________________
१२४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
ततो वानरसैन्यानि सदैत्यानि दिशोदिशम् । पवनास्फालिताम्भोदपटलानीव 'दुद्रुवुः ॥ ८३ ॥ सान्तःपुरपरीवारौ लङ्का-किष्किन्धनायकौ । पाताललङ्कां ययतुः क्वाऽप्युपायोऽपर्सर्पणम् ॥८४॥ निहत्य सुतहन्तारमाराधरमिव द्विपः । प्रशान्तकोप: समभूद् रथनूपुरपार्थिवः ॥ ८५॥
मुदितो वैरिनिर्घातान्निर्घातं नाम खेचरम् । स राजस्थापनाचार्यो लङ्काराज्ये न्यवेशयत् ॥८६॥ ततो निवृत्य वैताढ्ये स्वपुरे रथनूपुरे । अमरेन्द्रोऽमरावत्यामिवाऽगादशनिर्नृपः ॥८७॥ अन्येद्युर्जातसंवेगोऽशनिवेगनृपः स्वयम् । सहस्रारे सुते राज्यं न्यस्य दीक्षामुपाददे ॥८८॥
पुर्यां पाताललङ्कायां सुकेशस्याऽपि सूनवः । इन्द्राण्यामभवन् माली सुमाली माल्यवानपि ॥ ८९॥ श्रीमालायां च किष्किन्धेर्दो बभूवतुरात्मजौ। नाम्नाऽऽदित्यरजा रुक्षरजाश्चेति महाभुजौ ॥ ९० ॥ अपरेद्युश्च किष्किन्धिः सुमेरौ शाश्वतार्हताम् । यात्रां कृत्वा निवृत्तः सन्नपश्यन् मधुपर्वतम् ॥ ९१ ॥ किष्किन्धेर्विष्वगुद्याने तत्र मेराविवाऽपरे । मनोरमे मनो रन्तुं विशश्रामाऽधिकाधिकम् ॥९२॥ निधाय किष्किन्धपुरं तैस्योपरि पराक्रमी । न्यवात्सीत् सपरीवारः कैलास इव यक्षराट् ॥९३॥ पुत्रास्ते तु सुकेशस्य राज्यं श्रुत्वाऽरिभिर्हतम् । क्रुधा त्र्योऽग्नय इव जज्वलुर्वीर्यशालिनः ॥९४॥ ते समागत्य लङ्कायां निर्घातं खेचरं रणे । न्यगृह्णन् मृत्यवे हि स्याद् वीरैर्वैरं चिरादपि ।।९५।। ततश्च पुर्यां लङ्कायां राजा माली तदाऽभवत् । राक्षसद्वीपमुख्यानां द्वीपानामेकशासिता ॥९६॥ 'इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । सहम्रारनरेन्द्रस्याऽशनिवेगाङ्गजन्मनः ॥९७॥ भार्यायाश्चित्रसुन्दर्या गर्भे कैश्चित् सुरोत्तमः । प्रच्युत्याऽवातरत् सद्यो दृष्टे सुस्वप्नमङ्गले ॥ ९८ ॥ युग्मम् || काले च दोहदस्तस्याः शक्रसम्भोगलक्षणः । दुष्पूरो दुर्वचश्चाऽभूद् देहदौर्बल्यकारणम् ॥ ९९ ॥ निर्बन्धेन तु सा पृष्टा कथञ्चिदपि दोहदम् । कथयामास तं पत्ये लज्जावनमदानना ॥ १००॥ सहस्रारः सहस्राक्षरूपं निर्माय विद्यया । तया शक्र इति ज्ञतः पूरयामास दोहदम् ॥ १०१ ॥ असूत समये सूनुमन्नभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्भोगदोहदात् ॥१०२॥ सम्प्राप्तयौवनायाऽस्मै विद्यादोर्वीर्यशालिने । ददौ राज्यं सहस्रारः स्वयं धर्मरतोऽभवत् ॥ १०३॥ ||स सर्वान् साधयामास विद्याधरनरेश्वरान् । इन्द्रंमन्यश्च सैमभूदिन्द्रदोहदजैन्मतः ॥१०४॥ दिक्पालांश्चतुरश्चक्रे सँप्ताऽनीकान्यनीकपान् । तिस्रः परिषदो वज्रमस्त्रमैरावणं द्विपम् ॥ १०५ ॥ रम्भादिका वारवधूर्मन्त्रिणं च बृहस्पतिम् । नैगमेषिसमाख्यं च पत्त्यनीकस्य नायकम् ॥१०६॥युग्मम्॥ एवं विद्याधरैरिन्द्रपरिवाराभिधाधरैः । इन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् ॥ १०७॥ मकरध्वजिरादित्यकीर्तिकुक्षिसमुद्भवः । तत्राऽभूत् सोमदिक्पालः प्राच्यां ज्योतिष्पुरेश्वरः ॥ १०८॥ वरुणा-मेघरथयोः पुत्रः पश्चिमदिक्पतिः । बभूव वरुणो विद्याधरो मेघपुरेश्वरः ॥ १०९॥ तनयः सूर-कनकावल्योरुत्तरदिक्पतिः । कुबेर इति विख्यातोऽभूत् काञ्चनपुरेश्वरः ॥ ११०॥ कालाग्नि-श्रीप्रभासूनुः किष्किन्धनगराधिपः । अभूदपौच्यां दिक्पालो यम इत्यभिधानतः ॥ १११॥ 1 - विद्याधरेन्द्रमिन्द्रं तमिन्द्रोऽहमिति मानिनम् । गन्धेभोऽन्यमिभमिव न सेहे मालिभूपतिः ॥ ११२ ॥ भ्रातृभिश्च मन्त्रिभिश्च मित्रैश्चाऽतुलविक्रमैः । स चचालेन्द्रयुद्धाय नाऽन्यो मन्त्रो हि दोष्मताम् ॥ ११३ ॥ सिंह-द्विपाश्व-महिष-वराह-वृषभादिभिः । यानैः प्रचेलुः खेऽन्येऽपि रक्षोवीराः सवानराः ||११४ ||
(सप्तमं पर्व
१. नेशुः ।। २. पलायनम् ॥ ३. हस्तिपकम् ॥ ४. ऋक्षरजा० खंता. १-२, पाता.; ऊक्षरजा० ता. ॥ ५. मधुपर्वतस्योपरि ॥ ६. कुबेर: ।। ७. ( 1 ) दक्षिणाग्नि:, (2) गार्हपत्य:, (3) आहवनीयः एते त्रयोऽग्नयः ।। ८. स्याद् वैरं वीरैश्चि० छा. पा. ॥ ९. किष्किन्धायां तु किष्किन्धिगिराऽऽदित्यरजा नृपः मु. ॥ १०. अशनिवेगपुत्रस्य ॥ ११. सौधर्मवासवः मो. ॥ १२. आग्रहेण ॥ १३. इन्द्ररूपम् ।। १४. ख्यातः खंता. १ ।। १५. ०स पुनः प्राग्जन्मसंस्कारतोऽभवत् खंता. १ - २, हे. मो. ता. ।। १६. ०जन्मनः ला. ।। १७. सप्त सैन्यानि सप्त सेनापतीन् च ।। १८. नैगमेषिणा तुल्या अभिधा यस्य तम् ।। १९. मकरध्वजस्य पुत्रः ॥ २०. “पूर्वदिशि ज्योतिषपुरे माकरध्वजिः सोमदिक्पालः” टि. हे प्रतौ ॥ २१. “ पश्चिमदिशि मेघपुरे वरुणविद्याधर : दिक्पाल ” टि. हे. प्रतौ ॥ २२. “उत्तरदिशि काञ्चनपुरे कुबेरविद्याधरः दिक्पाल ” टि. हे प्रतौ ॥ २३. “दक्षिणदिशि किष्किन्धानगरे यमविद्याधरः दिक्पाल ” टि. हे. प्रतौ ॥ २४. एतच्चिह्नान्तर्गतः पाठः खंता. १ प्रतौ न दृश्यते ।। २५. आकाशे ।।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org