________________
११४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
सद्य:
ऊचे नमुचिभट्टोऽपि क्रोधकर्कशवागिति । अशौचाः पाखण्डिनश्च 'त्रयीबाह्याश्च सर्वथा ॥ २८ ॥ तत् संवासयितुं यूयं न युक्ता निजमण्डले । इत्येष खलु मे पक्षो युष्मास्वन्यत् किमुच्यते ? ॥२९॥ प्रत्यूचे क्षुल्लकोऽप्येवमशौचं सुरतं खलु । तत्सेवकश्च पाखण्डी त्रयीबाह्यः स एव हि ॥ ३० ॥ त्रय्यामर्थोऽयमप्कुम्भः कण्डनी पेषणी तथा । चुल्ली प्रमार्जनी पञ्च सूनाः पापाय गेहिनाम् ॥३१॥ सेवन्ते य इमाः सूनास्त्रयीबाह्या हि ते खलु । सूनापञ्चकहीनास्तु त्रयीबाह्याः कथं वयम् ? ||३२|| अस्माकमपदोषाणां दोषवत्सु जनेषु भोः ! । म्लेच्छेषूत्तमजातीनामिव वासश्च नोचितः ॥ ३३॥ इत्थङ्कारं क्षुल्लकेन सुयुक्तिभिरंपोदितः । स्वस्थानं सोऽगमन् मन्त्री राजा राजजनोऽपि च ॥३४॥ स मन्त्री निशि चोत्थाय निशाचर इवोत्कटः । ज्वलन्निवाऽतिक्रोधेन तद्वधाय समाययौ ॥ ३५॥ शासनदेव्या च वार्तिकेनेव पन्नगः । स स्तम्भितः प्रभाते च ददृशे विस्मितैर्जनैः ॥ ३६ ॥ आश्चर्यं प्रेक्ष्य तद् राजा लोकाश्च बहवस्तदा । श्रुत्वा धर्ममुपाशाम्यन् विमदा इव दन्तिनः ||३७|| तथाऽपमानान्नमुचिर्नगरं हस्तिनापुरम् । ययौ स्थानं विदेशो हि मानिनामपमानिनाम् ||३८|| युवराजो महापद्मः स्वसाचिव्ये चकार तम् । अभ्यागतेऽन्यनृपतिप्रधाने ह्यर्थिनो नृपाः ॥ ३९ ॥ 1 इतश्च प्रान्तवास्तव्यो नाम्ना सिंहबलो नृपः । दुर्गस्थ इत्यतिबली नभःस्थ इव राक्षसः ॥ ४० ॥ अवस्कन्दमवस्कन्दं महापद्यस्य मैण्डलम् । प्राविशत् स्वं पुनर्दुर्गं न धर्तुं कोऽपि तं क्षमः ॥४१॥ रुषितोऽथ महापद्मोऽवोचन्नमुचिमन्त्रिणम् । क्वचित् किञ्चिदिहोपायं वेत्सि सिंहबलग्रहे ? ॥४२॥ सोऽप्यूचे देव! वेद्मीति वचो वच्मि कथं ह्यहम् ? । गेहेर्नैर्दीत्यपवाद: सुलभः गर्जतां गृहे ॥४३॥ कृत्वोपायं फलेनैव स्वामिनो दर्शयाम्यहम् । उपायं वचसा वक्तुं कातरा अपि पण्डिताः ॥४४॥ इत्युक्त्वा हृष्टचित्तेन महापद्येन तत्क्षणम् । स आदिष्टो ययौ तस्य दुर्गं वायुरिवाऽस्खलन् ॥४५॥ तीक्ष्णोपायः स तद्दुर्गं भङ्क्त्वा सिंहबलं च तम् । मृगं सिंह इवाऽऽदाय महापद्ममुपाययौ ॥४६॥ वरं वृणीष्वेति महापद्येनाऽभिहितो मुदा । ऊचे नमुचिमन्त्र्येवमादास्ये समये वरम् ॥४७॥ एवं च प्रतिपन्नार्थो यौवराज्यमपालयत् । महापद्मो नमुचिना कृतसाचिव्यमुच्चकैः ॥४८॥ "ज्वालयाऽथ महापद्ममात्राऽर्हत्प्रतिमारथः । कैर्णीरथ इवाऽऽकारि भवसागरतारणे ॥४९॥ मिथ्यादृष्ट्या च सपत्नीमात्रा लक्ष्म्यभिधानया । अकार्यत ब्रह्मरथस्तर्प्रतीपविधित्सया ॥५०॥ अयं ब्रह्मरथः पूर्वं परिभ्रमतु पत्तने । पश्चादर्हद्रथ इति लक्ष्म्याऽयाच्यत भूपतिः ॥ ५१ ॥ ऊचे ज्वालाऽपि राजानं न प्राग् जैनरथो यदि । यात्रां करिष्यति पुरे तदा ह्यनशनं मम ॥ ५२ ॥ ततश्च संशथापन्नो रथयोरुभयोरपि । यात्रां राजाऽरुणत् का हि मध्यस्थस्याऽपरा गतिः ? ॥ ५३ ॥ ततश्च मातृदुःखेन महापद्मोऽतिपीडितः । निशि सुप्तेषु लोकेषु निर्ययौ हस्तिनापुरात् ॥५४॥ स गच्छन्नुन्मुखः स्वैरं प्रापदेकां महाटवीम् । तत्राऽपि पर्यटन्नेकमपश्यत् तापसाश्रमम् ॥ ५५ ॥ तापसैः कृतसत्कारः प्रियौतिथिसमागमैः । प्रावर्त्तत महापद्मस्तत्र स्थातुं स्ववेश्मवत् ॥५६॥
T
इतश्च पुर्यां चम्पायां नृपतिर्जनमेजयः । रुद्धः कालनरेन्द्रेण युयुधे च ननाश च ॥५७॥ भज्यमाने पुरे तत्र नेशुरन्तःपुरस्त्रियः । कुरङ्ग्य इव दिङ्मूढा दीप्यमाने दवानले ॥ ५८।। चम्पेस्य नागवती प्रिया स्वसुतया सह । प्रणष्टा मदनावल्या तत्राऽगात् तापसाश्रमे ॥५९॥ पद्मस्य मदनावल्याश्चाऽन्योऽन्यमदनास्त्रयोः । जज्ञे दर्शनमन्योऽन्यमनुरागश्च तत्क्षणम् ॥६०॥
१. ऋग्वेदादिवेदत्रयीबाह्याः ॥ २. अस्मद्देशे निवासयितुं यूयं न युक्ताः ॥। ३. जलस्थानम् ॥ ४. जीवानां वधस्थानं सूनोच्यते, 'सूना स्थानं वधस्य यत् ' (अभि. चिन्ता श्लो. १३) ॥ ५. सयुक्ति० खंता पाता । ६. निरस्त: ।। ७. गारुडिकेन । ८. तिरस्कृतानाम् ; मानिनामपमानतः पाता. ॥ ९. उपद्रुत्योपद्रुत्य ॥ १०. देशम् ।। ११. गेहेशूरः ।। १२. वायुरिवाऽस्खलत् मु. ॥ १३. प्रवहणम् ॥ १४. प्रतीपं प्रतिकूलम् ॥ १५. प्रियोऽतिथिसमागमो येषां ते ।। १६. हरिण्यः ॥ १७. अन्योऽन्यं प्रति मदमात्रतुल्ययोः ॥
Jain Education International
(षष्ठं पर्व
For Private Personal Use Only
www.jainelibrary.org