________________
११६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व तत्राऽस्तीन्द्रधनुर्नाम विद्याधरनरेश्वरः । श्रीकान्ता नाम तद्भार्या जयचन्द्रा तयोः सुता ।।९४॥ अनुरूपवराप्राप्त्या जयचन्द्रा च साऽभवत् । पुरुषद्वेषिणी जीवन्मृता हीनवरा: स्त्रियः ॥९५॥ पटेष्वालेख्य रूपाणि भरतक्षेत्रभूभुजाम् । दर्शितानि मया तस्यै न किञ्चिदरुचत् परम् ।।१६।। पटे त्वद्रूपमन्येधुर्लिखित्वा दर्शितं मया। द्राक् तस्या हदि कामेन कामं च निदधे पदम् ॥९७।। पुरुषद्वेषिणी सा प्राग् जीवितद्वेषिणी तंत: । बभूव मन्यमाना त्वां दुर्लभं प्राणवल्लभम् ।।९८|| पतिर्भवति वा मेऽसौ पद्म: पद्मोत्तरात्मजः । मरणं शरणं वा मे प्रतिज्ञामिति साऽकरोत् ॥९९।। तस्यास्त्वय्यनुरागं तं पित्रोरहमचीकथम् । अनुरूपवरेच्छातस्तत्क्षणान्मोदमानयोः ॥१००॥ अहं वेगवती नाम महाविद्याधरी प्रभो! । ताभ्यामस्मि समादिष्टा त्वदानयनहेतवे ॥१०१॥ तवानुरागिणीं चैतामाश्वासयितुमब्रुवम् । सुभ्रु! स्वस्था भवाऽद्यैव तत्र यास्यामि नन्वहम् ।।१०२।। आनेष्यामि महापद्मं तव हृत्पद्मभास्करम् । नो वा वह्निं प्रवेक्ष्यामि क्षामीकुरु मनोरुजम् ।।१०३।। एवं तामहमाश्वास्य तदाश्वाससुधाकरम् । इहोपेत्य नयामि त्वामुपकार्यसि मा कुपः॥१०४॥ साऽथ तं तदनुज्ञाता सूरोदयपुरेऽनयत् । आभियोग्यधुसद्यानप्रायानल्पेन रंहसा ।।१०५।। प्रभाते सूरवत् सूरोदयनाथेन पूजितः । जयचन्द्रामुपायंस्त स चन्द्र इव रोहिणीम् ॥१०६।।
जयचन्द्रामातुलजौ गङ्गाधर-महीधरौ । महाविद्याधरौ विद्यामददोर्मददुर्धरौ ।।१०७।। तद्विवाहं समाकर्ण्य सद्यश्चकुपतुस्तराम् । एकद्रव्याभिलाषो हि महद्वैरस्य कारणम् ॥१०८।। तौ च सर्वाभिसारेण शूरौ सूरोदये पुरे । समयतुर्योधयितुं जयचन्द्रापतिं युतौ ॥१०९॥ विद्याधरपरीवारो दुर्वारभुजविक्रमः । नगरान्निरगात् पद्मोऽप्यच्छद्मरणकौतुकी॥११०॥ स कांश्चित्रासयन् कांश्चिन्निघ्नन् कांश्चिच्च मारयन् । लीलयाऽयोधयद् वैरिसैन्यान् हरिरिव द्विपान् ॥१११।। विद्याधरपती तौ च गङ्गाधर-महीधरौ । स्वसैन्यभङ्गमालोक्य जीवग्राहं प्रणेशतुः ॥११२।। पाततश्चोत्पन्नचक्रादिरत्न: पद्मोत्तरात्मजः । षट्खण्डभरतक्षेत्रविजयं विदधे बली ॥११३॥ स्त्रीरत्नेन विना तस्य चक्रिऋद्धिरपूर्यत । इन्दो: सितचतुर्दश्यां पूर्णतेव कलां विना ॥११४।। पूर्वदृष्टां स्मरंस्तां च स्त्रीरत्नं मदनावलीम् । तदाश्रमपदं पद्मः क्रीडयैव ययौ पुनः॥११५॥ आतिथ्यं तापसाश्चक्रुस्तस्मै तत्र भ्रमन् गतः । जनमेजयराजस्तु ददौ तां मदनावलीम् ॥११६।। पूर्णचक्रधरर्द्धि: स प्रययौ हस्तिनापुरम् । ननाम पितरौ प्राग्वन्मुदितौ मुदितोऽधिकम् ॥११७॥ स्वसूनोश्चरितं तच्चाऽऽकर्ण्य कर्णरसायनम् । सोच्छ्वासौ पितरौ तत्राऽभूतां सिक्ताविव द्रुमौ ॥११८।। पातदा च सुव्रतो नाम मुनिसुव्रतदीक्षितः । आचार्यो विहरंस्तत्र समेत्य समवासरत् ॥११९॥ तं गत्वा सपरीवारो राजा पद्मोत्तरोऽनमत् । तद्देशनां च शुश्राव भववैराग्यमातरम् ॥१२०॥ संस्थाप्य तनयं राज्ये दीक्षायै यावदेम्यहम् । स्वामिंस्तावदिह स्थेयमित्याचार्यं नृपोऽवदत् ।।१२।। न प्रमादो विधातव्य इत्युक्तः सूरिणा तु सः। तत्पादानभिवन्द्य स्वं प्राविशन्नगरं नृपः ॥१२२॥ आहूयाऽमात्य-सामन्तप्रभृती: प्रकृतीर्निजा: । सुतं विष्णुकुमारं चेत्यूचे पद्मोत्तरो नृपः ।।१२३।। दुःखाब्धिरेष संसारस्तपोषाय च देहिनः । प्रवृत्ती रोगितस्येवाऽपथ्येच्छा रोगवृद्धये ।।१२४।। भवे मे पतत: पुण्यैरिहाऽऽगात् सुव्रतः प्रभुः । उपकूपं गतस्येवाऽन्धस्य बाहुप्रदो नरः ॥१२५।। अद्य विष्णुकुमारस्तद्राज्ये संस्थाप्यतामयम् । व्रतं सुव्रतपादान्ते ग्रहीष्यामि ध्रुवं त्वहम् ।।१२६॥ १.०किञ्चिद् रुरुचे परम् खंता. ॥ २. अत्यन्तम् ।। ३. तव खंता. पाता. ॥४. तां च विश्वासयितुमब्रुवम् हे., मब्रवम् मु.॥५. सुस्था हे. पाता. ॥ ६. मन:पीडां अल्पां कुरु ॥७. आभियोगिकदेवविमानतुल्येनाऽनल्पेन वेगेन ।। ८. सूर्यवत् ।। ९. सैनिकान् ॥१०. जीवं गृहीत्वा ॥११. हृष्टः, पद्मविशेषणम् ।। १२. एमि-आगच्छामि ।। १३. दुःखपोषणाय ।। १४. कूपसमीपम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org