________________
१०८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व सोऽथ देवो देवऋद्ध्या सर्वान् विस्मापयन् जनान्। तेज:पुञ्ज इवाऽऽकाशस्थित एवमवोचत॥१२॥ भोभोः! सचिव-सामन्तप्रमुखा! राजचिन्तका:! असूनुर्वो मृतो राजा यूयं राजेच्छवस्ततः॥९३।। युष्मत्पुण्यैरिवाऽद्यैव प्रेरितोऽहमिहाऽऽनयम्। हरिवर्षाद्धरिं नाम राज्याहँ युग्मरूपिणम् ॥१४॥ अस्येयं हरिणी नाम सहजा सहचारिणी। आहारार्थमनयोश्चाऽऽनीता: कल्पद्रुमा अमी॥९५॥ श्रीवत्स-मत्स्य-कलश-कुलिशाङ्कुशलाञ्छितः । तदयं वो भवत्वद्य राजा राजीवलोचनः॥९६।। केल्पद्रुमफलाविद्धं पिशितं पशु-पक्षिणाम्। मद्यं च देय आहारोऽनयोमिथुनरूपिणोः॥९७।। एवमस्त्विति ते प्रोच्य गीर्वाणं तं प्रणम्य च। मिथुनं रथमारोप्य तं निन्यू राजवेश्मनि ।।९८॥ ब्रह्म-मागध-गन्धर्वमङ्गलोद्गीतिपूर्वकम्। हरिं राज्येऽभिषिषिचुस्ते सामन्तादयस्तदा॥१९॥ सस्वशक्त्या तयोर्देवो ह्रस्वमायुः स्थितेर्व्यधात्। धनु:शतं च तुङ्गत्वे कृतार्थोऽथ तिरोदधे॥१००॥ शीतलस्वामिनस्तीर्थे हरी राजा बभूव सः । तत: प्रभृति तन्नाम्ना हरिवंशोऽभवद्भुवि॥१०१।।
असाधयद् हरी राजा वसुधामब्धिमेखलाम् । राज्ञां कन्या: श्रिय इवोपयेमेऽनेकशश्च सः॥१०२।। हरेहरिण्यामजनि गते काले कियत्यपि। पंथलोर:स्थल: पथ्वीपतिरित्याख्यया सतः ॥१०॥ हरि: समंहरिण्या च विपेदेऽर्जितपातकः । पृथ्वीपतिस्तयोऽसन: पृथ्वीपतिरथाऽभवत्॥१०४|| पालयित्वा चिरं राज्यं राज्ये सूनुं महागिरिम्। सोऽभिषिच्य तपस्तप्त्वा त्रिदिवं प्रत्यपद्यत॥१०५।। महागिरिनरेन्द्रोऽपि क्रमाद्धिमगिरि सुतम्। राज्ये न्यस्य तपस्तप्त्वा जगाम पदमव्ययम्॥१०६॥ ततो हिमगिरिज्येष्ठं सुतं वसुगिरिं निजे। राज्येऽभिषिच्य प्रावाजीदवाजीच्चाऽपुनर्भवम्॥१०७॥ सुतं गिरिं नाम वसुगिरिरप्यात्मन: पदे। निधायाऽऽत्तपरिव्रज्य: क्षीणकर्मा ययौ शिवम्॥१०८॥ सुतं मित्रगिरिराज्ये निधाय गिरिरप्यथ। परिव्रज्यामुपादत्त स्वर्गलोकं जगाम च॥१०९॥ एवं क्रमेणाऽसङ्ख्याता हरिवंशेऽभवन्नृपाः। तपसा केऽपि निर्वाणं ययुः स्वर्गं च केऽचन॥११०।। पाइतश्चाऽत्रैवभरतक्षेत्रे मगधमण्डनम्। नाम्ना पुरंराजगृहमस्ति स्वस्तिकवद्भुवः॥१११॥ तत्र यूनां रतभ्रष्टहारमुक्ताकणोत्करा: । वर्धनीभिरपोह्यन्ते प्रात: प्रतिनिकेतनम् ॥११२।। गृहे गृहे तत्र चाऽश्वा दया दानं गृहे गृहे। गृहे गृहे चित्रशाला रङ्गशाला गृहे गृहे॥११३।। मरालानामिव सर: पुष्पमाल्यमिवाऽलिनाम् । महामुनीनामपि तत्सेवनीयमभूत् तदा॥११४॥ बभूव हरिवंशस्य मुक्तामणिरिवाऽमलः । तत्रोग्रतेजसा मित्र: सुमित्रो नाम भूपतिः॥११५॥ विनेता दुर्विनीतानां परिणेता जयंश्रियाम् । उन्नेता निजवंशस्य स नेता सर्वभूभुजाम् ॥११६|| नवमो दिग्गज इव कुलाचल इवाऽष्टम: । द्वितीय इव शेषाहिर्महीभारं बभार सः॥११७॥
औदार्य-धैर्य-गाम्भीर्यादयो ये ये गुणा: किल। ते ते तस्मिन्नदृश्यन्त ज्ञेयानीव जिनागमे॥११८॥ पद्मावतीत्यभिधया पद्यादेवी हरेरिव। सधर्मचारिणी तस्याऽभवद् भूतलपावनी॥११९।। तयाऽशेषस्य जगतो नयनानन्दहेतुना। अलञ्चके नरेन्द्रश्री?रिवोडुपलेखया।।१२०।। गुणैः शीलादिभिस्तैस्तैः स्वकीयैः सा सुगन्धिभिः। राज्ञोऽध्यवासयच्चित्तं गन्धचूर्णैरिवांऽशुकम्॥१२१।। तस्या गुणगणं तारागणं दिव इवोच्चकैः। न सङ्ख्यातुमलम्भूष्णुरभूदपि पतिर्गिराम्॥१२२।। भोगांस्तया सहाऽभुङ्क्त सुमित्रः पृथिवीपतिः। पृथिव्येवाऽनुरागेण जैङ्गमीभावमाप्तया॥१२३।। पाइतश्च प्राणते कल्पे सुरश्रेष्ठसुरोऽपि सः । सुखसागरनिर्मग्नो निजमायुरपूरयत्॥१२४॥ १.०एतदवोचत पाता.॥२. सहोत्पन्ना ।। ३. पत्नी ॥ ४. कमललोचनः ।।५. कल्पद्रुमफलमिदं मांसम् ।। ६. देयमाहारे मु., देय आहारे० खंता. ॥ ७. स्वशक्त्या च मु.॥८. विशालवक्षःस्थल: ।। ९. मोक्षम् ।। १०. शिवम् ।। ११. आत्ता गृहीता परिव्रज्या येन सः ।। १२. रतेन सुरतेन भ्रष्टा: पतिता: हारस्य मुक्ताकणानां उत्करा निवहाः; रतभ्रष्टा हार० मु.॥१३. सम्मार्जनीभिः;वर्धिनी० मु.॥१४. दूरी क्रियन्ते॥१५. हंसानामिव ॥१६. भ्रमराणामिव ॥१७. सूर्यः ।। १८. दण्डकरः ॥१९. जयश्रियम् खंता. पाता. ॥ २०. ज्ञेयवस्तूनि, यथा सर्वे एव ज्ञेयभावाः जिनागमे प्रतिपादिता दृश्यन्ते तथा समग्रसद्गुणास्तस्मिन् अदृश्यन्त ।। २१. लक्ष्मीदेवी॥२२. विष्णोः ॥२३. चन्द्ररेखया॥२४. वस्त्रम् ॥ २५. बृहस्पतिः॥२६. जङ्गमत्वं प्राप्तया ॥
॥ १०. शिवम् ॥ १.१.१४. दूरक्रियन्ते ।। १५. सानासा दृश्यन्ते तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org