________________
॥ सप्तमः सर्गः ॥ ॥ श्रीमुनिसुव्रतनाथचरितम्।
I
मुनिसुव्रतनाथस्य देशनायां रैदत्विषः । जयन्ति ज्ञानदुग्धाब्धेर्वेलाः पावितभूतलाः॥१॥ विदुषां प्रतिभोल्लासे सारस्वतमिवाऽमलम् । मुनिसुव्रतदेवस्य चरितं कीर्तयिष्यते ॥२॥ अथाऽत्रैव जम्बूद्वीपे विदेहेष्वपरेषु तु । विजये भरताख्येऽस्ति चम्पे ति विषैला पुरी ॥३॥ तस्यामासीन्महाबाहुर्लोकोत्तरपराक्रमः । सुरश्रेष्ठ इव सुरश्रेष्ठो नाम महीपतिः ॥४॥ चतुर्धाऽप्यभूद्वीरो दीनत्राता रणोत्कटः । प्रार्थनाकल्पविटपी जिनधर्मधुरन्धरः ||५|| खुरलीसमयेष्वेव सोऽस्त्रविद्यामदर्शयत् । न पुँना रणरङ्गेषु साधयन्नाज्ञया नृपान् ॥६॥ विनयादीन् गुणांस्तस्य वर्णयन्तो दिवानिशम् । वाचंयमत्वं मुनयो जैहुर्वाचंयमा अपि ॥७॥ सोऽन्यदा नन्दनं नाम मुनिं हृदयनन्दनम्। उद्याने समवसृतं ववन्दे भक्तितः सुधीः ॥८॥ तद्देशनावचः श्रुत्वा मोहपङ्कजलप्लवम्। स समासादयामास भववैराग्यभावनाम् ॥९॥ मुनेस्तस्यैव पादान्ते प्रव्रज्यां प्रत्यपादि सः । अपालयद् यथावच्च सात्त्विकानां शिरोमणिः ॥ १० ॥ अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृन्नामकर्म सः । अर्जयित्वा विपद्याऽभूत् प्राणते त्रिदशोत्तमः ॥ ११ ॥ ॥ इतश्च्युत्वा ह्यसावर्हन् हरिवंशे ऽभवत् किल । तस्य वंशस्य तेनेयमुत्पत्तिः पूर्वमुच्यते ॥ १२ ॥ तथाहि जम्बूद्वीपस्याऽमुष्य क्षेत्रेऽत्र भारते । कौशाम्बीनाम पुर्यस्ति वैत्समण्डलमण्डनम् ॥१३॥ तस्यां यशोभिः श्रीखण्डद्रवैरिव सुगन्धिभिः । मैण्डिताशामुखो जज्ञे सुमुखो नाम भूपतिः ॥१४॥ नृपैरलङ्घ्या तस्याऽऽज्ञा जाङ्गुलीव भुजङ्गमैः । ऐश्वर्यमद्वितीयं च वज्रपाणेरिवाऽभवत् ॥ १५ ॥ सामकृत् सामयोगेषु पितेव मृदुलाशयः । दानकृद्दानसाध्येषु परेतेष्विव मान्त्रिकः ॥१६॥ अयस्कान्त इवाऽयःसु मायाविषु विभेदकृत्। स दण्डभृच्च दण्ड्येषु देण्डपाणिरिवाऽपरः ।।१७।। अपरेद्युर्वसन्तर्तौ प्राप्ते मदनबान्धवे । चचाल गन्तुमुद्याने रन्तुकामः स भूपतिः ॥ १८॥ स गच्छन् कुञ्जरारूढो वनमालामभिख्यया । भार्यां वीरकुविन्दस्याऽरविन्दाक्षीमुदैक्षत ॥ १९ ॥ पीनोन्नतकुचद्वन्द्वां मृणालमृदुदोर्लताम् । वज्राल्पमध्यां पुलिनविपुलश्रोणिमण्डलाम् ॥ २० ॥ सरिदावर्तगम्भीरनाभिं कॅरिकरोरुकाम्। नैव्यकोकनदताम्रपाणिपादां नतभ्रुवम् ॥२१॥ श्रोण्या विप्रंसि बिभ्राणां वासो वामेन पाणिना । कुचस्थलादुत्तरीयं निपतद्दक्षिणेन तु ॥ २२ ॥ तां पश्यन्नवनीभर्ता कामार्तिविधुरः क्षणात् । मन्दीकृतद्विपगतिर्मनस्येवमचिन्तयत्॥२३॥ [चतुर्भिः कलापकम् ] इयं कस्यापि शापेन दिवो भ्रष्टा किमप्सराः ? । वनलक्ष्मीः स्वयमथ वसन्तश्रीरथ स्वयम् ? || २४||
रतिः स्मरवियुक्ता वा ? नाँगी वा भुवमागता ? । स्त्रीरत्नं वा किमप्येतत् कौतुकाद् वेधसा कृतम् ? ॥२५॥ एवं विचिन्तयन् राजा तत्रैवाऽभ्रमयद् गजम्। प्रतीक्षमाणः कमपीवाऽग्रतः प्रययौ न हि ॥ २६ ॥
१. दन्तकान्तयः ।। २. ज्ञानक्षीरसमुद्रस्य ऊर्मयः । ३. पवित्रितं भूतलं याभिस्ताः ॥ ४. बुद्धेर्विकासकरणे ॥ ५. मुनिसुव्रतनाथस्य ला. ।। ६. अस्मिन्नेव ला. सं. पाता. ॥७. विशाला ॥ ८. इन्द्रः ॥ ९. चत्वारो वीरा:- त्राणवीर, रणवीरः, दानवीरः, धर्मवीरः ॥ १०. प्रार्थनासु कल्पवृक्षसदृश: ।। ११. शस्त्राभ्याससमये ॥ १२. पुनः ।। १३. मौनव्रतम् ।। १४.०जह्रु० मु. खंता ।। १५. मौनिनः ।। १६. मोहपङ्क - जलतरण्डम् ।। १७. वत्सदेशस्य भूषणम् ।। १८. चन्दनरसैः ॥ १९. भूषितं दिशां मुखं येन सः ॥ २०. इन्द्रस्य ॥ २१. प्रेतेषु ॥ २२. यमः ॥ २३. पुलिनं जलोज्झितं नदीतीरम्, तद्वद् विपुलं विस्तीर्णं श्रोणिमण्डलं कटीतटं यस्याः सा, ताम् ।। २४. करिकर: हस्तिशुण्डदण्ड इव ऊरू यस्याः सा, ताम् ॥ २५. नव्यं नूतनं कोकनदं रक्तकमलं तद्वद् आ ईषद् ताम्रं रक्तं पाणिपादं यस्याः सा, ताम् ॥ २६. कट्याः, कटीतटातू पतद् वस्त्रं वामेन हस्तेन, स्तनस्थलाच्च पतद् वस्त्रं दक्षिणेन हस्तेन धारयन्तीम् ॥ २७. नागवधूः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org