________________
॥द्वितीयः सर्गः॥
अथाऽन्येधुर्दशमुखः सानुजोऽपश्यदम्बरे। विमानारूढमायान्तमृद्धं वैश्रवणं नृपम्॥१॥ कोऽयमित्यनुयुक्ता तु तेन माताऽब्रवीदिति। कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः ।।२।। विश्रवोनामधेयस्य विद्याधरपतेः सुतः । सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटो ह्ययम्॥३।। भवत्पितामहज्येष्ठं हत्वेन्द्रो मालिनं रणे । लङ्का सराक्षसद्वीपां ददावस्मै च नः पुरीम् ॥४॥ ततः प्रभृति लङ्काया: प्राप्त्यै कृतमनोरथः । इहाऽस्ति ते पिता वत्स! युक्तं शक्ते द्विषि ह्यदः ॥५॥ लङ्कां सराक्षसद्वीपां सह पाताललङ्कया। विद्यां चराक्षसी नाम पूर्वजन्मात्मजन्मने॥६॥ रक्षोवंशादिकन्दाय मेघवाहनभूभुजे। राक्षसेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम् ॥७॥युग्मम्।। तस्यां हतायामाम्नायराजधान्यामरातिभिः। पितामहस्तिष्ठति ते पिताऽपि च परसुवत्।।८।। अरक्षके क्षेत्र इवोक्षार्णस्तस्यामरातयः। स्वैरं चरन्तीति सदा जीवच्छल्यं पितुस्तव॥९॥ कदा नु सानुजस्तत्र गत्वा पैतामहासने। आसीनो द्रक्ष्यसे वत्स! मयका मन्दभाग्यया? ॥१०॥ विलोक्य लङ्कालुण्टाकांस्त्वत्कारायां नियन्त्रितान्। शिरोमणिर्भविष्यामि कदा पुत्रवतीष्वहम् ? ॥११॥ एवं मनोरथैर्वत्स! खपुष्पीवचयोपमैः । क्षामीभवाम्यहरहर्मरॉलीवमरौ गता॥१२॥ पाअथैवमवदद रोषभीषणाक्षो विभीषणः। अलं मातर्विषादेननवेत्सिसुतविक्रमम्॥१३॥ आर्यस्य दशकण्ठस्य पुरस्ताद् देवि! दोष्मत:। क इन्द्रो ? वैश्रवण: कः? केऽन्ये विद्याधरा अपि?॥१४।। अज्ञातपूर्विणा लङ्काराज्यं सोढं द्विषामिदम् । दशास्येन प्रसुप्तेन सिंहेनेवेभगर्जितम्॥१५॥ आस्तामार्यो दशग्रीवः परानतिभटानपि। अप्यार्य: कुम्भकर्णोऽयं नि:शेषीकर्तुमीश्वरः॥१६॥ अस्त्वार्य: कुम्भकर्णोऽपि तदादेशात् करोम्यहम्। द्विषामकाण्डे संहारं मात:! पात: पवेरिव ॥१७॥
अथोचे रावणोऽप्येवं दशनैरधरं दशन् । त्वं वज्रकठिनाऽस्यम्ब! यद्दुःशल्यमाश्चिरम् ॥१८॥ अप्येकबाहुस्थाम्ना तान् हन्यामिन्द्रादिकान् द्विषः । शस्त्राशस्त्रिकथाऽप्यस्तु वस्तुतस्ते तृणं हि मे॥१९॥ दोर्वीर्येणाऽपि निर्जेतुं यद्यप्यलमहं परान् । तथाऽपि हि प्रयोक्तव्या विद्याशक्तिः क्रमागता॥२०॥ तद्विद्या: साधयिष्यामि निरवद्या: समन्ततः । अनुजानीहि यास्यामि तत्सिद्ध्यै सानुजोऽप्यहम्॥२१।। एवमुक्त्वा नमस्कृत्य पितरौ सानुजोऽपि सः। ताभ्यां च चुम्बितो मूर्ध्निभीमारण्यमुपाययौ।।२२।। शयानशयुनि:श्वासकम्पमानान्तिकद्रुमम् । दृप्तशार्दूललाफूलाच्छोटस्फोटितभूतलम् ॥२३॥ अस्तोकघूकघूत्कारघोरभूरुहगह्वरम्। नृत्यद्भूतपदाघातपतगिरितटोपलम्॥२४॥ भयङ्करं दिविषदामप्येकं पदमापदाम्।भ्रातृभ्यां सहितस्ताभ्यां तदरण्यं विवेश सः॥२५||त्रिभिर्विशेषकम्।। पते जटामुकुटान् मूर्ध्नि धारयन्तस्तपस्विनः । अक्षसूत्रधरा नासावंशाग्रन्यस्तदृष्टयः॥२६॥ श्वेतांशुकभृतो यामद्वितयेन त्रयोऽपि हि। सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् ॥२७|| दशकोटीसहस्राणि जपतो य: फलप्रदः। आरेभिरे ते जपितुंतं मन्त्रं षोडशाक्षरम् ॥२८॥
तदा त्वनाहतो नाम जम्बूद्वीपपति: सुरः । सान्त:पुर:क्रीडनाय तत्राऽऽयातो ददर्श तान् ॥२९।। १. ०मायान्तं धनदं प्रवरर्द्धिकम् खंता.१-२, हे. ता.; मायान्तमृद्धवैश्रवणं० मु. ॥ २. पृष्टा ॥ ३. एष० मो. ॥ ४. तव पितामहस्य ज्येष्ठभ्रातरम् ॥५. पूर्वजन्मात्मजन्मजे मु.॥ ६. राक्षसवंशस्याऽऽद्याङ्कुराय ।। ७. आम्नायेन - पारम्पर्येणाऽऽगतायां राजधान्याम् ।। ८. शत्रुभिः ।। ९. मृतवत्॥१०. वृषभाः॥ ११. दूझतो घा' इति भाषायाम् ॥१२. त्वत्कारागारे बद्धान् ।।१३. आकाशकुसुमसञ्चयोपमैः॥१४. मरुदेशेगता हंसीव ॥१५.धनदः को वा? खंता.१-२, ता. हे.॥१६. पूर्वमज्ञातेन ॥१७. वज्रस्य पात: प्रहार इव ॥१८. धृतवती॥१९. एकहस्तबलेन ।। २०. सुप्ताजगरस्य नि:श्वासेन कम्पमाना: समीपस्था द्रुमा यत्र तत्।। २१.० घूत्कारभूरुहच्छन्नगह्वरम् ता. ।। २२. जपमालाधराः ।। २३. श्वेतवस्त्रभृतः ।। २४. सर्वकामानदामष्टा० खंता.१-२, पाता.; कामप्रदा-मष्टाक्षरी मु.; ०प्रदामष्टाक्षरीविद्याम० छा. पा. ॥ २५. जपितो य: खंता.१-२, कां.ता.; जपो यस्य छा. पा. ता. मु.॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org