________________
अष्टमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । जातानुरागां तां ज्ञात्वा जनन्येवमवोचत । पुत्रि! मा चापलं कार्षी मित्तिकवच: स्मर ॥६॥ त्वं हि नैमित्तिकेनैवमाख्याताऽसि भविष्यसि । प्रधानपत्नी षट्खण्डभरतक्षेत्रशासितुः ॥६२।। पुरुषे यत्र तत्राऽपि माऽनुरागं तत: कृथाः । संयता तिष्ठ समये चक्री त्वां परिणेष्यति ॥६३॥ तद्विप्लवभयात् पद्ममूचे कुलपतिस्ततः । यत्राऽचालीस्तत्र वत्स! गच्छ स्वस्त्यस्तु तेऽनघ! ॥६४॥
श्रुत्वा दध्यौ कुमारोऽपि युगपद् द्वौ न चक्रिणौ । चक्री भाव्यहमेवेह तन्ममैव हि पत्न्यसौ ॥६५॥ निश्चित्यैवं महापद्मो निर्गतस्तापसाश्रमात् । पर्यटन्नासदत् सिन्धुसदनं नाम पत्तनम् ॥६६॥ तदा च बहिरुद्याने पौरनार्यो मधत्सवे। चिक्रीडर्विविधं तत्र स्थिता: कन्दर्पशासने ॥६७।। तत्केलितुमुलं श्रुत्वा महासेनमहीपतेः । स्तम्भमुन्मूलयामास कदलीकाण्डवत् करी॥६८॥ निपात्याऽऽरोहको सद्यः शय्यासंसक्तरेणुवत् । अङ्गे वायोरपि स्पर्शासह उत्तब्धरोमकः ॥६९।। प्रतिकारैः प्रतिकाराक्षमैर्मुक्तोऽतिदूरतः । ता: पौरनारीर्निकषा झगित्येव स आययौ ॥७०॥युग्मम्।। पलायितुं न शेकुस्तास्तस्थुस्तत्रैव साध्वसात् । नक्राक्रान्तमरालीवत् तारतारं च चुक्रुशुः ॥७१॥ क्रोशन्ती: प्रेक्ष्य ता: सानुक्रोशं पद्मोऽभिधाव्य तम् । इत्थं ततर्ज रे व्याल! पश्याऽर्वाग् मददुर्मद! ।।७२।। कुमाराभिमुखं रोषाद् ववले व्यालकुञ्जरः । कम्पयन् काश्यपी पादन्यासैः शुषिरिणीमिव ॥७३॥ अस्मद्रक्षाकृते कोऽपि महात्माऽऽत्मानमक्षिपत् । यमास्यस्येव करिण: पुर इत्यवदन् स्त्रियः ॥७४।।। क्षणेनाऽभ्येयुषोऽभ्यर्णं तस्य व्यालस्य सन्मुखम् । ऊर्ध्वं वासोऽक्षिपत् पद्मश्छद्माऽपि क्वाऽपि शोभते ॥७५॥ कुमारबुद्ध्या तद्वासो मुहुर्विव्याध सिन्धुरः। आन्ध्याय क्रोध एकोऽपि कि पुनर्मदमूर्च्छित: ? ॥७६॥ तदा च तुमुलेनोच्चैरमिलन्नागरो जनः । समं सामन्तसेनेशैर्महासेनश्च भूपतिः ॥७७।। महासेनोऽवदत् पद्मं दोष्मन्नपसर द्रुतम् । अकालमृत्युनाऽनेन करिणा रोषितेन किम् ? ॥७८।। पद्मोऽपि निजगादैवं युक्तमुक्तं त्वया नृप! । परं न मे युक्तमिदं यदारब्धस्य मोक्षणम् ।।७९।। वशीकृतमिमं व्यालमव्यालमिव जन्मतः । वाह्यमानं मया पश्य मा भूः सौजन्यकातरः ।।८०॥ एवमुक्त्वा कुमारेण मुष्टिवज्रेण ताडित: । प्रच्छादनपटीवेधन्यग्मुख: स महाकरी ॥८१॥ ग्रहणाय कुमारस्योत्तस्थौ यावदिभः स तु । स तावद् विधुदुत्क्षिप्तकरणेनाऽऽरुरोह तम् ।।८२॥ आसनैश्च नवनवैः स मण्डूकासनादिभिः । अग्रत: पार्श्वतश्चाऽपि विचरंस्तमखेदयत् ।।८३।। कुम्भदेशे चपेटाभिः कण्ठे चाऽङ्गुष्ठपीडनैः । पादन्यासेन पृष्ठे च स पञनाऽऽकुलीकृतः ॥८४॥ सविस्मयैर्वीक्ष्यमाण: पौरैः साध्वितिवादिभिः । नृपेण बन्धुबुद्ध्या च वर्ण्यमानपराक्रमः ॥८५।। भ्रमयामास तं नागमारोहकपुरन्दरः । कुमार: कारयन् क्रीडां स्वैरं कलभलीलया ॥८६॥[युग्मम्] आरोहकायाऽपरस्मै तं समर्प्य च सिन्धुरम् । कक्षां गृहीत्वाऽवारोहदंपरायां पदं ददत् ॥८७।। तं च विक्रम-रूपाभ्यां प्रधानकुलभूरिति । राजा वितर्कयामास निन्ये च निजवेश्मनि ॥८८॥ निजं कन्याशतं तेन भूपति:पर्यणाययत् । गृहागतो वरस्तादृक् पुण्यैरेव ह्यवाप्यते ॥८९।। ताभिर्भोगान् कुमारस्य भुञ्जानस्याऽप्यहर्निशम् । स्मरणं मदनावल्या नित्यशल्यमिवाऽभवत् ॥१०॥ पसोऽन्यदा निशि पर्यङ्के सुप्तो हंस इवाऽम्बुजे । विद्याधर्या वेगवत्याऽपजहे वायुवेगया ॥९१।। निद्राच्छेदे च किं क्षुद्रे! हरसे मामिति ब्रुवन् । मुष्टिमुत्पाटयामास कुमारो वज्रगोलवत् ।।१२।। साऽप्यूचे मा कुप: स्थामशालिन्नवहितः शृणु। अस्ति सूरोदयं नाम पुरं वैताढ्यपर्वते ।।९३॥ १. वसन्तोत्सवे ॥२. हस्तिपकौ ॥ ३. प्रती० मु. ॥ ४.०र्मुक्तो विदूरत: मु.॥५. भयात् ।। ६. सदयं यथा स्यात् तथा ॥ ७. हे दुष्टगज! ।। ८. पृथ्वीम् ।। ९. छिद्रसहितामिव ।। १०. यममुखस्य ॥ ११. आगच्छतः ।। १२. अन्धत्वाय; आध्याय: मु. ॥ १३. परं व्रीडाकरं तन्मे मु.॥ १४. मत्तमिमं गजं जन्मत: शान्तमिव ॥१५. बाध्यमानं मु.॥१६. सौजन्येन कातर:-'कायर' भीरुः ॥ १७. आच्छादनवस्त्रस्य वेधे अधोमुखः ॥ १८. विद्युद्वदुत्प्लुतगत्या ॥१९. आरोहकेषु हस्तिपकेषु पुरन्दर:-इन्द्रः श्रेष्ठ इति यावत् ॥ २०.कारयामास तम् ला. पा. छा. ॥ २१. हस्तिबन्धनरज्जुम् ।। २२. अवातरत् ।। २३. पृथिव्याम् ॥ २४. दधत् मु. ।। २५. स्थाम्ना तेजसा शोभमान! ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org