________________
१२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व तस्य गर्भस्य सम्भूते: प्रभृत्यत्यन्तनिष्ठुरा । वाणी बभूव कैकस्या दृढं चाऽङ्गं जितश्रमम् ॥१४७।। दर्पणे विद्यमानेऽपि सा खड्गेऽपश्यदाननम् । आज्ञां दातुमभिप्रैषीत् सुरराज्येऽप्यशङ्कितम् ॥१४८।। विनाऽपि हेतुं हुङ्कारमुखरं सा दधौ मुखम् । अनामयच्च मूर्धानं कथञ्चिन्न गुरुष्वपि ॥१४९॥ विद्विषां मूर्धसु चिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दधे गर्भप्रभावतः ॥१५०॥ प्रतिपक्षासनोत्कम्पं कुर्वाणस्तनयस्तया। साधिकद्वादशसमा-सहस्रायुरजन्यत ।।१५१॥ उल्ललन्सूतिकातल्पेऽनल्पौजा: कम्पयन् महीम् । उत्तानशय उद्दामपादकोकनदोऽथ सः ॥१५२॥ भीमेन्द्रेण पुरा दत्तं नेवमाणिक्यनिर्मितम् । चकर्ष पाणिना हारं पार्श्वस्थितकरण्डकात् ।।१५३॥युग्मम्।। कण्ठे चिक्षेप तं हारं बाल: सहजचापलात् । जगाम विस्मयं तेन कैकसी सपरिच्छदा॥१५४॥ रत्नश्रवसे साऽऽचख्यौ राक्षसेन्द्रेण य: पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्वजन्मने ॥१५५॥ अद्य यावद् देवतावद् योऽपूजि तव पूर्वजैः । न शक्यो वोढमन्यैर्यो नवमाणिक्यनिर्मितः ॥१५६। यश्च नागसहस्रेण निधानमिव रक्ष्यते। हार आकृष्य कण्ठेऽसौ सोऽक्षेपि शिशुना तव ॥१५७||त्रिभिर्विशेषकम्।। नवमाणिक्यसङ्कान्तमुखत्वात् तस्य तत्क्षणम् । नामधेयं 'दशमुख' इति रत्नश्रवा व्यधात् ॥१५८॥ शशंस चैव यन्मेरौ चैत्यवन्दनहेतवे। सुमालिना गतवता पृष्टस्तातेन कोऽप्यषिः ।।१५९।। चतुर्ज्ञानभृदित्याख्यद्धारं त्वत्पूर्वजन्मनाम् । यो वोढा नवमाणिक्यं सोऽर्धचक्री भविष्यति ॥१६०॥ पकैकसी सुषुवे चाऽन्यं भानुस्वप्नेन सूचितम् । भानुकर्ण इति सूनुं कुम्भकर्णापराभिधम् ॥१६१॥ चन्द्रतुल्यनखत्वेन नाम्ना चन्द्रणखां पुनः । ख्यातां सूर्पणखां लोके कैकसी सुषुवे सुताम् ॥१६२॥ कियत्यपि गते काले पुनश्चाऽसूत कैकसी। पुत्रं बिभीषणं नाम्ना शशाङ्कस्वप्नसूचितम् ।।१६३।।
साग्रषोडशधनु:समुन्नतास्ते त्रयोऽप्यहरहः सहोदरा:। रेमिरे गतभया यथासुखं क्रीडयाऽऽद्यवयसोऽनुरूपया ॥१६४।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राक्षसवंश-वानरवंशोत्पत्ति-रावणजन्म
वर्णनो नाम प्रथम: सर्ग:।।
१. कुर्वाण: समये तया । सूनुश्चतुर्दशसमा-सहस्रायु० खंता.१-२, हे. ता. ॥ २. स उल्ललत् सूतितल्पेऽनल्पोजा: खंता.१-२, ला. मो. का. ता. ॥ ३. डिम्भः ॥ ४. रक्तकमलम् ॥ ५. नवभिर्माणिक्यैर्निर्मितम् ।। ६. तव पूर्वजाय ।। ७. लीलयाऽऽकृष्य कण्ठेऽसौ खंता.१-२, हे. ता. ।। ८. कुम्भकर्ण
पराभिधम्
शतकमलम् ॥ ५. नवनिर्माणिERIT० खंता.१-२, हे. ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org