________________
द्वितीय: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । 'यमगुप्तेस्तमाकर्षं यथाऽहं वेत्ति तज्जनः। यथा च किष्किन्धाराज्ये न्यधां तदपि विश्रुतम्॥१९४।। नयवांस्तनयस्तस्य वालिंस्त्वमधुनाऽभव: । प्राग्वत्स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व तत्॥१९५।। क्रुद्धोऽप्यविकृताकारोगर्ववह्निशमीतरुः । एवं गम्भीरगीली व्याजहार महामनाः॥१९६॥ अन्योऽन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः। रक्षो-वानरराजानामद्य यावदखण्डितम्॥१९७॥ सम्पद्यापदि चाऽन्योऽन्यं पूर्वे साहायकं व्यधुः। स्नेहो निबन्धनं तत्र सेव्य-सेवकता तुन॥१९८।। देवं सर्वज्ञमर्हन्तं साधुं च सुगुरुं विना । सेव्यमन्यं न जानीमो मोह: क: स्वामिनस्तव ?॥१९९॥ मन्यमानेन सेव्यं स्वमस्मानपि च सेवकान् । कुलक्रमागत: स्नेहगुणस्तेनाऽद्य खण्डितः ।।२००॥ तस्य मित्रकुलोत्पत्तेर्निजांशक्तिमजानतः। न करोमिस्वयं किञ्चिदपवादैककातरः॥२०१।। विप्रियं कुर्वतस्तस्य करिष्यामि प्रतिक्रियाम्। अंग्रेगूर्न भविष्यामि पूर्वस्नेहद्रुकर्तने ।।२०२॥ यथाशक्ति तव स्वामी स करोतु जाऽररे! । वालिनैवं विसृष्टः स गत्वाऽऽख्यद् दशमौलये॥२०३।। तगिरोद्दीपितक्रोधपावकोऽथ दशाननः । ससैन्योऽप्युद्धरस्कन्धः किष्किन्धामाययौ द्रुतम् ॥२०४।। सन्नह्य वालिराजोऽपि राजमानो भुजौजसा। तमभ्यगाद् दोष्मतां हि प्रियो युद्धातिथि: खलु॥२०५।। तत: प्रववृते युद्धमुभयोरपि सैन्ययोः । गण्डशैलागण्डशैलि द्रुमाद्रुमि गदागदि॥२०६॥ तत्राऽचूर्यन्त र्शतशो भृष्टपर्पटवद्रथा: । मृत्पिण्डवदभिद्यन्त महान्तोऽपि मतङ्गजा:॥२०७|| कूष्माण्डवदखण्ड्यन्त स्थाने स्थाने तुरङ्गमा:। चंञ्चापुरुषवद् भूमावपात्यन्त च पत्तयः॥२०८।। तं प्रेक्ष्य प्राणिसंहारं सानुक्रोश: प्लवङ्गराट् । वीरः सत्वरमभ्येत्य जगादेति दशाननम्॥२०९।। युज्यते न वध: प्राणिमात्रस्याऽपि विवेकिनाम्। पञ्चेन्द्रियाणां हस्त्यादिजीवानां बत का कथा? ॥२१०।। द्विषज्जयाय यद्येष तथाऽप्यो न दोष्मताम् । दोष्मन्तो हि निजैरेव दोभिर्विजयकाङ्क्षिणः ।।२११।। त्वं दोष्मान् श्रावकश्चाऽसि सैन्ययुद्धं विमुञ्च तत्। अनेकप्राणिसंहाराच्चिराय नरकाय यत्।।२१२॥ एवं सम्बोधितस्तेन दशास्योऽपि हि धर्मवित्। अङ्गेन योद्धमारेभे सर्वयुद्धविशारदः॥२१३।। यद्यदस्त्रं दशग्रीवोऽक्षिपत् तत्तत् कपीश्वरः । स्वास्त्रैः प्रतिजघानोच्चैर्वह्नितेज इवाऽर्यमा॥२१४।। सार्प-वारुणमुख्यानि मन्त्रास्त्राण्यपिरावण: । मुमोच तानि तााद्यैरस्त्रैर्वाली जघान च॥२१५॥ शस्त्र-मन्त्रास्त्रवैफल्यक्रुद्धो दशमुखस्तत: । चकर्षचन्द्रहासासिं महाहिमिव दारुणम्॥२१६।। एकशृङ्गो गिरिरिवैकदन्त इव कुञ्जरः। उच्चन्द्रहासोऽधाविष्ट वालिने दशकन्धरः ॥२१७।। सचन्द्रहासं लङ्केशंसशाखमिव शाखिनम्। वामेन बाहुनावाली लीलयैव समाददे॥२१८॥ तं कन्दुकमिवन्यस्याऽविहस्तो हस्तकोटरे। चतु:समुद्रीं बभ्राम क्षणेनाऽपि कपीश्वरः ॥२१९॥ तदानीमेव तत्रैत्य त्रपावनतकन्धरम् । दशकन्धरमुज्झित्वावालिराजोऽब्रवीदिति॥२२०॥ वीतरागं सर्वविदमाप्तं त्रैलोक्यपूजितम्। विनाऽर्हन्तं न मे कश्चिन्नमस्योऽस्ति कदाचन ।।२२१॥ अङ्गोत्थितं द्विषन्तं तं धिङ्मानं येन मोहितः । इमामवस्थां प्राप्तोऽसि मत्प्रणामकुतूहली॥२२२॥ पूर्वोपकारान् स्मरता मया मुक्तोऽसि सम्प्रति। दत्तं च पृथिवीराज्यमखण्डाज्ञ: प्रशाधि तत् ॥२२३।। विजिगीषौ मयि सति तवेयं पृथिवी कुतः? । क्व हस्तिनामवस्थानं वने सिंहनिषेविते ? ॥२२४।। तदादास्ये परिव्रज्यां शिवसाम्राज्यकारणम्। किष्किन्धायां तु सुग्रीवो राजाऽस्त्वाज्ञाधरस्तव ॥२२५॥ १. यमस्य बन्धनात्॥२. स्थापितवान् ॥ ३. एकोनविंशतितमो० खंता.१-२, ला. ता. हे. कां. ॥४. पूर्ववत् सेव्य-सेवकसम्बन्धात् ।।५. गर्व एव वह्निः, तस्य स्वोदरे-स्वमनसि शमीवृक्ष इव रक्षक इत्यर्थः।। ६. पूर्वजाः ।।७. कारणम् ।। ८. सेव्यमानं पाता. ।। ९. प्रथमं० खंता.१-२, ता. ।। १०. करिष्येऽथ पाता. ।। ११. प्रतिकारम्॥१२. अग्रेसरः ।।१३. पूर्वस्नेह एव वृक्षस्तस्य च्छेदने ॥१४, 'अररे' इति क्षुद्रसम्बोधनेऽव्ययम् ॥१५. ससैन्य उद्धर० मु.; दृढस्कन्धः ।। १६. अथ ता.॥१७. गण्डशैलै: गण्डशैले: मिथ: प्रहृत्य कृतं युद्धम् ; गण्डशैला: पर्वतीयशिलाखण्डाः ॥१८. तिलशो० ता.॥१९. अग्निना भृष्टा ये पर्पटा:(पापड) तद्वत् :भ्रष्टपर्पट० मु.॥२०. तुणमय: पुमान ,भाषायां चाडियो' इति, तद्वत् ॥ २१.सकरुणः ।। २२. वानरराजः॥२३.धीरः खंता.१।। २४. एष प्राणिवधः ।। २५. श्रावकश्चाऽपि ला. ॥ २६. यद्यच्छत्रं पाता. ।। २७. प्रतिजिघानोग्रैर्वह्निः मो. ।। २८. गारुडारिस्पैः ।। २९. अव्याकुलः स तं रावणं हस्तकोटरे-कक्षायां निक्षिप्य ।। ३०.विजेतुमिच्छति मयि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org