विभावसुर्विश्वावसुः सूरश्च सप्तमः ।।४५१।। अष्टमश्च महाशूरो निषण्णा: पैतृके पदे। देवताभिरहन्यन्त तत्कालमपि कोपतः ।।४५२॥ सुवसुर्नवमः सूनुर्नंष्ट्वा नागपुरं ययौ । बृहद्ध्वजो वैसो: सूनुर्दशमो मथुरां पुनः॥४५३।। हसित्वा बहुधा पौरैस्तस्या: पुर्याश्च पर्वत:। निर्वासित: सञ्जगृहे महाकालासुरेण सः॥४५४॥ १. साक्षेप: खंता.२, रसंपा. ॥२.०लङ्घनाधर्ममर्जसि खंता.१, पाता. ला. ॥ ३. जिह्वाच्छेदपणो० खंता.१-२, पाता. ला. कां. मो. मु. ता. ॥४. अङ्गीचक्रे॥५. सदा गृहरताऽप्यहम् खंता.१ ।। ६. उपाय: ।। ७. श्रुति: हे. कां. मो.; वेदवचनात् ।। ८. प्रमाणीकृत० रसंपा. ।। ९. वसुरिति मिथ्या० पाता. ।। १०. बहुं कुरु० ला.; बह मानय ।। ११. वादिनः रसंपा. ॥१२. सन् च असन् च सदसन्तौ, तौ च तौ वादो च सदसद्वादी, तावेव क्षीर-नीरे – दुग्ध-जले, तयोः पृथक्करणे सितच्छदा-हंसाः॥१३. सिंहासने ला. छा. पा. मो. ॥१४. सभापतिरुपाविक्षन्नभस्तल इवोडुप: ला. छा. पा.; सभापतिरुपाविक्षन्नभ:स्थल. मो. ॥ १५. नभःस्थल० हे. ॥ १६. विप्रवृद्धैरथोक्त: पाता. ॥ १७. ४४४तमश्लोकादनन्तरं हे.-मो.प्रत्योरेक: श्लोकोऽधिक: प्राप्यते – “जल१मग्निरर्घट:३ कोशो४, विष५ माषाश्च तन्दुला:७। फालं८धर्म:९ सुतस्पर्शो१०, दिव्यानां दशकं जगुः ॥" १८. त्वया च खंता.१-२॥ १९. वचोऽश्रुत्वाऽथ पाता.; वचोऽश्रुत्वेति रसंपा.; वचः श्रुत्वेति मु. मो. ॥२०. असत्यवचनात् कां. ॥ २१. दलयन्ति स्म चाकाश० ला. छा. पा. मो. ।। २२. पतित: पा. छा. मो. ।। २३. वसुसूनु० रसंपा. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org