________________
१०६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व स्वामिन्! सर्वं बलं प्राप्तं किमद्याऽपि विलम्ब्यते ? । भावं जिज्ञासुरित्यूचे सचिवस्तं नरेश्वरम् ॥२७॥ अमात्यवचसा चेत: संस्थाप्य कथमप्यथ। जगाम यमुनोद्वर्तं महोद्यानं महीपतिः॥२८॥ न हि चूतवने मञ्जमञ्जरीपुञ्जमण्डले। नाऽप्यशोकवने नृत्यन्नवपल्लवशालिनि॥२९॥ नवा बकुलषण्डेऽपि मधुव्रतकुलाकुले। तालवृन्तायितदले कदलीविपिनेऽपिन॥३०॥ मधुश्रीकर्णिकाभूते कर्णिकारवने न च। नाऽन्यत्राऽपि रतिंप्राप तया हृतमना: नृपः।।३१।।[त्रिभिर्विशेषकम्] पसचिवःसुमति मतं तथोद्विग्नमानसम्। एवमज्ञ इवोवाच भावज्ञोऽपि महीपतिम्॥३२॥ विकारो मानसो वाऽथ भयं वा शत्रुसम्भवम् । मोहाय क्षितिपालानां तृतीयं सम्भवेन्न हि॥३३॥ न तावद् विक्रमाक्रान्तजगतस्ते द्विषद्भयम् । मनोविकारो यद्यस्ति यद्यगोप्यश्च तद्वद॥३४॥ राजाऽपि व्याजहारैवं त्वया निर्व्याजशक्तिना। वशीकृता विद्विषन्त:साक्षिणौ तु भुजौ मम॥३५॥ भवान् मनोविकारेऽपिप्रतीकारकर: खलु। इति मे निश्चयस्तेन कथयामि कथं न ते?॥३६।। इहाऽधुनैवाऽऽपतता मया पथि निरीक्षिता। सर्वस्वीरूपसर्वस्वलुण्टाकी काचिदङ्गना ॥३७॥ मदीयमप्यपहृतं तया चेत: स्मरातुरम् । तेन ताम्यामि सचिव! कुरूपायमिहोचितम् ।।३८।। उवाच सचिवोऽप्येवं सा हि ज्ञाता मया प्रभो! | भार्या वीरकुविन्दस्य वनमालेति नामतः॥३९।। एष सम्पादयिष्यामि शीघ्रमेव तव प्रभो!। परंसहपरीवारो यातु स्वामी स्वमालयम्॥४०॥ इत्यक्तः शिबिकारूढो विमना रोगवानिव। चिन्तयन् वनमालां तां स्वं स्थानमगमन्नपः॥४१॥
आत्रेयिकां नाम परिव्राजिकांसुमतिस्ततः। प्राहिणोद्वनमालायै विचित्रोपायपण्डिताम्॥४२॥ जगाम वनमालाया वेश्माऽऽत्रेय्यपि तत्क्षणम्। तया च वन्दिता साऽऽशी:पूर्वमेवमवोचत॥४३॥ वत्से! कुतोऽद्य विच्छाया पद्मिनीव हिमागमे? । दिवा शशिकलाकारौ कुतो गण्डौ च पाण्डुरौ ? ॥४४॥ शून्यप्रक्षिप्तदृष्टिश्चध्यायन्ती किं नु तिष्ठसि ? । आख्यातपूर्विणी सर्वं दुःखमाख्यासि किं न हि ? ॥४५।। निःश्वस्य वनमालाऽपिललापैवं कृताञ्जलिः। दुष्प्रापार्थप्रार्थकतामात्मीयां कथयामि काम् ? ॥४६॥ क्व रासभी ? वाजिराज उच्चैरुच्चैःश्रवाः क्व च ? । क्वाऽसौ शृंगालयुवति: ? क्क केशरिकिशोरकः ? ॥४७।। क्व वा वराकी चटका? पक्षिणामधिप: क्व च ? । क्वाऽहं कुविन्दी ? तादृक् क्व दुर्लभ: प्राणवल्लभ: ? ॥४८।। अप्येतेषां भवेद्योग: कथञ्चन विधेर्वशात। हीनजातेर्मम तु तत्सङ्ग: स्वप्नेऽप्यसम्भवी॥४९॥ आत्रेयिकाऽप्येवमूचेऽर्थं ते सम्पादयाम्यहम् । असाधनीयं पुण्यानां मन्त्र-तन्त्रविदां च किम् ? ॥५०॥ प्रत्यूचे वनमालैवं मयाऽद्य पथि वीक्षित: । नृपति: कुञ्जरारूढः प्रत्यक्ष इव मन्मथः॥५१॥ अपि चन्दननि:स्यन्दसोदरात् तस्य दर्शनात्। देहे मदीये प्रोद्भूतः प्रभूतो मन्मथज्वरः ॥५२॥ ज्वरहत्तक्षकचूडामणिवत् तस्य सङ्गमः । दुर्लभो हि वराक्या मे किं की भगवत्यत: ? ॥५३।। आत्रेय्यप्यभ्यधादेवं देवं दैत्यं विधुं रविम्। विद्याधरं वा कर्षामि मन्त्रैरत्र तु कथा? ॥५४|| राज्ञा सह प्रेगे योगं करिष्यामि तवाऽनघे! । ज्वलन्तं ज्वलनमथ प्रवेक्ष्याम्याश्वसिद्ययि! ॥५५॥ आश्वास्यैवं वनमालां सा परिव्राजिकाऽव्रजत्। सिद्धप्रायं नृपार्थं तं चाऽऽख्यत्सुमतिमन्त्रिणे॥५६।। सोऽप्यमात्यस्तदाख्यायाऽऽश्वासयत् पृथिवीपतिम् । प्रायेण प्रेयसीप्राप्तिप्रत्याशाऽपि हि शर्मणे॥५७।। प्रातर्गत्वाऽऽत्रेयिकाऽपि वनमालामवोचत । मया कृतोऽस्ति ते प्रेमाभिमुखःसुमुखो नृपः ।।५८|| १. भूतवने खंता. पाता. मु.विना ॥ २. मक्षु मञ्जरी० ला. मु.; मनोहरमञ्जरीणां समूहेन सुन्दरे ।। ३. तालवृन्तायतदले ला. मु.; तालवृन्तवदाचरितं दलैः पर्णैर्यत्र ।। ४. वसन्तश्रीकर्णभूषणसदृशे॥५. रिपवः ।।६. तवात्मनो० मु.॥७. आगच्छता ॥८.लुण्टतीत्येवं शीला लुण्टाकी॥९. निस्तेजाः॥१०. गण्डौकपोलौ(गाल) श्वेतौ(फिक्का) कथम्? इत्यर्थः ॥११. पूर्वमाख्यातवती ।। १२.दुष्प्रापार्थकतामात्मीयां कथां मु.,अप्रार्थितप्रार्थकतामात्मीयां सं. ॥१३. करासभी क च वाजिराज उच्चैःश्रवा क च ला.॥१४. कवा शृगालयुवति: पाता.,कच गालयुवति: मु.॥१५. गरुडः ।।१६. तन्तुवायपत्नी॥१७. मान्मथो ज्वर: मु.॥१८. तक्षक: सर्पराजस्तस्य मस्तकमणिः, स ज्वरं हरतीति श्रूयते॥१९. प्रात:काले॥२०. अग्निम् ।। २१. अयि! इति सम्बोधने; ०श्वसिह्यपि मु.॥
तवः ॥ १२.दुष्प्रापालकच भगालयुवति: मः ।।२९. अयिः इति स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org