________________
षष्ठः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् ।।
१०३ आजन्मब्रह्मचारित्वाद्दीक्षा ते जन्मतोऽपि हि। 'व्रतपर्यायदेशीयं मन्ये जन्माऽपि तत् तव ॥२१८॥ किं देवसद्मना येन न यत्र तव दर्शनम् ? । इदं तु भूतलं श्रेयस्त्वदालोकपवित्रितम् ॥२१९॥ नृ-देव-तिर्यग्जन्तूनां भीतानां भववैरितः । दुर्गं त्वदीयं समवसरणं शरणं प्रभो! ॥२२०॥ ककर्माण्यन्यकर्माणि त्वत्पादप्रणतिं विना। यैः कर्माण्येव सूयन्ते संसारस्थितिकारणम् ।।२२।। दुर्ध्यानान्यन्यध्यानानि भवद्ध्यानं विना खलु । यैरात्मा बध्यते बाढं निजैतूंतेव तन्तुभिः ।।२२२॥ कथाश्च दु:कथा एव भवद्गणकथां विना । यकाभिस्तित्तिरिरिव वाग्भिर्विपदमश्नुते ॥२२३॥ त्वत्पादपद्मसेवाया: प्रभावेण जगद्गुरो! । भवच्छेदोऽस्तु मे यद्वा त्वयि भक्तिर्भवे भवे" ॥२२४॥ एवं स्तुत्वा विरतयोरमरेन्द्र-नरेन्द्रयोः । श्रोतुं चोत्कण्ठिते सङ्घ श्रीमल्लिर्देशनां व्यधत् ॥२२५।। "स्वतोऽप्यपार: संसारो वर्धते च विशेषतः। रागादिना पूर्णमासीदिनेनेव सरित्पतिः ।।२२६।। अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥२२७।। प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥२२८।। कर्म जीवश्च संश्लिष्टं परिज्ञातात्मनिश्चयः । निर्भिन्नीकुरुते साधुः सामायिकशलाकया ॥२२९।। रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिन: परमात्मनः ।।२३०॥ स्निह्यन्ति जन्तवो नित्यवैरिणोऽपि परस्परम् । अपि स्वार्थकृते सौम्यभाज: साधो: प्रभावत:॥२३१॥
चेतनाचेतनैर्भावरिष्टानिष्टतया स्थितैः । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्ष्यते॥२३२।। गोशीर्षचन्दनालेपे वासिच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तमम् ।।२३३।। अभिष्टोतरि च प्रीते रोषान्धे चाऽभिशप्तरि । यस्याऽविशेषणं चेत: स साम्यमवगाहते॥२३४॥
ह्यते न जप्यते न दीयते वा न किञ्चन । अहो! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥२३५॥ प्रयत्नकृष्टैः क्लिष्टैश्च रागाद्यैः किमुपासितैः ? । अयत्नलभ्यं हृद्यं च धार्यं साम्यं सुखावहम् ।।२३६।। परोक्षार्थप्रतिक्षेपात् स्वर्ग-मोक्षावपद्भुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निद्भुते॥२३७।। कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यते ? । स्वसंवेद्यरसं हन्त पेयं साम्यरसायनम् ।।२३८॥ स्वाद्य-लेह्य-चूष्य-पेयरसेभ्यो विमुखा अपि। पिबन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ॥२३९।। कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याऽप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः॥२४०॥ न गूढं किञ्चनाऽऽचार्यमुष्टिः काचिन्न वाऽपरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥२४१।। अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलानि ते ॥२४२।। अयं प्रभाव: परमः समत्वस्य प्रतीयताम् । यत् पापिन: क्षणार्धन पर्देमियति शाश्वतम् ॥२४३।। यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं स्वस्ति तस्मै समत्वाय महौजसे ॥२४४।। संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । न तत्कालोचितं किञ्चित् साम्यादौयिकं वरम् ।।२४५।। एकं मोक्षतरो।जमिहाँऽप्यद्भुतशर्मदम् । तस्मात् साम्यं विधातव्यं राग-द्वेषजयैषिणा" ॥२४६।। तया देशनया भूपा: षट् तेऽन्येऽपि प्रवव्रजुः । सञ्जज्ञिरे श्रावकास्तु कुम्भप्रभृतयस्तदा ॥२४७।। १. दीक्षासदृशम् ।। २. ते तत: हे. ॥ ३. देवलोकेन ।। ४. अन्यानि कर्माणि-कृत्यानि कुकर्माणि ॥५. बाध्यते छा. पा. ला., वञ्च्यते हे. ॥६. प्रभावेन. खंता. पाता.॥७.०च्छेदोऽस्तु यद्वाऽस्तु त्वयि० मु.॥८.अमन्दानन्दजनको मु.॥९. समताजले॥१०.प्रतिहन्ति० मु.।। ११. परिज्ञात आत्मनो निश्चयो येन सः, आत्मज्ञानीत्यर्थः; परिज्ञानात्म. मु., तत्र तु परिज्ञानेन आत्मनो निश्चयो येन सः, आत्मज्ञानीत्यर्थः।। १२. सामायिकसूर्येण ।। १३. स्वाम्य० पाता. ॥ १४. प्रचक्षते० खंता. पाता. ।। १५. तक्षण्या छेदे सति ॥ १६. हस्तवाची वाहाशब्दोऽप्यस्ति ।। १७. अभिन्नचित्तवृत्तिश्चेत् ला. ॥ १८. स्तुति कुर्वति ॥१९. चातिशप्तरि मु., वाविशस्तरि हे.; निन्दां कुर्वति ।। २०. विना मूल्येन क्रीता ॥ २१. प्रत्यक्षम् ॥ २२. खाद्यलेह्यभूष्य० मु. ॥ २३. सर्पदेहः ॥ २४. कल्पवृक्षपुष्पमाला ॥ २५. आचार्यमुष्टिः-आचार्येण गोप्यं रहस्यम् ; किञ्चनावार्यमुष्टिः मु.॥ २६.०पदमिच्छति० मु. ॥ २७. वर: प्रधान: उपाय इत्यर्थः ।। २८. ०मिहात्य० खंता. मु. ॥ २९. ०जयेषिणा मु.।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org