________________
सप्तमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
च्युत्वा 'श्रावणराकायां श्रवणस्थे निशाकरे । 'पद्मावत्या महादेव्याः कुक्षाववततार सः ॥ १२५ ॥ चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे तदा देवी ददर्श सा ॥ १२६ ॥ ज्येष्ठस्य कृष्णाष्टम्यां भैश्रवणे कूर्मलाञ्छनम् । तमालश्यामलच्छायं समयेऽसूत सा सुतम् ॥१२७॥ विहिते दिक्कुमारीभिः सूतिकर्मणि भक्तितः । अर्हन् स विंशतितमो निन्ये मेरौ बिडौजसा ॥ १२८ ॥ शक्रोत्सङ्गे निषण्णस्य त्रिषष्ट्येन्द्रैर्जगद्गुरोः । जन्माभिषेको विदधे पावनैस्तीर्थवारिभिः ॥ १२९॥ ईशानाङ्कनिषण्णस्य शक्रोऽपि जगदीशितुः । स्नात्रपूजादिकं कृत्वा स्तोतुमित्युपचक्रमे ॥१३०॥ “अद्याऽवैसर्पिणीकालसरोवरसरोरुह! । दिष्ट्या प्राप्तोऽसि भगवन्नस्माभिर्भ्रमरैश्चिरात् ॥ १३१ ॥ अजायत तव स्तोत्रध्यानात् पूजादिकादपि । वाङ्-मनो-वपुषां श्रेयः फलमद्यैव देहि मे ॥ १३२ ॥ यथा यथा नाथ! भक्तिर्गुरूँभवति मे त्वयि । लघूभवन्ति कर्माणि प्राक्तनानि तथा तथा ॥१३३॥ स्वामिन्नविरतानां नः स्याज्जन्मैतन्निरर्थकम्। यदि त्वद्दर्शनं न स्यादिदं पुण्यनिबन्धनम्॥१३४॥ तवाङ्गस्पर्शन-स्तोत्र-निर्माल्याघ्राण- दर्शनैः । गुणगीताकर्णनैश्च कृतार्थानीन्द्रियाणि नः ॥ १३५ ॥ मेरुमौलिरयं भाति नीलरत्नत्विषा त्वया । प्रावृषेण्याम्बुदेनेव नयनानन्ददायिना ॥१३६॥ स्थितो भरतवर्षेऽपि सर्वगः प्रतिभासि नः । यत्र तत्र स्थितानां यद् भवस्यर्तिच्छिदे स्मृतः॥१३७॥ अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम । यथा प्राग्जन्मसंस्कारात् तदेव स्याद् भवान्तरे” ॥१३८॥ एवं "तें विंशमर्हन्तं स्तुत्वाऽदाय च वज्रभृत् । नीत्वा पद्मावतीदेवीपार्श्वेऽमुञ्चद् यथास्थिति ॥१३९॥ " चक्रे जन्मोत्सवं सूनोः सुमित्रोऽपि नृपः प्रगे । कारामोक्षैरर्थदानाद्यैश्च लोक॑म्पृणीभवन् ॥१४०॥ अस्मिन् गर्भस्थिते माता मुनिवत् सुव्रताऽभवत्। मुनिसुव्रत इत्याख्यां तेनाऽस्य विदधे पिता ॥१४९॥ अज्ञाननाटितं बाल्ये क्रीडया नाटयन् जने । ज्ञानत्रयपवित्रात्मा क्रमेण ववृधे प्रभुः ॥ १४२ ॥ सम्प्राप्तयौवन: स्वामी विंशधन्वसमुन्नतिः । प्रभावतीप्रभृतिका राजपुत्रीरुपायत ॥१४३॥ मुनिसुव्रतनाथस्य सुव्रतो नाम नन्दनः । जज्ञे प्रभावतीदेव्यां प्राच्यामिव निशाकरः ॥ १४४॥ अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ । पित्राऽध्यारोपितं राज्यभारं प्रभुरुपाददे ।। १४५।। क्ष्मां पालयन् पञ्चदशाब्दसहस्रीमलङ्घयत् । प्रक्षीणं भोगकर्मेति प्रभुर्ज्ञानाद् विवेद च ॥१४६॥ तीर्थं प्रवतर्य स्वामिन्निति लोकान्तिकामरैः । विज्ञप्तो वार्षिकं दानं ददौ च परमेश्वरः ॥ १४७॥ क्षत्रव्रतैकद्रविणं न्यायाम्भोजमधुव्रतम् । राज्ये न्यवेशयत् पुत्रं सुव्रतं मुनिसुव्रतः ॥ १४८ ॥ कृत निष्क्रमणो देवैः सुव्रतेन च भूभुजा । सहस्रवाह्यां शिबिकां सोऽध्यष्ठादपराजिताम् ॥ १४९ ॥ मौकन्दैर्नव्यमुकुलप्रोद्भेदाद्दन्तुरैरिव । उद्गच्छत्पल्लवतया जिह्वालैरिव शोभितम्॥१५०॥ इतस्ततो मरुत्कीर्णजीर्णपर्णतया मुहुः । मँर्मरैराह्वयदिवाऽऽगामिनीं मधुसम्पदम्॥१५१॥ दुर्वारां सिर्दुवाराणामीक्षितुं कुसुमश्रियम् । असहैरिव विर्मंदीभूय कुन्दैर्निषेवितम्॥१५२॥ उद्यद्दमनकामोदप्रमोदि शिर्शिरैर्द्धिकम् । ययौ नीलगुहां नामोद्यानं त्रिजगदीश्वरः ॥१५३॥ चतुर्भिः कलापकम्।। फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ १५४॥ द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपौकसि । अपारयत् पायसेन भगवान् मुनिसुव्रतः ॥ १५५॥ अमरैर्वसुधारादिपञ्चकं तत्र निर्ममे । रत्नपीठं स्वामिपादस्थाने ब्रह्मनृपेण तु ॥ १५६॥
१. श्रावणपूर्णिमायाम् ॥ २. पद्मावतीमहा० मु. ॥ ३. नक्षत्रे ॥। ४. तमाल इव श्यामला छाया कान्तिः यस्य सः ॥ ५. इन्द्रेण ॥ ६. अवसर्पिणीकाल एव सरोवर:, तस्मिन् सरोरुहः कमलसमान: ।। ७. ०गुरुर्भवति मु. ॥ ८. अस्माकम् ॥ ९. प्रावृषि वर्षाकाले भव प्रावृषेण्यः, स चाऽसौ मेघश्च तेन ॥। १०. सर्वत्र स्थितः; सर्वतः पाता. ।। ११.एवं च विंश० खंता ॥। १२. लोकं जगत् प्रीणाति प्रीणयतीति लोकम्पृणस्ततः च्चि: ॥ १३. अज्ञाननाटकम् ।। १४. ० बाल्यक्रीडया० मु.॥ १५. नवीनमुकुलोद्गमात् सदन्तैरिव माकन्दैराम्रवृक्षैः शोभितम् ॥ १६. उद्यन्नवपल्लवतया सजिह्वैरिव आम्रैः शोभितम् ।। १७. मर्मरध्वनिभिः (पर्णानाम् ) ।। १८. सिन्दुवारो लोके नगोड इति प्रसिद्धः वृक्षविशेषः ॥ १९. मदरहितैर्भूत्वा ॥ २०. उद्यद् - विकसद् दमनकपुष्पाणां आमोदेन - गन्धेन प्रमोदि -आनन्ददायि ॥ २१. शिशिरस्य समृद्धिर्यस्मिन् तत् ॥ २२. ०लीनगुहां० पाता. ॥
Jain Education International
For Private Personal Use Only
१०९
www.jainelibrary.org