________________
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । एभ्य: को यास्यति स्वर्ग ? नरकं कौ च यास्यत:? । जिज्ञासुरित्युपाध्यायोऽस्मांस्त्रीन् युगपदाह्वयत् ॥३९०॥ समर्प्य गुरुरस्माकमेकैकं पिष्टकुक्कुटम् । उवाचाऽमी तत्र वध्या यत्र कोऽपि न पश्यति॥३९१।। वसु-पर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतु: पिष्टकुक्कुटौ॥३९२॥ दवीयसि प्रदेशे तु गत्वाऽहं नगरान बहिः। स्थित्वा च विजने देशे दिश: प्रेक्ष्येत्यतर्कयम्॥३९३॥ गुरुपादैरदस्तावदादिष्टं वत्स! यत् त्वया। वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति॥३९४।। असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचरा: । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि हि॥३९५।। नाऽस्त्येव स्थानमपि तद् यत्र कोऽपि न पश्यति। तात्पर्यं तद् गुरुगिरांन वध्यः खलु कुक्कुटः॥३९६।। गुरुपादा: दयावन्त: सदा हिंसापराङ्मुखाः। अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥३९७।। विमृश्यैवमहत्वैव कुक्कुटं चाऽहमागमम् । कुक्कुटाहनने हेतुं गुरोर्व्यज्ञपयं च तम्।।३९८॥ स्वर्गं यास्यत्यसौ तावदिति निश्चित्य गौरवात्। आलिङ्गितोऽहं गुरुभिः साधुसाध्वितिभाषिभिः ॥३९९।। वसु-पर्वतको पश्चादागत्यैवं शशंसतुः। निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति॥४००॥ अपश्यतं युवामादावपश्यन् खेचरादयः। कथं हतौ कुक्कुटौ रे! पापावित्यशपद् गुरुः॥४०१॥ तत: खेदादुपाध्यायो दध्यौ विध्यातपाठधी: । मुधा मेऽध्यापनक्लेशो वसु-पर्वतयोरभूत्॥४०२।। गुरूपदेशो हि यथापात्रं परिणमेदिह। अभ्राम्भ: स्थानभेदेन मुक्ता-लवणतां व्रजेत् ॥४०३।। प्रिय: पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद् गृहवासेन किं मम? ॥४०४।। निर्वेदादित्यपाध्याय: प्रव्रज्यामग्रहीत तदा। तत्पदंपर्वतोऽध्यास्तव्याख्याक्षणविचक्षणः॥४०५॥ भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः। पुनरेव निजं स्थानमहं तु गतवांस्तदा ॥४०६॥ निपचन्द्रोऽभिचन्द्रोऽपिजग्राह समये व्रतम्। ततश्चाऽभूदु वसू राजा वासुदेवसम: श्रिया॥४०७। सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले। तां प्रसिद्धिमपि त्रातुंसत्यमेव जगाद सः॥४०८।। अथैकदा मृगयुणा मृगाय मृगयाजुषा। चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत्॥४०९॥ इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः। आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन्॥४१०॥ सदध्याविति मन्येऽस्यां सङ्क्रान्त: परतश्चरन् । भूमिच्छायेव शीतांशावदर्शि हरिणो मया॥४११।। पाणिस्पर्शं विना नेयं सर्वथाऽप्युपलक्ष्यते। अवश्यं तदसौ योग्या वसोवसंमतीपतेः॥४१२॥ रहो व्यज्ञपयद् राज्ञे गत्वा तां मृगयु: शिलाम् । हृष्टो जग्राह राजाऽपि ददौ चास्मै महद्धनम् ॥४१३॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नाऽऽत्मीया: कस्यचिन्नृपाः॥४१४॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः॥४१५।। सत्येन तुष्टा: सान्निध्यमस्य कुर्वन्ति देवता: । एवमूर्जस्विनी तस्य प्रसिद्धिानशे दिश: ॥४१६।। तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥४१७॥ पतत्राऽन्यदाऽहमभ्यागामद्राक्षमथ पर्वतम्। व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥४१८॥ अजैर्यष्टव्यमित्यत्र मेषैरित्युपदेशकम्। तमवोचमहं भ्रातर्धान्त्या किमिदमुच्यते?॥४१९।। त्रिवार्षिकाणि धान्यानिन हिजायन्त इत्यजाः। व्याख्याता गुरुणाऽस्माकं व्यस्मार्षी: केन हेतुना?॥४२०॥ तत: पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिता: किं त्वजा मेषास्तथैवोक्ता निर्घण्टुषु ॥४२१।। अवोचमहमप्येवं शब्दानामर्थकल्पना। मुख्या गौणी च तत्रेह गौणी गुरुरचीकथेत्॥४२२।। गुरुर्धर्मोपदेष्टैव श्रुतिधर्मात्मिकैव च। द्वयमप्यन्यथा कुर्वन् मित्र! मा पापमर्जय॥४२३॥ १. दात खंता.१, पाता. ला. ॥२. आत्मने हिताम् ।। ३. अतिदूरवर्तिनि ॥४. कुक्कुटः ।।५. यास्यत्ययं मु.॥६. विध्याता-शान्ता पाठस्य-अध्यापनस्य धीर्यस्य ।। ७. व्याख्यायां विचक्षणः ।। ८. व्याधेन ।। ९. मृगयायुजा खंता.१-२; मृगयां कुर्वता ॥१०. बाणः ॥ ११. अन्यतः ॥ १२. तस्मै मो. ॥ १३. च्छन्नस्वासन० खंता.१; प्रच्छन्नं यथा स्यात् तथा॥१४. तस्य पाता.।।१५. वसुनृपस्य ।।१६. महती॥१७. बुद्धिमताम् ।। १८. कोशेषु ।। १९. सिद्धहेममतेन 'अचकथत्' एव भवितुमर्हति, अन्यमताश्रयणेनाऽत्राऽन्यत्राऽपिच 'अचीकथत्' इति ॥२०.०धर्मात्मकैव मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org