________________
१३७
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च। तेन 'पर्यस्यमाणत्वात् काममुल्लठितं पयः॥३२२॥ रोधसी प्लावयित्वोभे वेगाद्वारीदमुद्धतम् । इह तेप्लावयामास देवपूजां दशाननः ।।३२३॥ पश्यैतानि च तत्स्त्रीणां निर्माल्यानि दशानन! । रेवातीरे तरन्त्युच्चैस्तदभिज्ञानमादिमम् ॥३२४।। तदङ्गनाजनस्याऽङ्गरागैर्मृगमदादिजैः । इदमत्याविलं वारि दुर्वारं वीरवारण! ॥३२५।। इति तद्विरमाकर्ण्य प्राप्याऽऽहतिमिवाऽनल:। उद्दिदीपेऽधिकं चैवमुवाच चदशाननः ॥३२६।। अरे मुमूर्षुणा तेन वारिभि: स्वाङ्गदूषितैः । दूषिता देवपूजेयं देवदूष्यमिवाऽञ्जनैः ॥३२७।। तद्यात राक्षसभटास्तं पापं भटमानिनम् । बद्ध्वा समानयत भो! मत्स्यमानायिका इव॥३२८॥ उच्चस्तेनैवमादिष्टा अनुरेवं दधाविरे। लक्षशो राक्षसभटा रेवोर्मय इवोद्भटाः॥३२९॥ तीरस्थितैः सहस्रांशुसैनिकै: सह ते रणम् । गजा वनान्तरगजैरिव चक्रुर्निशाचराः॥३३०।। विद्याभिर्मोहयन्तस्ते भूमिष्ठांस्तान् नभ:स्थिताः । उपदुद्रुवुरम्भोदा: शरभान् करकैरिव॥३३१।। स्वानुपद्रयमाणांस्तु प्रेक्ष्य क्रोधधुताधरः।चलत्पताकहस्तेनाऽऽश्वासयन् प्रेयसीनिजाः ॥३३२॥ ऐरावण: सुरसिन्धोरिवरेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यं चधनुर्व्यधात्॥३३३॥(युग्मम्) बाणैर्विद्रावयामास रक्षोवीरान् नभ:स्थितान्। सहस्रांशुर्महाबाहुस्तूंलपूलानिवाऽनिलः॥३३४॥ व्यावृत्तांस्तान् रणात् प्रेक्ष्य सङ्घद्धोरावणः स्वयम् । उपतस्थेसहस्रांशुमभि वर्षञ्छिलीमुखान् ॥३३५।। द्वावप्यमर्षणौ द्वावप्यूर्जितौ द्वावपि स्थिरौ। विविधैरायुधैर्युद्धं विदधाते चिराय तौ॥३३६।। दोर्वीर्येणाऽविजय्यं तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वेभमिव माहिष्मतीपतिम्॥३३७।। तं प्रशंसन् महावीर्यं जित्वाऽपि जितमान्यथ। अनुत्सिक्तो दशग्रीवः स्कन्धावारेऽनयत् स्वयम्॥३३८।। पसभायां यावदासीनस्तस्थौ हृष्टो दशाननः । चारणश्रमणस्तावच्छतबाहुः समाययौ ॥३३९॥ सिंहासनात् समुत्थाय त्यक्त्वा च मणिपादुके। अभ्युत्तस्थौ दशास्यस्तं पयोदमिव बर्हिणः ॥३४०।। पपात पादयोस्तस्य पञ्चाङ्गस्पृष्टभूतलः। रावणो मन्यमानस्तमर्हद्गणधरोपमम्॥३४१।।
आसने चाऽऽसँयामास तं मुनि स्वयमर्पिते। प्रणम्य च दशग्रीवः स्वयमुर्त्यामुपाविशत् ।।३४२॥ विश्वास इव मूर्तिस्थो विश्वाश्वासनबान्धवः । धर्मलाभाशिषं तस्मै सोऽदात् कल्याणमातरम् ।।३४३।। बद्ध्वाऽञ्जलिं रावणेन समागमनकारणम् । मुनिष्ठः परिपृष्टोऽभाषिष्टाऽदुष्टया गिरा॥३४४।। शतबाहुरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादितो भीत: शार्दूल: पावकादिव॥३४५|| सहस्रकिरणे राज्यमारोप्य निजनन्दने । मोक्षाध्वस्यन्दनप्रायमहं व्रतमशिश्रियम्॥३४६।। इत्योक्ते दशग्रीवो नमद्ग्रीवोऽब्रवीदिति। किमसौ पूज्यपादानामङ्गजन्मा महाभुजः ? ॥३४७||
आमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिर्जयप्रक्रमेणाऽहमिहाऽऽगच्छं नदीतटे॥३४८।। दत्तावासस्तटेऽमुष्मिञ्जिना! विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्तन्मयोऽभवम्॥३४९।। अमुना तावदुन्मुक्तैर्निजस्नानमलीमसैः । वारिभि: प्लाविता पूजा तेनाऽकार्षमिदं क्रुधा॥३५०॥(युग्मम्) अज्ञानादमुनाऽप्येतत् कृतं मन्ये महात्मना। त्वत्सूनुरेष किं कुर्यादर्हदाशातनां क्वचित् ? ॥३५१॥ एवमुक्त्वा सहस्रांशुं तत्रीऽऽनैषीद् दशाननः । लज्जानम्रानन: सोऽपि ननाम पितरं मुनिम्॥३५२।। रावणस्तं बभाणैवं भ्राता मे त्वमत: परम् । तवेव यन्ममाऽप्येषशतबाहमुनिः पिता॥३५३।।। गच्छ शाधि निजं राज्यं गृहाणाऽन्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्वं चतुर्थोऽस्यंशभाक् श्रियः॥३५४॥ एवमुक्तश्च मुक्तश्च सहस्रांशुरदोऽवदत् । न हि राज्येन मे कृत्यं वपुषा वाऽप्यत: परम्।।३५५।। १. परिक्षिप्यमाणत्वात्॥२. शीघ्रतयाऽवहत् ।। ३. चिह्नम् ।। ४. अतिपङ्किलम् ॥५. धीवराः॥६.अष्टापदान्॥७. ०श्वासयत् इति पाठः पाता. विना सर्वत्र मुद्रिते च ।। ८. गङ्गायाः ।। ९. न कुत्राऽपि प्रतौ मुद्रिते वा ।। १०. ०स्तृण० मु. ॥११. बाणान् ।। १२. क्रुद्धौ ।। १३. तेजस्विनी ।। १४. विजेतुमशक्यम् ॥ १५. जित्वाऽप्यजित० ता.; आत्मानं जितं मन्यते इति॥१६. गर्वरहितः।।१७. मयूरः ।।१८. चाऽऽसयाञ्चक्रे खंता.१-२, हे. मो. ता. ॥१९. विश्वमाश्वासयतीति विश्वाश्वासनः, स चाऽसौ बान्धवश्चेति विग्रहः ।। २०. मुनिषु प्रष्ठः श्रेष्ठः ।। २१. मोक्षमार्गरथप्रायम् ॥ २२. पुत्रः ।। २३. ओमि० मु. ।। २४. दिग्जयाय क्रमेणा० कां. मु.खंता.१-२, पाता. ला. ॥ २५. नत्वा० खंता.१-२, पाता. ला. मु.॥२६. तवेवाऽयं ममा० मु. ।। २७. भागी।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org