________________
॥अष्टमः सर्गः॥ ॥श्रीमहापद्मचक्रवर्तिचरितम्।।
इतश्च विहरत्येव जिनेन्द्रे मुनिसुव्रते । जज्ञे चक्री महापद्मश्चरितं तस्य कीर्त्यते ॥१॥ जम्बूद्वीपस्याऽस्य पूर्वविदेहावनिभूषणे। सुकच्छविजये ख्यातमस्ति श्रीनगरं पुरम् ॥२॥ तत्र राजा प्रजापाल: प्रजापालनतत्परः । परराजयशोहंसनाशनाम्बुधरोऽभवत् ॥३॥ सोऽन्यदाऽऽकस्मिकं विद्युत्पातं दृष्ट्वा विरक्तधी: । समाधिगुप्तस्य मुने: समीपे व्रतमाददे ॥४॥ स चिरं पालयामास खड्गधारोपमं व्रतम् । विपद्य चाऽच्युतेन्द्रोऽभूत् तपोलेशोऽपि नाऽफल: ।।५।। पाईतश्च जम्बूद्वीपस्य क्षेत्रे भरतनामनि । समस्ति हास्तिनपुरं पुरं सुरपुरोपमम् ॥६॥ इक्ष्वाकुवंश्यस्तत्राऽभून्नाम्ना पद्मोत्तरो नृपः । पद्यानिकेतनं पद्ममिव पद्ममहाहदे ॥७॥ तस्योज्ज्वलगुणा ज्वाला नामाऽन्तःपुरभूषणम् । बभूव महिषी रूपेणाऽभिभूतामराङ्गना ॥८॥ तस्यां च केसरिस्वप्नसूचित: प्रथमः सुतः । जज्ञे विष्णुकुमाराख्य: श्रिया सुरकुमारवत् ॥९॥ स प्रजापालजीवोऽपि पूरयित्वाऽऽयुरच्युतात् । च्युत्वा ज्वालामहादेव्या उदरे समवातरत् ॥१०॥ चतुर्दशमहास्वप्नसूचितोऽथ सुतोऽभवत् । ज्वालादेव्या महापद्यो नाम धामाऽखिलश्रियाम् ॥११॥ क्रमेण ववृधाते तावुभावपि सहोदरौ। निमित्तीकृत्य चाऽऽचार्यं सर्वा जगृहतु: कलाः ॥१२॥ स जिगीषुरिति ज्ञात्वा पद्मोत्तरमहीभुजा । यौवराज्ये महापद्मकुमारो निदधे सुधीः ॥१३॥ पाइतश्चोजयिनीपुर्यां श्रीवर्मा नाम भूपतिः । बभूव तदमात्यस्तु नमुचिर्नाम विश्रुतः ॥१४॥ विहरन्नन्यदा तस्यां नगर्यां समवासरत् । आचार्य: सुव्रतो नाम मुनिसुव्रतदीक्षितः ॥१५॥ तद्वन्दनाय सर्वा गच्छतो नगराज्जनान् । प्रासादशिखरारूढोऽपश्यच्छ्रीवर्मभूपतिः ॥१६॥ अमी अकालयात्रायां सर्वा कुत्र नागराः । गच्छन्तीति स पप्रच्छ स्वच्छधीनमुचिं नपः॥१७॥ सोऽप्याख्यद् बहिरुद्याने श्रमणा: केचिदागताः । तद्वन्दनाय तद्भक्त्या एते गच्छन्ति सत्वराः॥१८॥ यामो वयमपीत्युक्ते राज्ञा नमुचिरब्रवीत् । यदि वो धर्मशुश्रूषा धर्मं वक्ष्येऽहमेव तत॥१९॥ तत्राऽवश्यं गमिष्यामीत्युक्ते भूयोऽपि भूभुजा । मन्त्र्यूचे स्वामिना तर्हि स्थेयं मध्यस्थवृत्तिना॥२०॥ सर्वान्निरुत्तरीकृत्य वादे जेष्यामि तानहम् । पाखण्डिनां हि पाण्डित्यं प्राकृतेष्वेव जृम्भते ॥२१॥ इत्युक्ते नृपतिर्मन्त्री राजलोकोऽखिलोऽपि च । प्रययुः सुव्रताचार्यसन्निधौ विविधाशयाः ॥२२॥ पप्रच्छुस्तत्र ते धर्मं मुनिभ्य: स्वैरवादिनः । मौनेन मुनयोऽप्यस्थुस्तेषामुच्चावचोक्तिभिः ॥२३॥ पततश्च नमुचिः क्रुद्धो निन्दन् शासनमार्हतम् । सूरिं प्रति जगादेवं किमहो वेत्ति गौरयम् ? ॥२४॥ इत्यूचुः सुव्रताचार्या अनार्यमपि मन्त्रिणम् । जिह्वा कण्डूयते ते चेत् किमपि ब्रूमहे तदा ।।२५।। अथैकः सुव्रताचार्यपादान् क्षुल्लोऽभ्यधादिदम् । स्वयं वो युज्यते वक्तुं न विद्वेन्मानिनाऽमुना ।।२६।। अमुं वादे विजेष्येऽहं सभ्यीभूयैव पश्यथ। भेट्टो वदत्वसौ पक्षं दूषयामि यथाऽद्य तम् ॥२७॥ १. शत्रुभूतराजानां यश एव हंसस्तस्य नाशने मेघसमानः, मेघागमे हि हंसा: सरोवराणि विहाय पलायन्ते इति स्थितिः॥२. अमुष्य हे. ।। ३. जम्बूद्वीपेऽस्मिन् ला. सं. ॥ ४. पुरन्दरपुरोपमम् ला. ॥ ५. स्थानम् ॥ ६. जेतुमिच्छु: जयनशील इति यावत् ॥ ७. इतश्चोज्जयनी० खंता. पाता. ।। ८. पामरजनेषुसाधारणजनेषु ॥९.उच्चनीचवचनैः ॥१०.वेत्सि गौरवम् मु.; अयं गौः-वृषभः किं वेत्ति ? ॥११. लघुसाधुः ॥१२. आत्मानं विद्वांसं मन्यते इति विद्वन्मानी तेन ।।१३. भद्रो पाता. ॥१४. यथातथम् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org