________________
प्रथमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
I
रिष्टाः खराः फेरवश्च सारसाश्च ववाशिरे । दक्षिणस्था अपि फले 'तेषां वामत्वधारिणः ॥ ११५ ॥ अन्यान्यप्यशकुनानि दुनिर्मित्तानि चाऽभवन् । माली सुमालिना वारि प्रयाणाच्च सुमेधसा ॥ ११६॥ अवज्ञाय वचस्तस्य माली दोर्बलगर्वितः । जगाम वैताढ्यगिराविन्द्रमाह्वास्त चाऽऽजये ॥११७॥ इन्द्रोऽप्यैरावणारूढो पाणिनोल्लालयन् पविम् । सेनानाथैर्नैगमेषिप्रमुखैः परिवारितः ॥११८॥ सोमाद्यैर्लोकपालैश्च विविधायुधधारिभिः । विद्याधरभटैश्चाऽन्यै रणक्षेत्रमुपाययौ ॥ ११९ ॥ युग्मम् ॥ इन्द्र-राक्षससैन्यानां सेम्फेटोऽभूत् परस्परम् । तडिन्निभास्त्रभीष्माणामम्भोदानामिवाऽम्बरे ॥१२०॥ निपेतुः स्यन्दना: क्वाऽपि शिखराणीव भूभृताम् । पलायन्त गजा: क्वाऽपि वातोद्भूता इवाम्बुदाः ॥१२१॥ पेतुर्भटानां मूर्धानो राहुशङ्काप्रदाः क्वचित् । कृंत्तैकपादाः क्वाऽप्यश्वाश्चेलुः सैन्दानिता इव ॥१२२॥ अमर्षादिन्द्रसैन्येन मालिसैन्यमभज्यत । बलवानपि किं कुर्यात् प्राप्तः कैंसैरिणा करी ? ॥ १२३॥ अथ रक्ष:पतिर्माली सुमालिप्रमुखैर्वृतः । सयूथ इव वन्येभः संसंरम्भोऽभ्यधावत ॥१२४॥ गदा-मुद्गर-नाराचैः करकैरिव वारिदः । उपदुद्रावेन्द्रचमूं स वीर्यद्रविणेश्वरः ॥ १२५॥ सलोकपालः सानीकः सानीकपतिरुच्चकैः । इन्द्रोऽप्यैरावणारूढो डुढौके रणकर्मणे ॥१२६॥ स इन्द्रो मालिना लोकपालप्रभृतयः पुनः । सुमालिप्रमुखैः सार्धं योद्धुमारेभिरे भटाः ॥१२७॥ तेषां चिरमभूद् युद्धं प्राणसंशयकृन्मिथः । जैयाभिप्रायिणां प्राय: प्राणा हि तृणसन्निभाः ॥१२८।। इन्द्रो द्रागथ निर्देम्भरणो दम्भोलिनाऽवधीत् । विद्युतेवाऽम्बुदो गोधां मालिनं वीर्यमालिनम् ॥१२९॥ हते मालिनि वित्रेसू राक्षसा वानराश्च ते । सुमाल्यधिष्ठिताश्चेयुर्लङ्कां पातालवर्तिनीम् ॥१३०॥ विश्रवःसूनवे सद्य: कौशिकाकुक्षिजन्मने । लङ्कां वैश्रमणायाऽदादिन्द्रः स्वं च पुरं ययौ ॥१३१॥ पुर्यां पाताललङ्कायां तिष्ठतश्च सुमालिनः । प्रीतिमत्यां सधर्मिण्यां जज्ञे रत्नश्रवाः सुतः ॥१३२॥ सम्प्राप्तयौवनो रत्नश्रवो रम्यमथाऽन्यदा । जगाम कुसुमोद्यानं विद्यासाधनहेतवे ॥ १३३ ॥ तत्रैकत्र रह:स्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्तदृक् तस्थावलेखित इव स्थिरः ॥१३४॥ इत्थं च तस्थुषे तस्मै काऽपि तस्थौ समीपतः । विद्याधर्यनवद्याङ्गी कुमारी पितृशासनात् ॥ १३५॥ तदानीं च महाविद्या नाम्ना मानवसुन्दरी । अस्मि सिद्धा तवेत्युच्चै रत्नश्रवसमभ्यधात् ॥१३६॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमोच च । ददर्श च पुरेस्तात् तां विद्याधरकुमारिकाम् ॥१३७॥ इहागा हेतुना केन ? कस्य ? वा काऽसि ? वेति च । रत्नश्रवा बभाषे तां साऽप्येवं प्रत्यभाषत ॥१३८॥ "अनेककौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिर्व्योमबिन्दुर्नामाऽस्ति विश्रुत: ॥१३९॥ तस्याऽस्ति ज्यायसी पुत्री कौशिका नाम मे स्वसा । ऊढा यक्षपुरेशेन राज्ञा विश्रवसा तु सा ॥ १४० ॥ या वैश्रवणो नाम बभूव तनयो नयी। राज्यं करोति लङ्कायां योऽधुना शक्रशासनात् ॥ १४१ ॥ अहं तु कैसी नाम कौशिकाया: कनीयसी । नैमित्तिकगिरा पित्रा दत्ता तुभ्यमिहाऽऽगमम् ॥१४२॥ आहूतबन्धुस्तत्रैवोपयेमे तां सुँमालिसः । पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडंस्तया सह ॥ १४३॥ 'अन्यदा कैकसी स्वप्ने विशन्तं स्वमुखे निशि । कुम्भिकुम्भस्थलीभेदप्रसक्तं सिंहमैक्षत ॥ १४४॥ तया तं स्वप्नमाख्यातं व्याख्याद् रत्नश्रवाः प्रेंगे। सूनुस्ते विश्वशौण्डीरो भविष्यति महाभुजः || १४५।। स्वप्नादनन्तरं तस्माच्चैत्यपूजां चकार सा । बभार च महासारं गर्भं रत्नश्रवः प्रिया ॥१४६॥
1
१२५
१. पक्षिविशेषा: ।। २. गर्दभा: । ३. शृगालाः ॥। ४. ववासिरे मु. विना; शब्दं चक्रुः ॥ ५. वीराणाम् ॥ ६. न्यषेधि ।। ७. युद्धाय ॥ ८. सुर राक्षस० खंता. १२, ता. हे. मो. ॥ ९. युद्धम् ।। १०. छिन्न एकः पादो येषां ते ।। ११. बद्धाः ॥ १२. केशरिणा मु. ।। १३. आवेशेन सह ॥ १४. 'करा' इति भाषायाम् ।। १५. वीर्यं बलमेव द्रविणं धनं, तस्य स्वामी १६. जयेच्छूनाम् ॥ १७. निर्दम्भं रणे पाता. ।। १८. वज्रेण ॥ १९. 'घो' इति भाषायाम् ॥ २०. धनदाय ददौ लङ्कामिन्द्रः हे. मो. ॥ २१. रत्नं रत्नाकरस्येव खंता. १ - २, हे. ता. ॥ २२. रत्नश्रवोऽन्येद्युर्मनोरमम् खंता. १ - २, मो. ॥ २३. चित्रित इव ॥ २४.०रूचे रत्नश्रवं प्रति खंता. १ - २, मो. ॥ २५. पुरस्थां मु. ॥ २६. आगताऽसि ॥ २७. रत्नश्रवो खंता. १-२, हे. ॥ २८. तस्याश्च धनदो० खंता १ - २, तस्या विश्रवणो० का. ला. ता. ॥ २९. आहूता बन्धवो येन सः ॥ ३०. सुमालिभूः ला ॥ ३१. कुसुमान्तं खंता. १ -२, हे. ता. ॥ ३२. कुम्भिनो गजस्य कुम्भस्थलभेदने प्रसक्तस्तत्परस्तम् ॥ ३३. प्रात: काले ॥ ३४. तस्मादनन्तरं स्वप्ना० कां ॥ ३५. महीसारं कां. ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org