________________
१३०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व
एकोऽप्य जय्योऽयं विद्याधरेन्द्रोऽमरसुन्दरः। किं पुन: कनक-बुधप्रमुखैः परिवारितः॥९५॥ दशास्यस्तद्गिरा स्मित्वा व्याजहारेति सुन्दरी: । पश्यताऽऽजिं ममाऽमीभिर्गरुडस्योरगैरिव॥९६॥ इति ब्रुवाणमेयुस्तं कुर्वाणा: शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहाभटाः॥९७।।
अस्त्राण्यस्त्रैः खण्डयित्वा रावणो वीर्यदारुणः । सद्य: प्रेस्वापनास्त्रेणाऽजिघांसुस्तानमोहयत् ।।९८|| नागपाशैरबध्नाच्च पशूनिव दशाननः । प्रेयसीभिः पितृभिक्षां याचितस्तान् मुमोच च ।।९९॥ ततस्ते स्वपुरं जग्म: समंताभिश्च रावणः । स्वयम्प्रभपुरं प्राप दत्ता? मुदितैर्जनैः ॥१००।
अथ कुम्भपुरेशस्य महोदरमहीपतेः। सुरूपनयनादेवीकुक्षिजां नवयौवनाम्॥१०१।। सुतां नाम्ना तडिन्मालां तडिन्मालोपमद्युतिम्। पूर्णकुम्भस्तनाभोगांकुम्भकर्ण उपायत॥१०२॥युग्मम्।। वैताढ्यदक्षिणश्रेण्यांज्योतिष्पुरपुरेशितुः। वीरनाम्नो नन्दवतीदेवीकुक्षिसमुद्भवाम्॥१०३॥ पङ्कजश्रीदस्युदृशं नामत: पङ्कजश्रियम् । कन्यां सुरस्त्रियमिव पर्यणैषीद् बिभीषणः॥१०४॥युग्मम्।। अथमन्दोदरी देवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितंनाम सुषुवेऽद्भुतविक्रमम्॥१०५।। कियत्यपि गते काले द्वितीयमपि नन्दनम्। मेघवन्नयनानन्दं सुषुवे मेघवाहनम्॥१०६।। पाआकर्ण्य पितृवैरं तत् कुम्भकर्ण-बिभीषणैः । वैश्रवणाश्रितां लङ्कामुपदुद्रुवतुः सदा॥१०७।। वैश्रवणोऽथ दूतेनेत्यवोचत सुमालिनम्। निजौ शाधि शिशू हन्त रावणावरजाविमौ॥१०८।। स्वान्यशक्ती न जानीतो दुर्मदौ वीरमानिनौ। एतौ पाताललङ्कास्थौ भेकौ कूपोद्भवाविव ॥१०९॥ अस्मत्पुर्यामवस्कन्दं ददाते छलकर्मणा । जितकाशितया मत्तौ मया चिरमुपेक्षितौ॥११०॥ नचेच्छिक्षयसि क्षुद्र! तदिमौ मालिवमना। त्वया सहैव नेष्यामि त्वं वेत्स्यस्मद्बलं ने तु॥१११॥ इत्युक्त्या रावण: क्रुद्धोऽभ्यधादिति महामनाः । रे! क एष वैश्रवण:? करदो य: परस्य हि॥११२।। अन्यस्य शासनाल्लङ्कां य: शास्त्येवं वदन् स किम् । न लज्जते? स्वात्मनोऽपि तस्य धा_महो! महत् ।।११३।। दूतोऽसीति न हन्मि त्वां याहीति दशमौलिना । उक्तो वैश्रवणं गत्वा दूतोऽशंसद् यथातथम् ॥११४॥ दूतानुपदमेवाऽथ दशकण्ठ: ससोदरः। ससैन्य: प्रययौ लङ्काममर्षेण गरीयसा॥११५।। अग्रे गतेन तेन तेनाऽऽख्यातप्रवृत्तिकः। संसैन्यो निर्ययौ लङ्कापुर्या वैश्रवणो युधे॥११६।। वन्यामिव महावात: प्रसरन्ननिवारितम् । क्षणादभाशीच्च तस्याऽक्षौहिणीं दशकन्धरः॥११७॥ रावणेन बले भग्ने भग्नंमन्य: स्वयं ततः। एवं वैश्रवणो दध्यौ विध्यातक्रोधपावकः॥११८॥ सरसो लूनपद्मस्य भग्नदन्तस्य दन्तिन: । शाखिनश्छिन्नशाखस्याऽलङ्कारस्य च निर्मणेः॥११९।। नष्टज्योत्स्नस्य शशिनस्तोर्यदस्य गताम्भस: । परैश्च भग्नमानस्य मानिनो धिगवस्थितिम् ।।१२०॥युग्मम्।। तस्याऽथवाऽस्त्ववस्थानं यतमानस्य मुक्तये। स्तोकं विहाय बह्विच्छुर्न हि लज्जास्पदं पुमान् ।।१२१।। तदलं मम राज्येनाऽनेकानर्थप्रदायिना। उपादास्ये परिव्रज्यांद्वारं निर्वाणवेश्मनः ।।१२२।। अप्येतावपकर्तारौ कुम्भकर्ण-बिभीषणौ । जातौ ममोपकर्तारावीदृक्पथनिदर्शनात्॥१२३।। रावणोऽग्रेऽपि मे बन्धुर्बन्धुः सम्प्रति कर्मत:। विनाऽस्योपैक्रममिमं न हि स्यान्मम धीरियम्॥१२४।। एवंध्यात्वा वैश्रवणस्त्यक्त्वा शस्त्रादि सर्वत: । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे॥१२५।। तं नत्वा रावणोऽप्येवमुवाच रचिताञ्जलिः। ज्येष्ठो भ्राता त्वमसि मे सहस्वाऽऽगोऽनुजन्मनः ॥१२६॥ राज्यं कुरुष्व नि:शङ्को लङ्कायामपि बान्धव! वयमन्यत्र यास्यामो नहीयत्येव मेदिनी॥१२७|| १. जेतुमशक्यः ।। २. शस्त्रवृष्टिम् ॥३. प्रस्वापनास्त्रेण जिघांसु० ला. मो. कां. छा. ॥४. हन्तुमनिच्छुः ।।५. कमललक्ष्म्याश्चोरयित्र्यौ दृशौ-नेत्रे यस्यास्ताम् ।। ६. धनदाधिष्ठितां खंता.१-२, ला. हे. कां. ।। ७. दूतेन धनदोऽथैवमवोचत खंता.१-२, ला. हे. कां. ॥ ८. शिक्षय ।। ९. धाटीम्(धाड) ॥ १०. जितकामितया मु.; जितेन काशते ॥११. ननु रसंपा. ॥१२. अरे क एष धनदः? खंता. १-२, ला, हे. कां. ॥१३. विसृष्टो धनदं खंता.१-२, ला. हे. का.॥१४. क्रोधेन ॥१५. यातेन हे. ॥१६.धनदो लकानगर्या निर्ययौ खंता.१-२,ला.हे. कां.॥१७. युधि खंता.१-२, पाता. मु.॥१८. वनानां समूहो वन्या, ताम् ।। १९. क्षणादभाङ्क्षीद् धनदाक्षौहिणीं ला. हे. कां. ।। २०. विध्मात० मु.॥ २१. मेघस्य ॥ २२. धिगवस्थिति: ला., मु.विना च ।। २३. आरम्भम् ॥ २४. एवं विमृश्य धनद० खंता.१-२,ला. हे. ॥२५. अपराधम् ॥२६. लघुबन्धोः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org