________________
सप्तमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
उत्तिष्ठ वत्से! गच्छावस्तदद्य नृपसद्मनि। रमस्व राजपत्नीव राज्ञा सह यथासुखम् ॥५९॥ वनमाला तया सार्धं नृपवेश्म ययौ ततः । अवरोधे सा निदधे सानुरागेण भूभुजा ॥६०॥ क्रीडोद्यान-सरिद्-वापी-शैलादिषु तया सह । विहरन्नन्वभूद् भोगसुखं सुमुखभूपतिः ॥ ६१ ॥ इतो वीरकुविन्दोऽपि वियुक्तो वनमालया । भूताविष्ट इवोन्मत्त इव मत्त इवाऽभ्रमत् ॥ ६२ ॥ धूल धूसरसर्वाङ्गो जीर्णकर्पटखण्डभृत्। विसंस्थूलशिर: केशो दीर्घरोमनखावलिः ॥ ६३॥ उत्तालतुमुलैः पौरदारकैः परिवारितः । वनमाले ! वनमाले ! क्वाऽसि ? मे देहि दर्शनम् ॥ ६४|| निरौगसं किमत्याक्षीरेकमेकपदे हि माम्। अथवा नर्मणाऽत्याक्षी : ? सुचिरं युज्यते न तत् ॥ ६५॥ रूपलुब्धेन वा रक्षो-यक्ष-विद्याधरादिना । केनाऽप्यपहृताऽसि त्वं ? धि धिङ् मां गतभाग्यकम् ॥ ६६ ॥ इत्यादि प्रलपन् पुर्यां चत्वरेषु त्रिकेषु च । वराको रङ्कवत् कालमतिवाहयति स्म सः || ६७ || पञ्चभिः कुलकम् || तथैव प्रलपन्नुच्चैरन्येद्यू राजवेश्मनः । प्रययावङ्गणे डिम्भगणैः कपिवदावृतः ॥ ६८॥ कौतुकालोकनोत्केन राजलोकेन तत्क्षणम् । निर्माल्यमाल्यसंवीतः सोऽवेष्ट्यत पिशाचकी॥६९॥ उत्तालतालिकानादमिश्रकोलाहलध्वनिम् । तस्याऽनुगामिपौराणां शुश्राव सुमुखो नृपः ॥७०॥ किमेतदिति जिज्ञासुः सहैव वनमालया । निजवेश्माङ्गणेऽभ्यागात् सुमुखः पृथिवीपतिः॥७१॥ तं तथा विकृताकारं केश्मलं शून्यमानसम् । आक्रुश्यमानं लोकेन स्नप्यमानं च रेणुभिः ॥७२॥ वनमाले! वनमाले! क्वाऽसीत्यादि प्रलापिनम् । निरीक्ष्य वनमाला च नृपतिश्चेति दध्यतुः ॥७३॥ कर्मैतन्निर्घृणमहो! अस्माभिः सौनिकैरिव । दुःशीलैर्विदधे हन्त विश्वस्तो ह्येष वञ्चितः ॥७४॥ मन्ये नाऽतः परं पापं किञ्चिदन्यत् प्रकृष्यते । प्रकृष्टपापिनां मध्ये धौरेर्यौ वयमेव हि ॥७५।। विश्वासघातकेभ्योऽपि निर्दृष्टा वयमास्महे । इत्थं जीवन्मृतमिमं यद् वराकमकृष्महि ॥७६॥ धिग् धिग् विषयलाम्पट्यमविवेकैंपटीयसाम्। नरकेऽपि हि न स्थानं पाप्मनाऽनेन नः खलु ॥७७॥ धन्यास्ते हि महात्मानः सर्वदा ये जितेन्द्रियाः । जहुर्वैषयिकं सौख्यं विपाके दुःखकारणम् ॥७८॥ जिनधर्ममहोरात्रं ये शृण्वन्त्याचरन्ति च । वन्द्यास्ते स्वविवेकेन विश्वविश्वोपकारिणः ॥ ७९ ॥ इति स्वं निन्दतोर्धर्मप्रसक्तांश्चाऽभिनन्दतोः । तयोः पपात खाद् विद्युत् प्राणानपजहार च ॥८०॥ मिथ: स्नेहपरीणामाच्छुभध्यानाच्च तौ मृतौ । उत्पेदाते हरिवर्षे वर्षे मिथुनरूपिणौ ॥८१॥ हरिश्च हरिणी चेति पितृभ्यां कल्पिताभिधौ । प्राग्जन्मवद्दम्पती ताववियुक्तौ दिवानिशम् ॥८२॥ कल्पद्रुमैर्दशविधैः सम्पादितसमीहितौ । सुखेन तस्थतुस्तत्र विलसन्तौ सुराविव ॥ ८३ ॥ 'विद्युत्पातेन हतयोर्वनमाला-नरेन्द्रयोः । चक्रे बालतपो वीरकुविन्दोऽपि सुदुस्तपम्॥८४॥ मृत्वा च कल्पे सौधर्मे सोऽभूत् किल्बिषिकः सुरः । प्राग्जन्माऽवधिनाऽपश्यत् स्वं तथा हरिणी - हरी ॥ ८५ ॥ रोषारुणेक्षण: सद्यो भृ(भ्रु)कुटीभङ्गभीषणः । सजिहीर्षुर्यम इव हरिवर्षं जगाम सः ॥८६॥ एवं च ससुरो दध्याविहाऽवध्याविमौ खलु । मृतौ च यास्यतः स्वर्गेऽवश्यं क्षेत्रप्रभावतः ॥ ८७ ॥ निर्बंन्धने दुर्गतीनामकालेऽपि मृतिप्रदे। नयाम्यन्यत्र तैंत्स्थाने पूर्वजन्मद्विर्षैविमौ ॥८८॥ इति निश्चित्य स सुरस्तौ कल्पतरुभिः सह । आनैषीदत्र भरते चम्पापुर्यामुभावपि॥८९॥ तत्र पुर्यां तदानीं च नृप इक्ष्वाकुवंशजः । चन्द्रकीर्तिर्नामधेयेनाऽपुत्रः "पञ्चतां ययौ ॥९०॥ ततः प्रकृतयस्तस्य राज्यार्हमपरं नरम् । प्रावर्तन्ताऽभितोऽन्वेष्टुमात्मानमिव योगिनः ॥ ९१ ॥
१. अन्तःपुरमध्ये॥ २. ०टखण्डवत् खंता. पाता है. सं. विना ॥ ३. निरपराधिनम् ॥। ४. हास्येन ॥ ५. निर्भाग्यम् ।। ६. उत्केन-उत्कण्ठितेन ।। ७. निर्माल्यपुष्पमालासहितः ।। ८.पिशाचाधिष्ठितः ॥ ९. मलिनम् ॥। १०. ० तप्यमानं० मु. ॥। ११. चाण्डालैरिव ।। १२. ० लैर्विहितम् ला. सं. पाता. ॥। १३. अधिकं भवति ॥ १४. अग्रेसराः ॥ १५. अधमाः ॥ १६. अविवेकिनाम् ॥ १७. तत्यजुः ।। १८. परिणामे ।। १९. ये च विश्वोप० छा. पा. मु. ॥ २०. आकाशात् ॥ २१. क्षेत्रे युग्मधर्मौ ॥ २२. निर्बन्धेन० मु. ।। २३. तं स्थाने ला. सं. ॥ २४. शत्रू ॥ २५. अनैषीदत्र मु. ॥ २६. मृत्युम् ॥ २७. प्रधानपुरुषाः ।।
Jain Education International
१०७
For Private Personal Use Only
www.jainelibrary.org