________________
सप्तमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
T
" दीर्घदर्शी विशेषज्ञ: " " कृतज्ञो "लोकवल्लभः । " सलज्ज : "सदयः "सौम्यः " परोपकृतिकर्मठः ' ॥ १८८ ॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वैशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥ १८९॥ संसारेऽस्मिन् मनुष्येण चैतन्यफलमिच्छुना । सेव्यः श्रावकधर्मोऽपि यतिधर्माक्षमेण तु ॥ १९० ॥ श्रुत्वाऽमुं देशनां भर्तुर्बहवः प्राव्रजन् जनाः । श्रावक्यभूवन्नेके च न मोघा देशनाऽर्हताम् ॥१९१॥ इन्द्रादयो गणधराः स्वामिनोऽष्टादशाऽभवन् । देशनाविरते नाथे चकारेन्द्रोऽपि देशनाम् ॥ १९२॥ देशनाविरते तत्राऽप्यभिवन्द्य जिनेश्वरम् । स्वं स्वं स्थानं ययुः सर्वे वज्रभृत्-सुव्रतादयः ॥१९३॥ ॥ तत्तीर्थजन्मा वरुणो यक्षस्त्र्यक्षश्चतुर्मुखः । श्वेतो जटी वृषरथश्चतुर्भिर्दक्षिणैर्भुजैः॥१९४॥ मातुलिङ्ग-गदा-बाण-शक्तिभृद्भिस्तथाऽपरैः । नकुलाक्ष-धनुः- पर्शुधारिभिः परिशोभितः॥१९५॥ तथोत्पन्ना नरदत्ता गौरी भद्रासनस्थिता । भान्ती दक्षिणबाहुभ्यां वरदेनाऽक्षसूत्रिणा ॥१९६॥ समातुलिङ्ग-शूलाभ्यां वामदोर्भ्यां च शोभिता । सुव्रतस्वामिनोऽभूतामुभे शासनदेवते॥१९७॥ ¶ताभ्यामधिष्ठिताभ्यर्णः पृथिवीं विहरन् विभुः । अन्यदा समवासार्षीद् भृगुकच्छे महापुरे ॥। १९८ ।। तत्र राजा जितशत्रुर्जात्यमारुह्य वाजिनम् । प्रभुं वन्दितुमभ्यागादथ शुश्राव देशनाम् ॥१९९॥ रोमाञ्चिताङ्गो निःस्पन्द उत्कर्ण: स्वामिदेशनाम् । अश्रौषीत् तुरगः सोऽपि जितशत्रुमहीपतेः ॥ २०० ॥ पप्रच्छ समये चैवं गणभृत् परमेश्वरम् । स्वामिन्! प्रपेदे समवसरणे धर्ममत्र कः ? ॥ २०९॥ स्वाम्यप्यूचे धर्ममत्र न कोऽपि प्रत्यपद्यत । जितशत्रुनरेन्द्रस्य विनैकं जात्यवाजिनम् ॥ २०२ ॥ सविस्मयो जितशत्रुरप्यपृच्छज्जगद्गुरुम् । कोऽयमश्वो विश्वनाथ ! यो धर्मं प्रत्यपद्यत ? ॥२०३॥ "आचख्यौ भगवानेवं पद्मिनीषण्डपत्तने । पुराऽऽसीच्छ्रावैकः श्रेष्ठी जिनधर्मोऽभिधानतः ॥ २०४॥ मित्रं सागरदत्तोऽस्य समस्तनगराग्रणीः । भद्रकत्वात् समं तेन ययौ चैत्येषु सोऽन्वहम् ॥ २०५ ॥ साधुभ्यः सोऽन्यदाऽश्रौषीद् योऽर्हद्विम्बानि कारयेत् । संसारमथनं सोऽन्यभवे धर्ममवाप्नुयात् ॥ २०६॥ श्रुत्वा सागरदत्तस्तत् सौवर्णं बिम्बमार्हतम् । कारयित्वा महाऋद्ध्या साधुभिः प्रत्यतिष्ठपत्॥२०७॥ | नगरस्य बहिस्तस्य तेनाऽऽसीत् कारितं पुरा। शिवायतनमुत्तुङ्गं सोऽगात् तत्रोत्तरायणे ॥२०८॥ तत्र प्राक्सञ्चितस्त्यानसर्पिस्कु(ष्कु)म्भा: शिवार्चकैः । क्रैष्टुमारेभिरे सर्पिः कवलाय कृतत्वरैः ॥ २०९॥ अधस्तेषां घटानां च पिण्डीभूयोपदेहिकाः । लग्ना बभूवुर्भूयस्यो निपेतुस्ताश्च वर्त्मनि ॥२१०॥ सञ्चरद्भिः पूजकैश्च चूर्यमाणाः समीक्ष्य ताः । सागरः कृपया वस्त्रेणाऽपनेतुं प्रचक्रमे ॥ २११॥ किं श्वेतं भिक्षुभिररे! शिक्षितोऽसीति जल्पता । ततस्ता: पूजकेनैकेनांऽह्रिघातेन चूर्णिताः ॥ २१२ ॥ श्रेष्ठी सागरदत्तोऽपि विलक्षीभूय तत्क्षणम् । तदा तदाचार्यमुखं तच्छिक्षार्थमुदैक्षत ॥ २१३॥ उपेक्षमाणे तत्पापं तस्मिन्नपि हि सागरः । एवं विचिन्तयामास धिगहो ! निर्घृणा अमी ॥ २९४ ॥ गुरुबुद्ध्या कथममी पूज्यन्ते दारुणाशयाः । आत्मानं यजमानं च दुर्गतौ पातयन्ति ये ? ॥ २१५ ॥ विचिन्त्येत्यर्पुरोधाच्च कृत्वा तैत्कर्म सागरः । अनासादितसम्यक्त्वो दान- शीलस्वभावतः ॥ २१६ ॥ महारम्भार्जितधनत्राणनिष्ठो विपद्य सः । जात्यस्तवाऽश्वोऽयमभूत् तद्बोधायाऽहमागमम् ॥ २१७||[युग्मम् ] प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतः । धर्मोपदेशं नः श्रुत्वा सम्बुद्धोऽयं क्षणादपि ॥२१८॥
१११
एवं भगवताऽऽख्याते स्तूयमानो जनैर्मुहुः । स्वैरचारी कृतः सोऽश्वः क्षमयित्वा क्षमाभुजा ॥ २१९ ॥
ततः प्रभृति तल्लोके प्रख्यातमतिपावनम् । तीर्थमश्वावबोधाख्यं भृगुकच्छमभूत् पुरम् ॥ २२०॥
१. परोपकारे कुशलः ।। २. अन्तरङ्गारिषड्वर्ग:-काम-क्रोध-लोभ-मोह-मद-मत्सराः, तेषां परिहारे त्यागे परायणः तत्परः ।। ३. ०फलमिच्छता हे. पा.; खंता. पाता. विना ॥ ४. श्राद्धधर्मवन्तोऽभूवन् ॥ ५. निष्फला न भवति ॥ ६. ० वरुणयक्ष० मु. ॥७. त्रिनेत्रः ॥ ८. मातुलुङ्ग० खंता. पाता । ९. गौराङ्गी ॥ १०. प्रभुः मु. ॥ ११. निश्चलः ॥ १२.०च्छ्रावकश्रेष्ठी मु. ॥ १३. महऋद्ध्या ला. मु. ॥। १४. स्त्यानं शीनं घनीभूतमित्यर्थः ॥ १५. कष्टुं० खंता. पाता. ।। १६. सर्पिः कम्बलाय सर्वप्रतिषु ॥ १७. उपदेहिका 'उधई' इति लोके प्रसिद्धा ॥ १८. दूरीकर्तुम् ॥ १९. जैनसाधुभिः ॥ २०. निर्दयाः ॥ २१. आग्रहात् पूजकाचार्यस्येति शेषः ।। २२. पूजादिकं कार्यम् ॥ २३. महारम्भेण अर्जितस्य धनस्य त्राणे रक्षणे निष्ठा यस्य सः ॥
For Private Personal Use Only
Jain Education International
www.jainelibrary.org