________________
१२८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
विद्यासाधनविघ्नाय तेषां यक्षाधिपः स तु । 'अनुकूलोपसर्गार्थं 'प्रजिघाय स्वयोषितः ॥ ३०॥ तेषां क्षोभार्थमायातास्तद्रूपैरतिसुन्दरैः । ताः क्षोभं स्वयमेवेयुर्विस्मृतस्वामिशासनाः ॥३१॥ निर्विकारान् स्थिराकारांस्तूष्णीकानवलोक्य तान् । अकृत्रिमस्मरावेशविवशास्ता बभाषिरे ॥ ३२॥ भो भो ध्यानजडा! यूयं यत्नतः पैश्यताऽग्रतः । देवीरपि वशीभूताः का वः सिद्धिरतः परा ? ॥३३॥ किं विद्यासिद्धये यत्नस्तत् क्लेशेनाऽमुना कृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वेयं हि वः ॥ ३४ ॥ रमध्वं स्वैरमस्माभिस्त्रयाणां जगतामपि । रम्यरम्यप्रदेशेषु सुंरदेश्या यथारुचि ॥ ३५॥ सकाममिति जल्पन्त्योऽनल्पधैर्येषु तेषु ताः । विलक्षा जज्ञिरे यक्ष्यस्तालिका नैकहस्तिकाः॥३६॥ जम्बूद्वीपपतिर्यक्षस्ततस्तानब्रवीदिति । मुग्धैः किमेतदारब्धं युष्माभिः कष्टचेष्टितम् ? ॥३७॥ मन्ये पाखण्डिना केनाऽप्यकाण्डे मृत्युहेतवे । पाखण्डं शिक्षिता यूयमनीप्तेन दुरात्मना ॥ ३८॥ यातयाताऽधुनाऽप्येतं मुक्त्वा ध्यानदुराग्रहम् । ब्रूताऽहमपि यच्छामि वाञ्छितं वः कृपापरः॥३९॥ इत्युक्तेऽपि हि तूष्णीकांस्तान् क्रुद्धः सोऽब्रवीदिति । मुक्त्वा प्रत्यक्षदेवं मां किमन्यं ध्यायथाऽररे ? ॥४०॥ इति स क्रूरवाग् यक्षस्तत्परिक्षोभहेतवे । भ्रूसञ्ज्ञया समादिशत् किङ्करान् वानमन्तरान् ॥४१॥ ततः किलकिलारावकारिणो बहुरूपिणः । उत्पाट्य गिरिशृङ्गाणि तदग्रे केsपि चिक्षिपुः ॥४२॥ चन्दनद्रुमवत् सर्पीभूय तान् केऽप्यवेष्टयन् । सिंहीभूय पुरस्तेषां बूंच्चक्रुः केऽपि दारुणम्॥४३॥ अच्छ-भल्ल-वृक-व्याघ्र- बिडालादिवपुर्भृतः । चक्रुर्बिभीषिकां केचिन्नाऽक्षुभ्यंस्ते तथाऽपि हि ॥४४॥ कैकसीं रत्नश्रवसं जौमिं चन्द्रणखां च ते। विकृत्य बद्ध्वा च पुरस्तेषां सपदि चिक्षिपुः ॥४५॥ रत्नश्रवःप्रभृतयस्ते च मौयामयास्तदा । उदश्रुनयना एवं चक्रन्दुः करुणस्वरम्॥४६॥ वयं हन्यामहे बद्ध्वा तिर्यञ्चो लुब्धकैरिव । एभिर्गर्तेघृणैः कैश्चिद् युष्माकं पश्यतामपि ॥४७॥ उत्तिष्ठोत्तिष्ठ वत्स! त्वं त्रायस्व दशकन्धर! । एकान्तभक्तस्तादृक् त्वमस्मान् कथमुपेक्षसे ? ॥४८॥ यो बालोऽपि महाहारं तं कण्ठे विन्यैधाः स्वयम् । तस्य बाहुबलं क्वाऽद्य ? क्वाऽहङ्कारश्च ते गतः ? ॥ ४९ ॥ कुम्भकर्ण! त्वमपि नो नाऽऽकर्णयसि किं वचः ? । यदेवमस्मान् दीनस्यानुदासीन इवेक्षसे ? ॥५०॥ बिभीषण! क्षणमपि न भक्तिविमुखोऽभवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ? ॥५१॥ विलपत्स्वपि तेष्वेवं न चेलुस्ते समाधितः । ततस्तदग्रे तन्मौलीश्चिच्छिदुर्यक्षकिङ्कराः ॥५२॥ अपश्यन्त इवाऽग्रस्थमपि तत्कर्म दारुणम् । न मनागप्ययुः क्षोभं ते ध्यानाधीनचेतसः ॥५३॥ रावणाग्रेऽपातयंस्ते मौली तर्दैनुजन्मनोः । दशग्रीवस्य मूर्धानं तयोरग्रे तु मायया ॥ ५४॥ किञ्चिच्चुक्षुभतुः कोपात् कुम्भकर्ण - बिभीषणौ ॥ गुरुभक्तिस्तत्र हेतुर्न पुनः स्वल्पसत्त्वता ॥५५॥ रावणः परमार्थज्ञस्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽभूद् गिरीन्द्र इव निश्चलः ॥५६॥ साधु साध्वित्यभूद् वाणी गीर्वेणानामथाऽम्बरे । ते च द्रुतमपासेंर्पंश्चकिता यक्षकिङ्कराः ॥५७॥ " तव स्मो वशवर्तिन्य इति जल्पन्त्य उच्चकैः । विद्या: सहस्रमभ्येयुर्दशास्यं द्योतिताम्बराः ॥ ५८ ॥ प्रज्ञप्ती रोहिणी गौरी गान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगामिनी ॥ ५९॥ अणिमा लघिमाऽक्षोभ्या मनः स्तम्भनकारिणी । सुविधाना तपोरूपा दहनी विपुलोदरी ॥ ६०॥ शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्रोदरी समाकृष्टिरदर्शन्यजरामरा ॥ ६१ ॥ अनलस्तम्भनी तोयस्तम्भनी गिरिदीरणी । अवलोकनी तु वह्निर्घोरा धीरों भुजङ्गिनी ॥ ६२॥
1
Jain Education International
१. अनुकूलोपसर्गाय खंता. १ - २, पाता. मु. ॥। २. प्रेषितवान् । ३. पश्यथाऽग्रतः इति पाठ: श्रीरमणीकविजयैरादृतः, अस्माकं त्वयमेव पाठो योग्य: प्रतिभाति ।। ४. देव्योऽपि च मु.; देवीरपि च वशी० मु. रसं. ॥ ५. स्मो वो यतः खंता. १-२, हे. ॥। ६. देवसदृशा: ।। ७. यक्षा: मु. ॥ ८. एकहस्तेन तालिका न भवेदिति यावत् ॥ ९. अहितेन ॥ १०. ध्यायथाऽपरम् मु. ॥। ११. पूच्चक्रुः हे. कां. मु. ॥। १२. भगिनीम् ॥ १३. कपटयुक्ताः ॥ १४. निर्दयैः ।। १५. विन्यधात्० कां . ।। १६. दीनमुखान् ।। १७. आप्नुवन् ॥ १८. तस्य लघुभ्रात्रोः ।। १९. देवानाम् ॥ २०. अनश्यन् ॥ २१. ०रदर्शिन्य० ला ॥ २२. गिरिदारुणी कां. खं. २, पाता.; गिरिहारणी ला. ॥ २३. वीरा ता. हे. मो. ॥
(सप्तमं पर्व
For Private Personal Use Only
www.jainelibrary.org