________________
(षष्ठं पर्व
११२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पदेशनां पारयित्वा तु भुवनोपचिकी: प्रभुः। विहरन् समवासार्षीदन्यदा हस्तिनापुरे ॥२२१॥ तस्मिंश्च नगरे नाम्ना जितशत्रुरभून्नृपः। श्रेष्ठी वणिक्सहस्रेश: कार्तिकः श्रावकोऽपि च॥२२२॥ तस्मिन् कषायवसन: पुरे भागवतव्रतः। मासं मासं चोपवासी पोरै शमपूज्यत॥२२३।। पारणे पारणे पौरैः सोऽतिभक्त्या न्यमन्त्र्यत। न सम्यक्त्वैकवसुना श्रेष्ठिना कार्तिकेन तु॥२२४॥ भूतवच्छ्रेष्ठिनस्तस्य छिद्रान्वेषणतत्परः। सोऽन्यदा पारणे राज्ञा न्यमन्त्रि जितशत्रुणा॥२२५।। स परिव्राजकोऽप्यूचे यदि मे परिवेषणम् । करोति कार्तिको राजन्! भुञ्जे तव गृहे तदा ॥२२६।। आमेत्युक्त्वा नरेन्द्रोऽपि गत्वा तद्वेश्म कार्तिकम्। ययाचे भगवतोऽस्य परिवेष्यं त्वयाऽनघ! ॥२२७।। स्वामिन्न युज्यतेऽस्माकमिदं पाखण्डधारिषु। तवाऽऽज्ञया कार्यमेतदपीति प्रत्यपादिसः॥२२८।। पुराऽपि चेत् प्राव्रजिष्यं नाऽकरिष्यमिदं तदा। एवं विचिन्तयन् खेदाच्छ्रेष्ठी राजकुलं ययौ ॥२२९॥ परिवेषयतस्तस्य परिव्राट् कार्तिकस्य सः। निकारं दर्शयामास तर्जनीदशनैर्मुहुः॥२३०॥ परिवेष्याऽनिच्छयाऽपि श्रेष्ठी निर्वेदभावितः । समं वणिक्सहस्रेण स्वाम्यन्ते प्राव्रजत् तदा ॥२३१॥ द्वादशाङ्गधरः कृत्वा द्वादशाब्दी परं व्रतम् । मृत्वासौधर्मकल्पेन्द्रः कार्तिक: समजायत॥२३२॥ परिव्राडपि मृत्वा स आभियोग्येन कर्मणा। तस्यैव वाहनमभूदैरावण इति द्विपः।।२३३॥ तंशक्रं प्रेक्ष्य सामर्षः स प्रारेभे पलायितुम् । प्रसह्य धृत्वा शक्रस्तमारुरोह प्रभुर्हि सः॥२३४॥ द्वे शीर्षेस चकाराऽथ द्विमूर्तिर्वासवोऽप्यभूत्। एवंस यावच्छीर्षोऽभूत् तावद्वान् वासवोऽपि हि॥२३५॥ भूय: पलायमान: स वज्रेणाऽऽहत्य वज्रिणा। प्रोग्जन्ममत्सरी मङ्क्ष व्यधीयत वशंवदः॥२३६।।
आकेवलाद्विहरत: सुव्रतस्वामिनोऽपि हि। एकादशमासन्यूनार्धाष्टमाब्दसहस्यगात्॥२३७।। प्रभोस्त्रिंशत्सहस्राणि श्रमणानां महात्मनाम्। सहस्राणि तु पञ्चाशदार्यिकाणां तपोजुषाम्॥२३८।। चतुर्दशपूर्वभृतां सहस्रार्धं महाधियाम्।अवधिज्ञानयुक्तानामष्टादश शतानि तु॥२३९॥ शतानि पञ्चदश तु मन:पर्ययशालिनाम्। केवलज्ञानयुक्तानामष्टादश शतानि तु॥२४०॥ जातवैक्रियलब्धीनां सहस्रद्वितयं पुनः । उत्पन्नवादलब्धीनां सहस्रं द्वेशते तथा॥२४१॥ श्रीवकाणांलक्षमेकं द्वासप्ततिसहस्यपि। श्राविकाणां त्रिलक्षी चसार्धा विहरतोऽभवत्॥२४२।। निर्वाणकाले सम्मेतं ययौ श्रीमुनिसुव्रतः। समं मुनिसहस्रेणाऽनशनं प्रत्यपादिच॥२४३।। मासस्याऽन्ते ज्येष्ठकृष्णनवम्यां श्रवणे च भे। समं तैर्मुनिभिः स्वामी ययौ पदमनश्वरम् ॥२४४॥ सार्धा: सप्ताब्दसहस्रा: कौमार-व्रतयो: पृथक् । राज्ये पञ्चदश त्रिंशदित्यायुः सुव्रतप्रभोः॥२४५।। श्रीमल्लिस्वामिनिर्वाणान्मुनिसुव्रतनिर्वृति: । चतुःपञ्चाशति समालक्षेष्वतिगतेष्वभूत्॥२४६॥
मुनिसुव्रतस्य मुनिभिः सहैव तैः पदमव्ययं गतवत: सुरेश्वराः। समुपेत्य मोक्षमहिमानमुच्चकैर्विधिवव्यधु: सविबुधा: ससंभ्रमा:॥२४७।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीमुनिसुव्रतस्वामि
चरितवर्णनो नाम सप्तमः सर्गः।।
१. जगदुपकारं कर्तुमिच्छुः ।। २. सहस्रवणिजां स्वामी ॥३. हि पाता.॥४. सम्यक्त्वमेवैकं वसु धनं यस्य स तेन ॥५. अङ्गीचकार ॥६. तिरस्कारः॥७. तर्जनीदर्शनै० मु.; तर्जन्या दन्तैश्च इत्यर्थः ।।८. परिवेष्याऽपमानेन सदा निर्वेदभावित: पाता.॥९. विहृत्य स्वामिना सार्धं पालयित्वा चिरंव्रतम् हे. || १०. तावन्ति सन्ति अस्येति तावद्वान् ॥११.प्राग्जन्मद्वेषी॥१२. साधूनां सङ्ख्या ३०सहस्रमिता ॥१३. साध्वीनां सङ्ख्या ५०सहस्रमिता॥१४. चतुर्दशपूर्विणां सङ्ख्या ५००मिता॥१५. अवधिज्ञानिनां सङ्ख्या १८००मिता॥१६. मन:पर्ययज्ञानिनां सङ्ख्या १५००मिता ।।१७. केवलज्ञानिनां सङ्ख्या १८००मिता॥१८. वैक्रियलब्धीनां सङ्ख्या २सहस्रमिता॥१९. वादलब्धीनां सङ्ख्या १२००मिता ।।२०. श्रावकाणां सङ्ख्या १लक्ष७२सहस्रमिता ।। २१. श्राविकाणां सङ्ख्या
३लक्ष५०सहस्रमिता ॥ २२. कौमारे ७५००वर्षाणि ॥२३. व्रते ७५००वर्षाणि ॥२४. राज्ये १५०००वर्षाणि,एवं ३०सह-स्राणि वर्षाणि जातानि ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org