________________
११७
अष्टमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । विष्णुरप्यभ्यधत्तैवं कृतं राज्येन तात! मे। त्वामनु प्रव्रजिष्यामि व्रजिष्यामि त्वदध्वना ॥१२७॥ राजाऽथ पद्ममाहूय सोपरोधमभाषत । वत्सोपादत्स्व राज्यं नः प्रव्रजामो यथा वयम् ॥१२८॥ अभ्यधात् प्राञ्जलि: पद्मस्तात! तातसमे मम। आर्ये विष्णुकुमारे सत्येतन्न खलु युज्यते ॥१२९।। राज्येऽभिषिच्यतां विष्णुरलम्भूष्णुर्जगत्यपि । भवामि युवराजोऽस्य पदातिवदहं पुनः ॥१३०॥ ऊचे राज्ञाऽभ्यर्थितोऽपि नैष राज्यं जिघृक्षति। जिघृक्षति परिव्रज्यां किन्तु सार्धं मयैव हि ॥१३१॥ आत्तमौनस्तत: पद्म: पद्मोत्तरमहीभुजा। राज्येऽभिषिच्ये चक्रित्वाभिषेकेण सहैव हि ॥१३२॥ कृतनिष्क्रमणस्तेन सुव्रतांहितले व्रतम् । पद्मोत्तरनृपो विष्णुकुमारेण सहाऽऽददे ॥१३३।। स्वपुरेऽभ्रमयत् पद्मोऽप्यार्हतं मातृकं रथम् । पूज्यमानं जनैः सर्वैः स्वशासनमिवाऽवनौ ॥१३४।। रथभ्रमणकालं तु तेऽपि सुव्रतसूरयः । तस्थुस्तत्रैव नगरे समं पद्मोत्तरादिभिः ॥१३५॥ चक्रे जिनप्रवचनस्योन्नति: पद्मचक्रिणा । स्वकीयस्येव वंशस्य चरित्राद्भुतशालिना ॥१३६।। ग्रामाकर-पुर-द्रोणमुखादिषु स उच्चकैः। कोटिशोऽकारयच्चैत्यान्यद्रीनिव नवोत्थितान् ॥१३७|| विहृत्य गुरुभिः सार्धं पालयित्वोत्तमं व्रतम् । उत्पन्नकेवल: सिद्धिं पद्योत्तरमुनिस्त्वगात् ॥१३८॥ मुनिर्विष्णुकुमारोऽपि तप्यमानोऽद्भुतं तपः । तपोमहिम्ना समभूत् सञ्जातानेकलब्धिकः ॥१३९॥ उत्तुङ्गो मेरुवद् व्योमचारी विहंगराजवत् । गीर्वाणवत् कामरूपो रूपवान् मीनकेतुवत् ॥१४०।। इत्यादि विविधावस्थो भवितुं प्रबभूव सः । बभूव न तु साधूनां लब्धिभोगोऽपदे न हि ॥१४१॥ तेऽन्यदा सुव्रताचार्याः साधुभिः परिवारिताः । प्रावृषोऽतिक्रमायैत्य न्यवसन् हस्तिनापुरे ॥१४२।। आचार्यागमनं ज्ञात्वा प्राग्वैरप्रतियातनाम् । चिकीर्षुर्नमुचिर्मन्त्री महापद्मं व्यजिज्ञपत् ।।१४३।। वर: प्राक्प्रतिपन्नो मे नरेन्द्रवर! दीयताम् । न्यासवत् प्रतिपन्नस्य नाऽस्ति नाशो महात्मसु ॥१४४॥ याचस्वेति स राज्ञोक्तेऽब्रवीद् यक्ष्याम्यहं तुम् । तदन्तावधि मे राज्यं देहि वाचं निजां स्मरन् ॥१४५॥ सत्यप्रतिज्ञो निदधे राज्ये नमुचिमन्त्रिणम् । अन्तरन्त:पुरं राजा प्रविवेश स्वयं पुनः॥१४६।। पुरान्निर्गत्य नमुचि: कपटात् क्रतुवाटके । अभवदीक्षित: पापो दुष्टध्यायी बैंकोटवत् ॥१४७।। तस्याऽभिषेककल्याणं कर्तुं प्रकृतयोऽखिला: । श्वेतभिक्षून विना सर्वे लिङ्गिनश्च समाययुः ॥१४८॥ एयुर्मी लिङ्गिन: सर्वे न त्वमी श्वेतभिक्षवः । मात्सर्यादिति तच्छिद्रमग्रे चक्रे स दुर्मतिः ॥१४९।। गत्वा च सुव्रताचार्यानिति साक्षेपमब्रवीत् । यो यदा स्यान्नपस्तं हि श्रयन्ते लिङ्गिनस्तदा ॥१५०॥ राजरक्ष्याणि हि तपोवनानीति तपोधनैः । राजाऽभिगम्यः क्रियते तपःषष्ठांशभाक् तथा॥१५१॥ मन्निन्दका: पुनर्पूयं स्तब्धा: पाखण्डिपांसना: । निर्मर्यादा विधातारो लोक-राजविरुद्धयोः ॥१५२॥ तद्यष्माभिर्न मे राज्ये स्थातव्यं गच्छताऽन्यतः । योऽत्र वः स्थास्यति स मे वध्यः खलु खलाशयः॥१५३॥ युग्मम् बभाषे सूरिरप्येवं न न: कल्प इति त्वयि । अभिषिक्ते न सम्प्राप्ता निन्दामश्च न कञ्चन ॥१५४॥ प्रत्यूचे स पुन: क्रुद्धः कृतमाचार्य! विस्तरैः । सप्ताहादिह तिष्ठन्तो निग्राह्या दस्युवन्मया ॥१५५।। पाइत्युक्त्वा स ययौ स्वौकः सूरिरप्यब्रवीन्मुनीन् । किं कर्तव्यमिह ब्रूत यथाशक्ति यथामति ॥१५६।। तत्रैक: साधुरित्यूचे षष्टिवर्षशतीं तपः । तप्तवान् विष्णुकुमारो मन्दरे सोऽस्ति सम्प्रति ॥१५७॥ सोऽग्रज: पद्मराजस्य तेन तद्वचनादसौ। शान्तिं यास्यति नमुचि: स्वामी सोऽप्यस्य पद्मवत ॥१५८॥ यो विद्यालब्धिमान् साधुस्तमानेतुं प्रयातु स: । उपयोगोऽपि लब्धीनां सङ्घकार्ये न दुष्यति ॥१५९॥ १. तव मार्गेण ॥२. आग्रहसहितम् ।। ३. पितृसदृशे॥ ४. ग्रहीतुमिच्छति ॥५. परिव्रज्यां किन्तु साधु गृ(ग्र)हीष्यति मयैव हि। हे. ॥६. गरुडवत् ॥७. कामदेववत् ।। ८. समर्थो बभूव, परं न कृतवानुपयोगमित्यर्थः ।। ९. अस्थाने ॥१०. प्रतियातना-प्रतिक्रिया ॥११. न्यास:-'थापण' ॥ १२. यज्ञम् ।। १३. यज्ञमण्डपे ॥१४. बकवत् ॥१५. अस्याभि० पाता. ॥१६. नागरिकाः ॥ १७. आचारः ॥ १८. किचन मु.॥१९. निग्रहपात्राणि ॥ २०. स्वगृहम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org