________________
१२३
प्रथमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। महाप्लवङ्गरूपाणि विकृत्याऽनेकशश्च सः । वर्षस्तरु-'शिलाजालैरुपदुद्राव राक्षसान् ॥५१॥ ज्ञात्वा दिव्यप्रयोगं तं तडित्केशस्तमुच्चकैः । आन!वाच कोऽसीति किमुपद्रवसीति च ॥५२॥ तत: सोऽब्धिकुमारोऽपि शान्तकोपस्तदर्चया। स्ववधं च नमस्कारप्रभावं च शशंस तम् ।।५३॥ लकेशस्तेन देवेन सहैवोपेत्य तं मुनिम् । इत्यपृच्छत् प्रभो! वैरहेतुः कः कपिना मम ? ॥५४॥ 'आचख्यौ मुनिरप्येवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुराऽभूस्त्वं काश्यामेष तु लुब्धकः ॥५५॥ त्वमुपात्तपरिव्रज्योऽन्येधुर्वाराणसीमगा: । दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातितः॥५६॥ माहेन्द्रकल्पे देवोऽभूश्च्युत्वा चेदृगिहाऽभवः । भ्रान्त्वा नरकमेषोऽभूत् कपिस्तद्वैरकारणम् ॥५७।। वन्दित्वा तं महासाधुमसामान्योपकारिणम् । अनुज्ञाप्य च लङ्केशं सोऽथ देवस्तिरोदधे ।।५८॥ तदाकर्ण्य तडित्केश: सुकेशे तनये निजे। राज्यं न्यस्य प्रवव्राज वव्राज च परं पदम् ॥५९।। किष्किन्धाराज्यमाधाय पुत्रे किष्किन्धिनामनि । दीक्षां घनोदधिरवोऽप्यादायेयाय निर्वृतिम् ॥६०॥
इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । अभूत् तदानीमशनिवेगो विद्याधरेश्वरः ॥६॥ तस्याऽपि सूनुर्विजयसिंह इत्यभवजयी। विद्युद्वेगो द्वितीयस्तु तद्दोर्दण्डाविवाऽपरौ॥६२॥ गिरौ तत्रैव चाऽऽदित्यपुरे मन्दरमाल्यभूत् । विद्याधरनृपस्तस्य श्रीमालेति च कन्यका ॥६३॥ तस्या: स्वयंवरे तेनाऽऽहूता विद्याधरेश्वराः । ज्योतीषीवाऽधिविमानमधिमञ्चमुपाविशन् ।।६४॥ कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाऽम्भसा ॥६५॥ अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा। गत्वाऽवतस्थे किष्किन्धौ जाह्नवीव पयोनिधौ ॥६६॥ तस्य कण्ठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यद्दोलताश्लेषसत्यङ्कारमिवाऽनघम् ॥६७||
उच्चैर्विजयसिंहोऽथ सिंहवत् प्रियसाहसः । भृकुटीभीषणमुख: सरोषमिदमभ्यधात् ॥६८।। निर्वासिता: पुराऽप्येते सदा दुर्नयकारिणः । वैताढ्यराजधानीत: सुराज्यादिव दस्यवः ॥६९।। तत् केनाऽमी इहाऽऽनीता दुर्नीता: कुलपांशना: । तदद्याऽपुनरावृत्त्यै निहन्म्येतान् पशूनिव ॥७०॥ इत्युदीर्य महावीर्यः सं उत्थाय यमोपमः । चचाल किष्किन्धिनृपवधायाऽऽयुधमुत्क्षिपन् ।।७१।। किष्किन्धित: सुकेशाद्या अन्ये विजयसिंहतः। रणायोत्तस्थिरे विद्याधरा पौरुषदुर्धराः ॥७२॥ दन्तादन्तिप्रवृत्तेभैरुत्स्फुलिङ्गीकृताम्बरः । कुन्ताकुन्तिमिलत्सादी शराशरिमिलद्रथी ॥७३॥ खेड्गाखझ्यापतत्पत्तिरसृक्पङ्किलभूतलः । रणस्तत: प्रववृते कल्पान्त इव दारुणः ॥७४।।युग्मम्।। चिरं युद्ध्वाऽथ बाणेन किष्किन्ध्यवरजोऽन्धकः । शिरो विजयसिंहस्याऽपातयत् फलवत् तरोः ॥७५।। त्रेसुश्च विजयसिंहगृह्या विद्याधरेश्वराः । निर्माथानां कुत: शौर्यं ? हतं सैन्यं ह्यनायकम् ॥७६।। श्रीमालां समुपादाय जयश्रियमिवाऽङ्गिनीम् । ययावुत्पत्य किष्किन्धिः किष्किन्धां सपरिच्छदः ॥७७॥
श्रुत्वा पुत्रवधोदन्तमकाण्डाशनिपातवत् । वेगेनाऽशनिवेगोऽगादधिकिष्किन्धिपर्वतम् ।।७८॥ किष्किन्धां नगरी सैन्यैः सोऽववेष्टदनेकशः । महाद्वीपस्थली द्वीपवतीपूर इवाऽम्बुभिः ॥७९॥ गहाया इव पञ्चास्यौ योद्धकामौ सहाऽन्धकौ । वीरौ सकेश-किष्किन्धी किष्किन्धाया निरीयतः ॥८॥ तत: सर्वाभिसारेणाऽशनिवेगोऽत्यमर्षणः । योद्धं प्रववते वीरस्तणवद गणयन पैरान ॥८॥ ततो विजयसिंहेभसिंहस्याऽऽजिमुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्धोऽशनिवेगो महाभुजः ॥८२॥ १.०शिखाजालै० मो. ॥ २. उपद्रवं करोषि ॥३. स्वसम्बन्धं मो. ॥४. वाणारसी० खंता.२, ला.॥५. दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातितः मु.॥ ६. मारित: ।। ७. किष्किन्ध० ला. ॥ ८. महोदधिरवो० खंता.१-२, घनोदधिरथो० मु.॥९. शिवम् ।। १०. मन्दिरमाल्यभूत् पाता. ला. मु. ॥११. विमानेषु ।। १२. मञ्चेषु ।। १३. 'नीक' इति भाषायाम् ।। १४. भावी यो दोलताया आश्लेषस्तस्य सत्यङ्कार-शपथम् ॥ १५. निष्कासिताः ।। १६. स्वराज्या० पाता.।। १७. चौरा: ।। १८. कुलाधमाः ।। १९. समुत्थाय कां. मो. ॥ २०. दन्तादन्तियुद्धे प्रवृत्तैर्गजैः ।। २१. सादी अश्ववारः ।। २२. खड्गाखड्गियुद्धेन आपतन्त: पत्तयो यस्मिन् सः ॥२३. असृजा शोणितेन पङ्किलं भूतलं यस्मिन् सः ।। २४. अनुजो भ्राता ।।२५. विजयसिंहस्याऽपातयन्मस्तकं फलवत् तरो: ला. ॥ २६. विजयसिंहस्य पक्षस्थाः ।। २७. किष्किन्ध० खंता.१-२, पाता. ॥ २८. सोऽवेष्टयदनेकश: ला. पा. छा. मो., स
चाऽवेष्टदनेकश: मु. ॥ २९. नदीपूरः ।। ३०. सिंहौ ।।३१. किष्किन्धौ० खंता.१-२, पाता. ॥ ३२. निर्जग्मुः ॥ ३३. सर्वबलेन ।। ३४. शत्रून् ।। ३५. Jain Education Int विजयसिंह एव गजस्तस्मिन् सिंहसदृशस्याऽन्धकस्य ।। ३६. रणमुखे 11 & Personal use Only
www.jainelibrary.org