________________
द्वितीय: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् ।
तस्मिन्नेवं ब्रवाणेऽपि महात्मा प्रतिमास्थितः। किञ्चिन्नोचे वैश्रवणस्तद्भवेऽपि शिवङ्गमी।।१२८।। ज्ञात्वाऽनीहं वैश्रवणं क्षमयित्वा प्रणम्य च। विमानं पुष्पकं तस्य सोऽग्रहीत् सहलङ्कया॥१२९।। जयलक्ष्मीलतापुष्पं सोऽधिरुह्याऽथ पुष्पकम् । सम्मेतशैलशृङ्गेऽर्हत्प्रतिमा वन्दितुं ययौ॥१३०॥ वन्दित्वा प्रतिमा: शैलाद्रावणस्याऽवरोहत: । सेनाकलकलेनैको जगर्जवनकुञ्जरः॥१३१।। अथ प्रहस्त इत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देव! देवस्याऽर्हति यानताम् ॥१३२।। तत: पिङ्गोत्तुङ्गदन्तं मधुपिङ्गललोचनम् । उदग्रकुम्भशिकरं मदनिर्झरणीगिरिम्॥१३३॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतं च तम्। क्रीडापूर्वं वशीकृत्याऽध्यारुरोह दशाननः ।।१३४।।युग्मम्।। चकार तस्याभुवनालङ्कार इति नाम सः । ऐरावणगजारूढशक्रलक्ष्मी विडम्बयन्॥१३५।।
गजमालानितं कृत्वा तत्रैवोवास तां निशाम्। दशास्य: प्रातरध्यष्ठादास्थानी सपरिच्छदः।।१३६।। तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जर: । विद्याधरस्तं पवनवेगो नत्वैवमब्रवीत्॥१३७॥ देव!पाताललङ्काया: किष्किन्धिनृपनन्दनौ। किष्किन्धायां गतौ सूर्यरजा ऋक्षरजा अपि॥१३८।। अभूदु युद्धं तयोस्तत्र यमेन सह भूभुजा। यमेनेवाऽतिघोरेण प्राणसंशयदायिना॥१३९॥ चिरं युद्ध्वा यमेनोच्चैर्बद्ध्वा कारानिकेतने। क्षिप्तौ सूर्यरजा ऋक्षरजा: सपदि दस्युवत् ॥१४०।। विधाय नरकावासांस्तेन वैतरणीयुतान् । छेदभेदादिदु:खं तौ प्राप्येते सपरिच्छदौ॥१४१।। तौ त्वदीयौ क्रमायातौ सेवकौ दशकन्धर! । मोचय त्वमलयाज्ञ! तवैवस पराभवः॥१४२।। रावणोऽपि जगादैवमेवमेतदसंशयम्। आश्रयस्य हि दौर्बल्यादाश्रित: परिभूयते॥१४३।। परोक्षत: पत्तयोऽमी यद्बद्धास्तेन दुर्धिया। कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् ।।१४४।। पाइत्युदीर्योदग्रवीर्यः सानीकोऽनीकलालस: । पुरी जगाम किष्किन्धा यमदिक्पालपालिताम् ॥१४५।। त्रपुपान-शिलास्फाल-पशुच्छेदादिदारुणान् । ददर्श नरकांस्तत्र सप्ताऽपि दशकन्धरः ।।१४६।। क्लिश्यमानान् निजान् पत्तीन् दृष्ट्वा रुष्टो दशाननः । परमाधार्मिकांस्तत्राऽत्रासयद् गरुडोऽहिवत्॥१४७।। स्वपत्तीन् मोचयामास तत्रस्थानपरानपि! महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ?॥१४८।। यमाय नरकारक्षास्तत्तु नारकमोक्षणम् । क्षणाद् गत्वा समाचख्यु: सपूत्कारोव॑बाहवः ॥१४९॥ क्रोधारुणाक्ष: सद्योऽपि यमो यम इवाऽपरः। नगर्या निर्ययौ योद्धं युद्धूनाटकसूत्रभृत्॥१५०॥ सैन्या: सैन्यैः समं सेनानीभि: सेनान्य आहवम्। चक्रुर्यम: पुन: क्रुद्धः क्रुद्धेन दशमौलिना ॥१५१।। शराशरि चिरं कृत्वा यमोऽधाविष्ट वेगत:। शुण्डादण्डमिव व्यालो दण्डमुत्पाट्य दारुणम् ॥१५२।। खण्डश: खण्डयामास नौलकाण्डमिवाऽथ तम्। (रप्रेण दशग्रीव: क्लीबवद् गणयन् परान् ॥१५३।। यम: पृषत्कैर्भूयोऽपि च्छादयामास रावणम् । अवारयद्रावणस्ताँल्लोभ: सर्वगुणानिव॥१५४॥ युगपद् भूयसो बाणान् वर्षन्नथ दशाननः । यमं जर्जरयाञ्चक्रे जरेव बलनाशकृत्॥१५५॥
अथ प्रणश्य सङ्ग्रामाद्यमस्त्वरितमभ्यगात् । रथनूपुरनेतारमिन्द्रं विद्याधरेश्वरम्॥१५६॥ यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलि: । जलाञ्जलिर्मयाऽदायि यमत्वाय प्रभोऽधुना॥१५७|| रुष्य वा तुष्य वा नाथ! करिष्ये यमतां हिन। उत्थितो हि दशग्रीवो यमस्याऽपि यमोऽधुना॥१५८।। विद्राव्य नरकारक्षान्नारकास्तेन मोचिता: । क्षत्रव्रतधनेनोच्चैर्जीवन्मुक्तोऽस्मि चाऽऽहवात्॥१५९॥ जित्वा वैश्रवणं तेन लङ्काऽपि जगृहे युधि। तद्विमानं पुष्पकं च जितश्च सुरसुन्दरः ॥१६०॥ १. न किञ्चिदूचे धनद० खंता.१-२,ला. हे. कां. ता. ।। २. शिवं मोक्षं गमिष्यतीति ।। ३. निरीहं धनदं ज्ञात्वा खंता.१-२, ला. कां.; ज्ञात्वा निरीहं धनदं हे. ता. ॥४. इच्छारहितम् ॥५. जयलक्ष्मीरेव लता, तस्या: पुष्पम् ॥६. अवतरतः ।। ७. अथाग्रहस्त० खंता.१॥ ८. वाहनताम् ।।९. मदनद्या उत्पादकत्वेन गिरिसमम् ।। १०. अनुकुर्वन् ॥११. बद्धम् ।।१२. कारागृहे ।। १३. क्षिप्तावृक्षरजादित्यरजौ सपदि खंता.१-२, ला. हे. कां. ता.॥१४. रुक्षरजा: मु.॥१५. त्वमलच्याज्ञस्तवैव मु.॥१६. युद्धलालसः ।। १७.०स्तत्र ला.॥१८. युद्धनाटके सूत्रधारः ।।१९.सेनाधिपैः मु. ॥ २०. बाणयुद्धम् ।। २१. हस्ती ।। २२. नलकाण्ड० ला.छा.पा., कमलदण्डम् ॥२३. बाणविशेषेण ॥२४. पशुवद् ला.॥२५. बाणैः।।२६. जर्जरयामास ला. छा. पा. मो. ॥ २७. तिलाञ्जलिः ।। २८. निर्वास्य ॥ २९. रणसङ्ग्रामात् ।। ३०. निर्जित्य धनदम् खंता १-२, ला हे. कां. ता. ।। ३१. अमरसुन्दरः ।।
Jain Education International
www.jainelibrary.org