________________
१३५
द्वितीय: सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् । भूयो भूयोऽपराधानां कर्ताऽहं त्वयि 'निस्त्रपः । उत्कृपस्त्वं च सोढाऽसि महात्मन्! शक्तिमानपि॥२५८॥ मन्ये मयि कृपां कुर्वन्नुर्वी प्रागत्यज: प्रभो! । न त्वसामर्थ्यतस्तत्तु नाऽज्ञासिषमहं पुरा ॥२५९॥ अज्ञानान्नाथ! तेनेयं स्वशक्तिस्तोलिता मया। अद्रिपर्यसने यत्नं कलभेनेव कुर्वता।।२६०॥ ज्ञातमन्तरमद्येदं भवतश्चाऽऽत्मनोऽपि च। शैल-वल्मीकयोर्यादृग् यादृग्गेरुड-भासयोः ।।२६१।। दत्ता: प्राणास्त्वया स्वामिन्! भृत्यकोटिंगतस्य मे। अपकारिणि यस्येयं मतिस्तस्मै नमोऽस्तु ते॥२६२॥ दृढभक्त्येति भाषित्वा क्षमयित्वा चवालिनम्। त्रिश्च प्रदक्षिणीकृत्य नमश्चक्रे दशाननः ।।२६३।। तादृङ्माहात्म्यमुदिता: साधु साध्विति भाषिणः । उपरिष्टाद्वालिमुनेः पुष्पवृष्टिं व्यधुः सुराः॥२६४।। प्रणम्य वालिनं भूयस्तच्छैलमुकुटोपमे। जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते॥२६५।। चन्द्रहासादिशस्त्राणि मुक्त्वा सान्त:पुर: स्वयम् । अर्हतामृषभादीनां पूजां सोऽष्टविधां व्यधात्॥२६६।। समाकृष्य स्नसां तन्त्री प्रमृज्य च दशाननः । महासाहसिको भक्त्या भुजवीणमवादयत्।।२६७।। (पवीणयति ग्रामरागरम्यं दशानने । गायत्यन्त:पुरे चाऽस्य सप्तस्वरमनोरमम् ॥२६८॥ चैत्यवन्दनयात्रायै धरण: पन्नगेश्वरः । तत्राऽऽययावर्हतश्च पूजापूर्वमवन्दत॥२६९।।युग्मम्।। अर्हद्गुणमयैर्गीतै: करण-ध्रुवकादिभिः। गायन्तं वीणया प्रेक्ष्य रावणं धरणोऽब्रवीत्॥२७०।। अर्हद्गुणस्तुतिमयं साधुगीतमिदं ननु। निजभावानुरूपं ते तेन तुष्टोऽस्मिरावण! ॥२७१।। अर्हद्गुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहम् । अंजीर्णवासनस्तुभ्यं किं यच्छामि वृणीष्व भोः! ॥२७२।। रावणोऽप्यभ्यधादेवं देवदेवगुणस्तवैः। युक्तं तुष्टोऽसि नागेन्द्र! स्वामिभक्तिर्हि सा तव॥२७३॥ यथा तव ददानस्य स्वामिभक्ति: प्रकृष्यते। तथा ममाऽऽददानस्य सा काममपकृष्यते॥२७४।। भूयोऽप्युवाच नागेन्द्रः साधु मानद! रावण! । विशेषतोऽस्मि तुष्टस्ते निराकाङ्क्षतयाऽनया॥२७५।। उक्त्वेत्यमोघविजयां शक्तिं रूपविकारिणीम्। सोऽदाद् विद्यांरावणाय जैगाम च निजाश्रयम् ।।२७६।। तीर्थनाथान्नमस्कृत्य नित्यालोकपुरेऽगमत् । व्यूह्य रत्नावली लङ्कामाजगाम दशाननः ॥३७७॥ वालिनोऽपि तदोत्पेदे केवलज्ञानमुज्ज्वलम्। केवलज्ञानमहिमा विदधे च सुरासुरैः।।२७८॥ क्रमेण कर्मणां सोऽथ भवोपग्राहिणां क्षयात्। सिद्धानन्तचतुष्कोऽगात् पदं तदपुनर्भवम्॥२७९।।
इतश्च वैताढ्यगिरौ पुरे ज्योति:पुराभिधे। बभूव नाम्ना ज्वलनशिखो विद्याधरेश्वरः ॥२८०।। तस्याऽभूच्छ्रीमती देवी श्रीमती रूपसम्पदा। तस्यां च दुहिता जज्ञे तारा तौरविलोचना ॥२८१।। तामेकदा तु चक्राकविद्याधरनृपात्मजः । ददर्शसाहसगति: स्मरात: सहसाऽप्यभूत् ।।२८२।। ज्वलनं याचयाञ्चक्रे तांसाहसगतिर्नरैः । वानरेन्द्रश्च सुग्रीवो रत्ने हि बहवोऽर्थिनः ॥२८३।। द्वावप्येतावभिजातौ रूपवन्तौ महौजसौ। तत् कस्मै दीयतां कन्येत्यपृच्छज्ज्ञानिनं पिता॥२८४॥ अल्पायु: साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ सँ ताम् ।।२८५।। अभिलाषविप्रलम्भात् साहसोऽपि दिने दिने। अङ्गारचुम्बित इवेंन प्राप क्वाऽपि निर्वृतिम् ॥२८६।। तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गद-जयानन्दावङ्गजौ दिग्गजोर्जितौ॥२८७।। सचाऽपिसाहसगतिस्तारायामनुरागवान। मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम्॥२८८|| चुम्बिष्यामि कदा तस्या मृगशावकचक्षुषः । पक्वबिम्बाधरदलच्छदनं वदनाम्बुजम् ? ॥२८९।। १. निर्लज्जः।।२. अधिकदयावान् ।। ३. पर्वतनाशने ।। ४. मद्यैवं पाता.॥५. गरुड-नागयो: ला. कां.; गरुड-काकयो: मो. ता.; भास: गृध्रपक्षी।। ६. दृढा भक्तीति खंता.१-२, पाता. हे.कां.छा. ता. पा. ला.॥७. स्नसातन्त्री खंता.१-२, पाता.ला.।। ८. वीणां वादयति सति ।। ९. करणं ध्रुवक: (ध्रुवका वा) सङ्गीतशास्त्रस्य प्रसिद्धौ क्रिया-गानप्रकारविशेषौ ॥१०. नक्षीणा वासना यस्य सः ।। ११. ग्रहीतृत्वत्रपाजुषे ता. हे. खंता.१-२॥१२. चतुर्विंशतिमप्यथ । नगरी जग्मतुः स्वां स्वां, नागराज-दशाननौ ॥खंता.१-२॥ १३. २७७तमश्लोकादनन्तरं हे.प्रतावधिकः श्लोको यथा"परिणयित्वा स कन्या-चतुर्विंशतिमप्यथ । नगरी जग्मतुः स्वां स्वां नागराज-दशाननौ ।” १४.नाम-गोत्र-वेदनीया-ऽऽयुषाम् ।। १५. दीर्घलोचना॥ १६. अभिजातौ द्वावपीमौ मु.॥ १७. दीयते कन्या पप्रच्छ मु. खंता.१-२, पाता. ला. ॥ १८. सुताम् पाता. ॥१९. अभिलाषविरहात् ।। २०. अङ्गारेण
दग्धः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org