________________
१३२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व
क्रुद्धोऽथशक्रो युद्धेच्छुर्निषिद्धः कुलमन्त्रिभिः । तैस्तैरुपायैर्बलिना सह विग्रहभीरुभिः॥१६१।। यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । स्वयं तथैव तस्थौ च विलसन् रथनूपुरे ॥१६२।। इतश्चाऽऽदित्यरजसे किष्किन्धां नगरी ददौ । दशास्य ऋक्षरजसे पुरमृक्षपुरं पुनः॥१६३।। जगाम तु स्वयं लङ्कामलङ्कर्मीणविक्रमः। स्तूयमानो देवतेव बन्धुभिर्नागरैश्च सः॥१६४॥ अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितः। दशास्य: प्रशशासाऽथ राज्यं पैतामहं महत्॥१६५|| पाइतश्चाऽऽदित्यरजस: कपिराजस्य नन्दनः । महिष्यामिन्दमालिन्यां वाली नामाऽभवद् बली॥१६६।। जम्बूद्वीपं समुद्रान्तं वाली बाहुबलोल्बणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत॥१६७।। सुग्रीव इति चाऽन्योऽभूदादित्यरजसः सुतः । कन्या कनीयसी तस्य श्रीप्रभेति च नामतः१६८।। अभूतामृक्षरजसोऽप्युभौ भुवनविश्रुतौ। भार्यायां हरिकान्तायां नल-नीलाभिधौ सुतौ॥१६९।। नरेन्द्र आदित्यरजावालिने बलशालिने। दत्वा राज्यं प्रवव्राज तपस्तप्त्वा ययौ शिवम्॥१७०।। सम्यग्दृष्टिं न्यायवन्तं दयावन्तं महौजसम्। स्वानुरूपं यौवराज्ये सुग्रीवं वाल्यपि न्यधात्॥१७१।। पअन्यदा तु दशग्रीवश्चैत्यवन्दनहेतवे। सकलत्रो गजारूढः प्रययौ मेरुपर्वते॥१७२।। अत्रान्तरे चन्द्रणखामपश्यत् खरखेचरः । जातरागो जातरागां जहे मेघप्रभात्मजः ॥१७३।। ययौ पाताललकां च तत्र चन्द्रोदरं नृपम्। आदित्यरजसः सूनुं निर्वास्याऽऽदत्त तां स्वयम्॥१७४।। क्षणेनाऽप्याययौ मेरोर्लङ्कायां दशकन्धरः । आकर्ण्य तच्चन्द्रणखाहरणं प्रचुकोप च॥१७५।। खरखेचरघाताय चचालाऽथ दशाननः । पञ्चानन इव क्रुद्धो गजाखेटककर्मणे॥१७६।। अथ मन्दोदरी देवी निजगादेति रावणम् । संरम्भ: कोऽयमस्थाने मनाग विमृश मानद! ॥१७७॥ कन्या ह्यवश्यं कस्मैचिद् दातव्या यदि सा स्वयम् । वरं वृणीते रुचितमभिजातं च साधु तत्॥१७८।। अनुरूपो वरश्चन्द्रणखाया दूषणाग्रजः । अदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी॥१७९।। प्रेष्य प्रधानपुरुषांस्तदुद्वाहय तं तया। अस्मै पाताललङ्कां च देहि धेहि प्रसन्नताम्॥१८॥ एवं सोऽवरजाभ्यामप्युक्तो युक्तविचारकृत् । प्रस्थाप्य मय-मारीचौ तेन तां पर्यणाययत्॥१८१॥ तत: पाताललङ्कायां सचन्द्रणखया समम्। निर्विघ्नं बुभुजे भोगान् दधद्रावणशासनम् ॥१८२॥ निर्वासिते तदा तेन कालाच्चन्द्रोदरे मृते। अनुराधेति तत्पत्नी नंष्ट्वाऽगाद् गर्भिणी वने ॥१८३॥ साऽसूत च वने तस्मिन् सिंही सिंहमिवोल्बणम्। विराधं नाम तनयं नयादिगुणभाजनम्॥१८४।। से प्राप्तयौवनः सर्वकलाजलधिपारगः। अस्खलत्प्रसर: पृथ्वीं विजहार महाभुजः॥१८५।। पाइत: कथाप्रसङ्गेन सभायां रावणोऽशृणोत्। प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम् ॥१८६॥ रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव। प्रेजिघायाऽनुशिष्यैकं दूतंवालिमहीभुजे॥१८७।। स गत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूतोऽहं दशकण्ठस्य राजंस्तद्वाचिकं शृणु ॥१८८॥ अस्माकं पूर्वजं कीर्तिधवलं पूर्वजस्तव। शरण्यं शरणायाऽगाच्छ्रीकण्ठो वैरिविद्रुतः ॥१८९।। त्रात्वाऽरिभ्य: श्वशुर्यं तं तद्वियोगैककातरः । इहैव वानरद्वीपे श्रीकीर्तिधवलो न्यधात्॥१९०॥ तदादि चाऽऽवयोर्भर्तृ-भृत्यसम्बन्धतो मिथ: । भूयांस: क्ष्माभुजो जग्मुः पक्षयोरुभयोरपि॥१९१।। अथाऽभवत् क्षितिप॑तिः किष्किन्धिस्ते पितामहः। सुकेश इत्यभिधया मम तुप्रपितामहः॥१९२।। तयोरपि हि नियूँढ: स सम्बन्धस्तथैव हि। ततो नृपः सूर्यरजास्त्वदीयस्त्वभवत् पिता।।१९३।। १. रुक्षरजसे मु.॥२. अलं- समर्थः कर्मणे-कार्याय विक्रमो यस्य सः॥३. उत्कटबाहुबलः॥४. सुप्रभेति मु.॥५. हत्वा राज्यमुपाददे खंता.१-२॥ ६. निराकृत्य।।७. गजाखेटककर्मणा मो. हे.; गजमृगयाकर्मणे॥८. क्रोधः ॥९. सा यदि ता.॥१०. कुलीनम्॥११. निर्दोषः॥१२. अनुजाभ्याम् ॥ १३. हन्यमाने तदातेन चन्द्रोदरनरेश्चरे खंता.१-२, हे.॥१४.बला० का.॥१५. नृपे का.ला.; तेन खरेण निर्वासिते चन्द्रोदरे कालान्मृते सतीत्यन्वयः॥१६. सम्प्राप्त० मु.॥ १७. अकुण्ठितगमनः॥१८. प्रेषयामास॥१९. शिक्षयित्वा ।।२०. सन्देशम्।। २१. वैरनिर्वासितः ।। २२. श्यालकम्-श्वशुरपुत्रम् ।। २३. जग्मुः षोडश भूपाला: खंता.१-२, ला. हे. कां.॥२४. सप्तदश: हे. कां. ॥२५. निर्वाहितः ।। २६. अष्टादश: सूर्य० खंता.१-२,ला. हे. कांता. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org