________________
॥अर्हम् ।। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं
त्रिषष्टिशलाकापुरुषचरितम् राम-लक्ष्मण-रावण-चरितप्रतिबद्धं सप्तमं पर्व ॥
॥राक्षसवंश-वानरवंशोत्पत्ति-रावणजन्मवर्णन: प्रथम: सर्गः॥
अथ श्रीसुव्रतस्वामिजिनेन्द्रस्याऽञ्जनद्युतेः । हरिवंशमृगाङ्कस्य तीर्थे सञ्जातजन्मनः ॥१॥ बलदेवस्य पद्मस्य विष्णोरायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते॥२॥ भरतेऽत्र रक्षोद्वीपे लङ्कायां घनवाहनः । आसीद् रक्षोवंशकन्दो विहरत्यजितेऽर्हति ॥३।। स महारक्षसे राज्यं सुधीर्दत्त्वा स्वसूनवे। अजितस्वामिपादान्ते परिव्रज्य ययौ शिवम् ॥४॥ महारक्षा अपि चिरं राज्यं भुक्त्वा स्वनन्दने । देवरक्षसि संस्थाप्य प्रव्रज्य च शिवं ययौ ॥५॥ रक्षोद्वीपाधिपेष्वेवमसङ्ख्येषु गतेषु तु । श्रेयांसतीर्थेऽभूत् कीर्तिधवलो राक्षसेश्वरः ॥६॥
तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे। विद्याधरनरेन्द्रोऽभूदतीन्द्रो नाम विश्रुतः ॥७॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठो नाम नन्दनः । देवीति नाम्ना दहिता चाऽभूद् देवीव रूपतः ।।८।। विद्याधरेन्द्रस्तां पुष्पोत्तरो रत्नपुरेश्वरः । सूनो: पद्मोत्तरस्याऽर्थे ययाचे चारुलोचनाम् ॥९॥ गुणिने श्रीमतेऽप्यस्मै तामतीन्द्रो ददौ न हि । ददौ कीर्तिधवलाय किन्तु दैवनियोगतः ॥१०॥ तां कीर्तिधवलोढां तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्माऽतीन्द्रेण श्रीकण्ठेन च मानदः ॥११॥ पाश्रीकण्ठेनैकदा मेरोर्निवृत्तेन व्युदैक्ष्यत । पुष्पोत्तरस्य दुहिता पद्मा पद्येव रूपतः ॥१२॥ मनोभवविकाराब्धिसमुल्लासनदुर्दिनम् । अन्योऽन्यमनुरागोऽभूत् सद्य: श्रीकण्ठ-पद्मयोः ॥१३।। तिष्ठते स्म कुमारी सा श्रीकण्ठायोन्मुखाम्बुजा । स्वयंवरम्रजमिव क्षिपन्ती स्निग्धया दृशा ॥१४॥ विज्ञाय तदभिप्रायं श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तुं प्रववृते द्रुतम् ॥१५॥ पद्मां हरति कोऽपीति पूत्कुर्वन्ति स्म चेटिकाः । पुष्पोत्तरोऽपि सन्नह्याऽन्वधावत् सेंबलो बली॥१६॥ श्रीकण्ठोऽपि द्रुतं कीर्तिधवलं शरणं ययौ । पद्माहरणवृत्तान्तं कथयामास चाऽखिलम् ॥१७॥
१. अह। नमः सर्वज्ञाय खंता.२; अर्ह, नमो वीतरागाय, सकलार्हत् नामाकृति० पाता./नमः श्रीसर्वज्ञाय ला. ॥२. अञ्जनस्येव द्युति: कान्तिर्यस्य तस्य ।। ३. हरिवंशे चन्द्रसमानस्य ।। ४. रामस्य ।। ५. लक्ष्मणस्य ।। ६. ला.प्रतौ तृतीयश्लोकस्थाने ७७सङ्ख्या: श्लोकाः सन्ति । तेषु च आद्यश्लोकद्वयीं अष्टात्रिंशत्तमं एकोनाशीतितमं च श्लोकं मुक्त्वा शेषा: सर्वेऽपि श्लोकाः त्रिषष्टिशलाकागतश्रीअजितस्वामिचरिते चतुर्थे पञ्चमे च सर्गे क्रमश:३०३त: ३३५, १ त: ४० श्लोकत्वेन प्राप्यन्ते ॥ तत्राऽप्राप्तश्लोकचतुष्टयी त्वेवम् -
“अस्त्यस्य जम्बूद्वीपस्य, द्वीपस्य भरते पुरी। नाम्ना ख्याता विनीतेति, शिरोमणिरिवाऽवनेः ।।३।।
अस्यामिक्ष्वाकुवंशस्य, विततच्छत्रसन्निभ: । विश्वसन्तापहरण-श्चक्रभृत् सगरोऽजनि ॥४॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥३८॥
विसूत्रिताऽमित्रबल:, सुत्रामेवैकविक्रमः । व्यधत्त लङ्कयो राज्यं, सुचिरं धनवाहनः ॥७९॥" ७. ययौ शिवम् खंता.१-२,पाता. ला. ॥ ८. च खंता. ।। ९. किन्तु कीर्तिधवलाय, ददौ विधिनियोगत: खंता.१-२,पाता. मो. ॥१०. दैवादेशात् ।। ११. कीर्तिधवलेन ऊढां परिणीताम् । कीर्तिधवलोदूढां श्रुत्वा० मो. ॥ १२. वैरं कृतवान् ।। १३. मानं द्यति-खण्डयति मानदः ॥ १४. कामविकार एव सागरस्तस्य समुल्लासने दुर्दिनम्, अनुरागविशेषणम् ।। १५. उन्नतं मुखमेव अम्बुजं कमलं यस्याः सा ॥१६. सैन्यसहितः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org