________________
१३४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व
एवमुक्त्वा निजे राज्ये सुग्रीवं न्यस्य तत्क्षणात्। स्वयं गगनचन्द्रर्षिपादमूलेऽग्रही व्रतम्॥२२६।। विविधाभिग्रहतपस्तत्पर: प्रतिमाधरः । ध्यानवान् निर्ममो वाली मुनिर्व्यहरताऽवनौ॥२२७।। वालिभट्टारकस्याऽथोत्पेदिरे लब्धय: क्रमात् । सम्पद: पादपस्येव पुष्प-पत्र-फलादयः ।।२२८।। अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः। लम्बमानभुजो बद्धदोलादण्ड इव द्रुमः॥२२९।। कायोत्सर्ग समुत्सृज्य मासान्ते पारणं व्यधात्। उत्सर्गपारणान्येवं भूयो भूयश्चकार सः॥२३०॥ पाइतश्च दशकण्ठाय सुग्रीव: श्रीप्रभां ददौ । संशुष्यत्प्राक्तनस्नेहतरो: सारणिसन्निभाम् ।।२३१।। यौवराज्ये तु सुग्रीवो वालिपुत्रं महौजसम् । चन्द्ररश्म्युज्ज्वलयशाश्चन्द्ररश्मिं न्यवीविशत्।।२३२॥ सुग्रीवप्रतिपन्नाज्ञ: श्रीप्रभां तत्सहोदराम्। उपयम्य गृहीत्वा च ययौ लङ्कां दशाननः ।।२३३॥ विद्याधरनरेन्द्राणामन्येषामपि कन्यका: । उपयेमे रूपवतीर्बलादपि हिरावणः ॥२३४॥ नित्यालोकपुरे नित्यालोकविद्याधरेशितुः । कन्यारत्नावली नाम्नाऽन्यदोद्वोढुं चचाल सः॥२३५।। अष्टापदातरुपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रो बलमिव द्विषाम् ।।२३६।। न्यग्नागरं महापोतमिव बद्धमिव द्विपम्। विमानं रुद्धगतिकं प्रेक्ष्याऽकुप्य दशाननः॥२३७।। को मद्विमानस्खलनाद् विविक्षति यमाननम् ?। एवं वदन् समुत्तीर्य सोऽद्रिमूर्धानमैक्षत ॥२३८।। अधस्तात् स विमानस्य ददर्श प्रतिमास्थितम् । वालिनं तस्य शैलस्य नवं शृङ्गमिवोत्थितम् ।।२३९।। ऊचे चरावण: क्रुद्धो विरुद्धोऽद्याऽपि मय्यसि । व्रतं वहसि दम्भेन जगदेतद् दिदम्भिषुः ॥२४०।। कयाऽपि माययाऽग्रेऽपि मां वाहीक इवाऽवहः । प्राव्राजी: शैङ्कमानोऽस्मत्कृतप्रतिकृतं खलु ॥२४१॥ नन्वद्याऽपि स एवाऽस्मि त एव मम बाहव: । कृतप्रतिकृतं तत् ते प्राप्तकालं करोम्यहम् ।।२४२॥ सचन्द्रहासं मामूढ्वा यथाऽभ्राम्यस्त्वमब्धिषु। तथा त्वां सादिमुत्पाट्य क्षेप्स्यामि लवणार्णवे।।२४३।। एवमुक्त्वा विदार्य क्ष्मामष्टापदगिरेस्तले। प्रविवेश दशग्रीवश्च्युतो दिव इवाऽशनिः ।।२४४॥ विद्यासहस्रं स्मृत्वा च युगपद् दशकन्धरः । धेरै दुर्धरमुद्दधे तं दोर्बलमदोद्धरः ॥२४५।। तडत्तडितिनिर्घोषवित्रस्तव्यन्तरामरम् । झलज्झलितिलोलाब्धिपूर्यमाणरसातलम्॥२४६॥ खंडत्खडितिबिभ्रश्यद्ग्रावक्षुण्णवनद्विपम् । केडत्कडितिनिर्भग्ननितम्बोपवनद्रुमम् ॥२४७।। गिरिं तेनोद्धृतं ज्ञात्वाऽवधिना स महामुनिः। अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधीः॥२४८||त्रिभिर्विशेषकम्।। आ:! कथं मयि मात्सर्यादयमद्याऽपि दुर्मतिः । अनेकप्राणिसंहारमकाण्डे तनुतेतराम् ? ॥२४९।। भरतेश्वरचैत्यं च भ्रंशयित्वैष सम्प्रति। यतते तीर्थमुच्छेत्तुं भरतक्षेत्रभूषणम् ॥२५०॥ अहं चत्यक्तसङ्गोऽस्मि स्वशरीरेऽपि नि:स्पृहः । राग-द्वेषविनिर्मुक्तो निमग्न: साम्यवारिणि ॥२५१।। तथाऽपि चैत्यत्राणाय प्राणिनां रक्षणाय च। राग-द्वेषौ विनैवैनं शिक्षयामि मनागहम्॥२५२।। एवं विमृश्य भगवान् पादाङ्गुष्ठेन लीलया। अष्टापदाद्रेर्मूर्धानं वाली किञ्चिदपीडयत्॥२५३।। मध्याह्नदेहेच्छायावत् पयोबाह्यस्थकूर्मवत्। अभितः सङ्कुचद्गात्रो दशास्यस्तत्क्षणादभूत् ॥२५४॥ अतिभङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् । अरावीद् रावयन्नुर्वी रावणस्तेन सोऽभवत्॥२५५॥ तस्य चाऽऽरटनं दीनं श्रुत्वा वाली कृपापरः। तं मुमोचाऽऽशु तत्कर्म शिक्षामात्राय न क्रुधा॥२५६।। निःसृत्य दशकण्ठोऽथ नि:प्रतापोऽनुतापवान्। उपेत्य वालिनं नत्वा व्याजहारेत्युदञ्जलिः॥२५७॥ १. ०विविधाभिग्रहस्तप० मु.॥२. वालिमुनि०० रसंपा. ।। ३. ०ाहरता० मु.।। ४. 'हींचको' ।।५. कायोत्सर्ग-पारणानि ।। ६. 'नीक' ॥७. सुग्रीवेण प्रतिपन्ना आज्ञा यस्य सः ।। ८. नाम्ना तदो० मु.।। ९. 'नांगरेल वहाण' ॥१०. प्रवेष्टुमिच्छति॥११. वञ्चयितुमिच्छुः ॥१२. भारवाहकः ।। १३. शङ्कमानोऽस्मत्कृते हे. मो.; अस्माकं कृतस्य प्रतिक्रियाम् ॥ १४. मां बद्ध्वा हे. मो. ॥१५. पर्वतम् ॥१६. तडत्तडितिनि?षं वि० मु.।।१७. झलत् झलत् इति शब्दं कुर्वाणेन लोलेन अब्धिना पूर्यमाणं रसातलं येन तम् ।। १८.खडत् खडत् इति शब्देन पतद्भिः अश्मभिः क्षुण्णा वनगजा यस्मिन् तम् ।। १९. कडत् कडत् इति शब्दं कुर्वन्तो निर्मग्ना नितम्बोपवनानां द्रुमा यस्य तम् ।। २०. भञ्जयित्वैष ता. ।। २१. समताजले ।। २२. मध्याह्नदेहच्छायेव ता. ॥२३. अनुताप: पश्चात्तापस्तद्वान् ॥ २४. २५७ तमश्लोकादनन्तरं हे.सङ्घकप्रतौ श्लोकोऽयमधिको दृश्यते
"स्वशक्तिं ये न जानन्ति ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषामस्मि धुरन्धरः ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org