________________
१२२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व पुष्पोत्तरोऽपि तत्राऽऽशु प्राप सैन्यैर्निरन्तरैः । आशा: प्रच्छादयन्नद्भिर्युगान्त इव सागरः ॥१८।। दूतेन कीर्तिधवल: पुष्पोत्तरमभाषत । अविमृश्य प्रयासोऽयं मुधा व: साम्परायिकः ॥१९।। कन्या ह्यवश्यं दातव्या कस्मैचन तया यदि। स्वयं वृतोऽसौ श्रीकण्ठस्तदाऽसौ नाऽपराध्यति ॥२०॥ न तद्वो युज्यते योद्धं बुद्ध्वा स्वदुहितुर्मनः । कर्तुं वधूवरोद्वाहकृत्यमेव तु साम्प्रतम् ॥२१।। दूतीमुखेन पद्माऽपि तदैवेति व्यजिज्ञपत्। वृतो मया स्वयमयं हृताऽहं नाऽमुना पुनः ॥२२॥ इति पुष्पोत्तरः श्रुत्वा शान्तकोपोऽभवत् क्षणात् । प्रायो विचारचञ्चूनां कोप: सुप्रशम: खल ॥२३॥ श्रीकण्ठ-पद्मयोस्तत्रैवोत्सवेन महीयसा । कृत्वा विवाहं प्रययौ निजं पुष्पोत्तरः पुरम् ॥२४॥ पश्रीकण्ठं कीर्तिधवलोऽब्रवीदत्रैव तिष्ठ यत् । वैताढ्यशैले युष्माकं भूयांसो विद्विषोऽधुना ॥२५॥ अस्यैव राक्षसद्वीपस्याऽदूरेण मरुद्दिशि। विद्यते वानरद्वीपो योजनत्रिशतीमितः ॥२६॥ अन्येऽपि बर्बरकुल-सिंहलप्रमुखा: सखे! । द्वीपा मदीयास्तिष्ठन्ति भ्रष्टस्व:खण्डसन्निभाः॥२७॥ तेषामेकतमे क्वाऽपि राजधानी निधाय भोः! । सुखमास्स्वाऽविदूरत्वादवियुक्तो मया समम् ॥२८॥ न यद्यपि द्विषद्भ्यस्ते भयमस्ति मनागपि । तथाऽप्यस्मद्विप्रयोगभयान्न गन्तुमर्हसि ॥२९॥ सस्नेहमिति तेनोक्तस्तद्वियोगातिकातरः । श्रीकण्ठो वानरद्वीपनिवासं प्रत्यपद्यत ॥३०॥ कृत्वाऽधिवानरद्वीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धां नाम तद्राज्ये तं कीर्तिधवलो न्यधात् ।।३१।। पअद्राक्षीद् भ्राम्यतस्तत्र महादेहान् फलाशिनः । भूयसो वानरान् रम्यान् श्रीकण्ठपृथिवीपतिः ॥३२।। तेषाममारिमाघोष्य सोऽन्नपानाद्यदापयत्। सँच्चकुस्तानथाऽन्येऽपि यथा राजा तथा प्रजाः ॥३३॥ चक्रुश्चित्रे च लेप्ये च ध्वज-छत्रादिलक्ष्मसु । विद्याधरा वानरांस्ते तदा प्रभृति कौतुकात् ॥३४॥ वानरद्वीपराज्येन वानरैर्लक्ष्मभिस्तथा । वानरा इति कीर्त्यन्ते तत्स्था विद्याधरा अपि ॥३५।। श्रीकण्ठस्य सुतो जज्ञे वज्रकण्ठोऽभिधानतः । सोत्कण्ठो रणलीलासु सर्वत्राऽकुण्ठविक्रमः ।।३६।। नन्दीश्वरेऽथ श्रीकण्ठो यात्रायै शाश्वतार्हताम् । अमरान् गच्छतोऽद्राक्षीदास्थानीमास्थितो निजाम् ॥३७॥ वाजीव ग्रामपद्रस्थो वाजिनां मार्गयायिनाम् । तेषां दिविषदां सोऽथाऽन्वचालीद् भक्तितद्धनः ॥३८॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे। तरङ्गिणीवेग इव मार्गवर्तिनि पर्वते ॥३९॥ प्राग्जन्मनि मया तेपे तपोऽल्पं खलु तेन मे । नन्दीश्वरार्हद्यात्रायां नाऽपूर्यत मनोरथः ॥४०॥ इति निर्वेदमापन्नः प्राव्राजीत् सद्य एव सः । तपस्तीव्रतरं तप्त्वा सिद्धिक्षेत्रमियाय च ॥४१॥ पाश्रीकण्ठतो वज्रकण्ठादिष्वतीतेष्वनेकश: ।मुनिसुव्रततीर्थेऽभूद् घनोदधिरवो नृपः ॥४२।। लङ्कापुर्यामपि तदा समभूद् राक्षसेश्वरः । तडित्केश इति नाम्ना जज्ञे स्नेहस्तयोरपि ।।४३।। अपरेास्तडित्केश: सान्त:पुरवधूजनः । ययौ क्रीडितुमुद्याने वरे नन्दननामनि ॥४४॥ क्रीडासक्ते तडित्केशे कोऽप्युत्तीर्य कपिर्दुमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ।।४५|| रोषोच्छ्वसितकेशस्तं तडित्केश: प्लवङ्गमम् । जघानैकेन बाणेनाऽसह्यो हि स्त्रीपराभव: ॥४६।। बाणप्रहारविधुरः किञ्चिद् गत्वा प्लवङ्गमः । एकस्य प्रतिमास्थस्य साधोरग्रे पपात सः ॥४७॥ सोऽदात् तस्मै नमस्कारं परलोकाध्वशम्बलम् । मृत्वा च तत्प्रभावेणाऽब्धिकुमारो बभूव सः॥४८॥ प्राग्जन्म सोऽवधेत्विाऽभ्येत्याऽवन्दिष्ट तं मुनिम् । वन्दनीय: सतां साधुर्युपकारी विशेषतः ।।४९।। अन्यानपि तडित्केशभटैस्तत्र प्लवङ्गमान् । हन्यमानान् स ऐक्षिष्ट सद्य: कोपेन चाऽज्वलत् ॥५०॥ १. निरन्तरम् ला.॥२. दिश: ।। ३. आच्छादयन्नद्भिर्यु० मो. ॥४. जलैः ॥५. युद्धसम्बन्धी प्रयासो यत्नः॥६. युक्तम् ॥७. अयं स्वयं मया वव्रे खंता.१२,पाता. मो. ता. ॥ ८. विचारचतुराणाम् ।। ९. वायव्यकोणे ॥१०. पतितस्वर्गखण्डसदृशाः ॥११. तेषामेकत्र कुत्राऽपि ला. मु.॥१२. सुखमात्स्वा० खंता.१-२। सुखं तिष्ठ ।।१३. वानरद्वीपे ला. ॥१४, सच्चकुस्तांस्तथाऽन्येऽपि मो. ॥ १५.प्रजा खंता.२,ला. ॥१६. लक्ष्म-चिह्नम् ।।१७. वानरा इति कीर्तिताः । ततो वानरलक्ष्माण खंता. १-२, वानरा इति कीर्तिताः। ततो वानरलक्ष्माणस्तस्थुर्विद्या० मो. ॥ १८. सभाम् ॥ १९. यथा ग्रामस्य
पद्रे(पादरमां) स्थितोऽश्व: मार्गयायिनं वाजिनं दृष्ट्वा चलति तथा ।।२०. भक्तिसंयुतःमु.॥२१. नदीवेगः ।। २२. मोक्षम् ॥ २३.०घनोदधिरथो० मु.॥ २४. Jain Education रोषेण उच्छसिता-ऊर्वीभूता: केशा यस्य सः ॥ २५. बाणप्रहारेण विह्वलः ॥ २६. पाथेयम् ।। २७. स्थित: मो. ॥
www.jainelibrary.org