________________
११०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व नि:सङ्गो निर्मम: सर्वान् सहमान: परीषहान्। ततो मासानेकादश छद्मस्थो व्यहरत् प्रभुः॥१५७।। विहरन्नाययौ नीलगुहोद्यानं पुनः प्रभुः । तस्थौ चचम्पकतरोरधस्तात् प्रतिमाधरः ॥१५८॥ फाल्गुनकृष्णद्वादश्यांश्रवणस्थे निशाकरे। घातिकर्मक्षयात् तत्रोत्पेदे केवलमीशितुः॥१५९॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः। चत्वारिंशेष्वासशतद्वयोच्चाशोकपादपम्॥१६०॥ तत्र प्रविश्य चैत्यद्रो: स्वामी कृत्वा प्रदक्षिणम्। “नमस्तीर्थाये"त्युक्त्वा प्राक्सिंहासन उपाविशत्॥१६१।। व्यन्तरास्तत्प्रतिच्छन्दानन्यदिक्ष्वपि चक्रिरे । तस्थिवांश्च यथास्थानं श्रीमान् सङ्घश्चतुर्विधः॥१६२।। स्वामिनं समवसतं तदा ज्ञात्वा च सव्रतः। एत्य नत्वा स्वामिपादाननुशक्रमपाविशत॥१६३॥ भूयोऽपिस्वामिनं नत्वा ललाटघटिताञ्जली। भक्तिगर्भी स्तुतिमिमां चक्राते शक्र-सुव्रतौ॥१६४॥ “त्वत्पाददर्शनस्यैव प्रभावोऽयं जगत्पते! । यत् त्वद्गुणान् वर्णयितुं मादृशोऽपि प्रगल्भते॥१६५।। देशनासमये पुण्यां तव गां परमेश्वर! । वन्दामहे श्रुतस्कन्धवत्सप्रसविनीमिह॥१६६।। त्वद्गुणग्रहणात् सद्यो भवन्ति गुणिनो जनाः। स्निग्धद्रव्यस्य योगाद्धि स्निग्धीभवति भाजनम्॥१६७॥ ये हि त्यक्तान्यकर्माण: शृण्वन्ति तव देशनाम् । त्यक्तप्राक्तनकर्माणस्ते भवन्ति क्षणादपि॥१६८॥ त्वन्नामरक्षामन्त्रेण संवर्मितमिदं जगत्। अंह:पिशाचैर्फवाऽत: परं देव! ग्रसिष्यते॥१६९॥ कस्याऽपिन भयं नाथ! त्वयि विश्वाभयप्रदे। स्वस्थानयायिनो मे तु त्वद्वियोगभवं भयम्॥१७०॥ अपिशाश्वतवैरान्धा बहिरङ्गान केवलम् । शाम्यन्ति तेऽन्तिके स्वामिन्नन्तरङ्गा अपि द्विषः॥१७१।। ऐहिकामुष्मिकाभीष्टदानकामगवी प्रभो! । त्वन्नामस्मृतिरेवाऽस्तु यत्र तत्र स्थितस्य में" ॥१७२।। शक्र-सुव्रतयोरेवं स्तुत्वा विरतयो: सतो:। स्वामी विश्वावबोधाय विदधेधर्मदेशनाम्॥१७३।। पा“क्षारोदादिव संसारादसारात् सारमुत्तमम् । उपाददीत सद्रत्नमिव धर्मं महामतिः॥१७४॥ संयमः संनतं शौचं ब्रह्माऽकिञ्चनेता तपः । क्षान्तिमर्दिवमृजुता 'मुक्तिश्च दशधा स तु॥१७५।। निरीहो निजदेहेऽपि स्वस्मिन्नपि हि निर्ममः । समाशयो नमस्कुर्वत्यपकुर्वति चाऽनिशम्॥१७६।। नितान्तमीश्वर: सोढुमुपसर्ग-परीषहान्। मैत्र्यादिभिर्भावनाभिनित्यंभावितमानसः॥१७७|| क्षमावान् विनयी दान्तः श्रद्धालुर्गुरुशासने। जात्यादिगुणसम्पन्नो यतिधर्माय कल्पते॥१७८॥[त्रिभिर्विशेषकम्] सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि गुंणास्त्रयः। शिक्षापदानि चत्वारि धर्मोऽयं गृहमेधिनाम्॥१७९।। न्यायसम्पन्नविभव: शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः॥१८०।। पापभीरु: प्रसिद्धं च देशाचारं समाचरन्। अवर्णवादी न क्वाऽपि राजादिषु विशेषतः॥१८१।। अनतिव्यक्तगुप्ते चस्थाने सुप्रातिवेश्मिके। अनेकनिर्गमद्वारविवर्जितनिकेतनः॥१८२॥ कृतसङ्ग: सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते॥१८३।। व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम्॥१८४॥ अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥१८५।। यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत्। सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च॥१८६।। अदेश-कालयोश्चर्यां त्यजन् जानन् बलाबलम्। वृत्तस्थ-ज्ञानवृद्धानां पूँजक: पोष्यपोषकः॥१८७|| १. इष्वास:-धनुः ।। २. वाणीम् ।। ३. श्रुतस्कन्ध एव वत्सस्तज्जनयित्रीम् ॥ ४. पापान्येव पिशाचास्तैः ।। ५. क्रोधादयोऽन्तरङ्गा: शत्रवः ।। ६. इहलोकपरलोकयोरिच्छितदाने कामधेनुसमाना॥७. समुद्रात्।। ८. गृह्णीयात् ।। ९. सत्यम्॥१०. मन:शुद्धिः-पवित्रता ॥११. ब्रह्मचर्यम् ।। १२. परिग्रहराहित्यम् ।। १३. क्षमा ।।१४. निर्लोभता ।। १५. इच्छारहितः ॥ १६. नमस्कारमपकारं च कुर्वाणे समचित्तः ; समाशयो जिनाधीशं नमस्कुर्वति चानिशम् पाता. ॥ १७. स्थूलप्राणातिपातविरमणं, स्थूलमृषावादविरमणं, स्थूलअदत्तादानविरमणं, स्वदारासन्तोषः,स्थूलपरिग्रहविरमणं ॥१८. दिक्परिमाणव्रतं,भोगोपभोगव्रतं, अनर्थदण्डव्रतं; एतानि गुणव्रतानि॥१९. सामायिकव्रतं, देशवकाशिकव्रतं, पोषधव्रतं, अतिथिसंविभागवतं; एतानि शिक्षाव्रतानि ॥२०. व्रतानि मुद्रिते टि.॥ २१. गृहस्थानाम् ।। २२. प्रातिवेश्मिक:-'पडोशी' इति भाषायाम्।।२३. उपद्रुतम् ॥ २४. अनन्यचित्तो भूत्वा ।।२५. धर्म-अर्थ-कामान् ।। २६. अनाग्रही।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org