________________
११८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व अथैक: साधुरित्यूचे गन्तुं तत्र विहायसा । शक्नोमि न समागन्तुं ब्रूत यत्कृत्यमत्र मे ॥१६०॥ त्वां समानेष्यते विष्णुरेवेति गुरुणोदिते । उत्पत्य ता_वद् व्योम्ना क्षणात् पद्माग्रजं ययौ ॥१६१।। दृष्ट्वा विष्णुकुमारस्तं चिन्तयामासिवानिति । सङ्घकार्यं महद्वेगाद् वदत्यस्याऽऽगमो पुनः॥१६२।। प्रावृट्काले हि साधूनां विहारो नाऽन्यथा भवेत् । लब्धीनामुपयोगो हि न ते कुर्युर्यथा तथा ॥१६३।। एवं विचिन्तयन्तं तं स मुनिर्मुनिपुङ्गवम् । अभिवन्द्य समाचख्यौ तन्निजागमकारणम् ॥१६४॥ क्षणाद् विष्णुकुमारस्तं गृहीत्वर्षि विहायसा । आययौ हास्तिनपुरे ववन्दे चाऽऽत्मनो गुरून् ॥१६५॥ ततः साधुपरीवारो विष्णुर्नमुचिमभ्यगात् । सर्वैनमुचिवर्जं च ववन्दे पार्थिवादिभिः ॥१६६॥ विष्णुधर्मकथापूर्वं ससान्त्वमिदमभ्यधात् । यावत् प्रावृडिहैवाऽमी तिष्ठन्तु मुनयः पुरे ॥१६७॥ एकत्र स्वयमप्येते चिरकालं वसन्ति न । वर्षासु जन्तुबाहुल्याद् विहारस्तु न कल्पते ॥१६८।। गरीयसि पुरेऽमुष्मिन् भिक्षुभिर्भेक्षवृत्तिभिः । अस्मादृशैर्वसद्भिस्ते हानि: का नाम बुद्धिमन्! ? ॥१६९।। भरतादित्यसोमाद्यैर्वन्दिता: साधवो नृपैः । तथा न चेत् करोषि त्वं स्थातुं देहि तथाऽपि भोः! ॥१७०।। इत्युक्तो विष्णुना मन्त्री प्रत्यूचे कोपदारुणम् । अलमाचार्य! वचनैर्वस्तुं नेह ददामि वः ॥१७१॥ पुनरप्यभ्यधाद् विष्णु: प्रभविष्णुरपि क्षमी। वसन्तूद्यानमेवाऽमी नगरस्य बहि: स्थिताः ॥१७२।। जातामर्षो महर्षि तं व्यब्रवीत् सचिवब्रुवः । न सहे गन्धमपि व: संवासप्रार्थनैरलम् ॥१७३॥ पुरस्याऽन्तर्बहिर्वाऽपि निवास: श्वेतवांससाम् । दस्यूनामिव मर्यादाहीनानां न भविष्यति ॥१७४।। यदि व: प्राणितं प्रेयस्तदाऽपसरत द्रुतम् । अन्यथा वो हनिष्यामि तार्यो विषधरानिव ॥१७५।। इत्युक्त्योद्दीपितो विष्णुराहत्येव हताशनः । ऊचे तथाऽप्यहो! देहि स्थातुं नस्त्रिपदीमिह ॥१७६।। ततो नमुचिरित्यूचे दत्ता वत्रिपदी मया । यस्त्रिपद्या बहिर्व: स्यान्निहनिष्यामि तं खलु ॥१७७॥ एवमस्त्विति देहीति चोक्त्वा प्रववृधे मुनिः । किरीटी कुण्डली स्रग्वी धनु-र्वज्र-कृपाणभृत् ॥१७८॥ खेचरान् स्फारफूत्कारै शयन् जीर्णपर्णवत्। पद्मिनीपत्रवत् पाददर्दरैः कम्पयन् महीम् ॥१७९।। उल्लालयन् जलनिधीन् कल्पान्तपवमानवत् । प्रतीपगा आपगाश्च कुर्वाण: सेतुबन्धवत् ॥१८०।। ज्योतिश्चक्राणि पर्यस्यन् कर्करप्रकरानिव । दारयन् पर्वतवरानपि वल्मीकपुञ्जवत् ।।१८१॥ स महौजा महातेजा: सुरासुरभयङ्करः । वर्धमानः क्रमान्नानारूपो मेरुसमोऽभवत् ॥१८२॥चतुर्भि: कलापकम्।। त्रिजगत्क्षोभमालोक्य प्रसादनकृतेऽस्य तु। सहस्राक्ष: समादिक्षद् गायनी: सुरयोषितः ।।१८३।। कर्णमूले जगुस्तस्य गान्धारग्रामबन्धुरम् । सर्वज्ञोपज्ञशास्त्रानुरूपमेतन्निरन्तरम् ॥१८४ "कोपादिहाऽपि दह्यन्ते स्वार्थे मुह्यन्ति चाऽसकृत् । विपद्य चाऽनन्तदु:खं प्रयान्ति नरकं नरा:” ॥१८५।। इति कोपं शमयितुं किन्नरादिस्त्रियोऽपि हि । जगुश्च ननृतुश्चाऽग्रे तस्य विष्णुमहामुनेः ॥१८६॥ धरण्यां नमुचिं क्षिप्त्वा मध्येपूर्वापराम्बुधि । ददौ पादं जगद्वन्द्यपाद: पद्माग्रजो मुनिः ॥१८७॥ बापोऽपि ज्ञातवत्तान्त: समपेत्य ससंभ्रमः। चकित: स्वप्रमादेन मन्त्रिदोषेण तेन च ॥१८८॥ स्वमग्रजं महर्षिं तं नमस्कत्याऽतिभक्तितः । कताञ्जलिर्नेत्रजलक्षालितांहिरदोऽवदत ॥१८९।। तात: पद्मोत्तरोऽद्याऽपि चेतसा मम तिष्ठति । स्वामिन्! विजयिनि सति लोकोत्तरगुणे त्वयि ॥१९०॥ श्रीसङ्घाशातनां मन्त्रिपांसनेनाऽमना वहम । क्रियमाणां न जानामि ज्ञापितोऽस्मिन केनचित ॥१९॥ अपराधी तथाऽप्यस्मि भृत्य: पापो ह्यसौ मम । स्वामिनो भृत्यदोषेण गृह्यन्ते इति नीतिवाक् ॥१९२।। १. गरुडवत् ।। २. गृहीत्वार्षि मु.॥ ३. साधुकुमारोऽपि हे. ॥ ४. निवासं कर्तुम् ।। ५. आत्मानं सचिवं ब्रूते सः, दुष्टसचिवः ।। ६. जीवितं प्रियम् ।। ७. पादकुट्टनैः ।। ८. प्रतीपं-प्रतिलोमं गच्छन्ति ताः ॥९. सेतुबन्धुवत् खंता. पाता. ॥१०. इन्द्रः ।।११. पुनः पुनः ।।१२. पूर्वापरयोरम्बुध्यो:-समुद्रयोर्मध्ये ।। १३.०त्वहम् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org