________________
१०२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व
पिधाय नासिकां तेऽपि वाससा गन्धतस्ततः । पराङ्मुखा अजायन्त वैरिभ्य इव कातराः ॥१८७|| भोः! किं पराङ्मुखा यूयमिति मल्ल्याऽभिभाषिताः । अमुं न शक्नुम: सोढुं दुर्गन्धमिति तेऽभ्यधुः ॥१८८।। मल्लिस्तान् प्रत्युवाचैवं सौवर्णी प्रतिमा ह्यसौ। अत्राऽप्यन्वहमाहारक्षेपाद् गन्धोऽयमीदृशः ।।१८९।। किं ब्रूमस्तस्य यद्गर्भे पित्रोः शुक्रासृगुद्भवम् । पश्चाच्च कललीभूतं मांसपेशीत्वभाक् ततः ॥१९०।। ततो मातृकृताहारनिर्यासरसपोषितम् । जरायुर्नरकमग्नं वपुर्विणमूत्रवासितम् ॥१९१॥युग्मम्।। एवंविधसमुत्पत्तेर्विष्ठाकोष्ठस्य वर्मणः । रसासृग-मांस-मेदो-ऽस्थि-मज्ज-शुक्रचितात्मनः ॥१९२॥ मूत्रैकस्रोतसः श्लेष्मदृतेर्दुर्गन्धधारिणः । किं पुरस्रोतस इव सारमस्ति मनागपि ? ॥१९३।।युग्मम्।। अत्र संस्कारहेतुश्च कर्पूरादिसुगन्ध्यपि । मलसात् स्याल्लवणसात् सुधावृष्टिरिवोषरे ॥१९४।। बहिरन्तश्च बीभत्से कथङ्कारमिहाऽङ्गके । अङ्गानुरागं कुर्वन्तु मनागपि विवेकिनः ॥१९५।। इतो भवे तृतीयस्मिन् यद्भवद्भिर्मया सह । तपः प्रव्रजितैश्चक्रे मुग्धा:! स्मरत तन्न किम् ? ॥१९६।। मल्लीवचो विमृशतां तत् तेषां पृथिवीभुजाम् । जातिस्मरणमुत्पेदे किं स्यान्नाऽर्हदनुग्रहात् ? ॥१९७।। ततो जालकपाटानि श्रीमल्लिरुदघाटयत् । ते चाऽभ्युपेत्य षडपि प्रबुद्धा एवमब्रुवन् ॥१९८।। स्मरामो यद्भवे पूर्वे सप्ताऽपि सुहृदो वयम् । सम्भूय कृतसङ्केतास्तपस्तीव्रमकृष्महि ॥१९९॥ बोधिता: स्मस्त्वया साधु नरकात् साधु रक्षिताः । आदिशाऽत: परं कृत्यं गुरुस्त्वमसि नः प्रभो! ।।२००॥ प्रव्रज्या समये ग्राह्येत्युदीर्य विससर्ज तान् । षडपि क्षमापतीन् मल्लिर्जग्मुः स्वं स्वं पुरं च ते ॥२०१॥ पातीर्थं प्रवर्तयेत्युक्ते तदा लौकान्तिकैः सुरैः । मल्ल्यदाद् वार्षिकं दानं पूर्णार्थं जृम्भकामरैः ॥२०२॥ जन्मतोऽब्दशते पूर्णे पञ्चविंशधनून्नतिः । कुम्भराज-सुरेन्द्राद्यैः कृतनिष्क्रंमणोत्सवा ॥२०३।। जयन्तीनामशिबिकारत्नमारुह्य मल्ल्यथ । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ॥२०४॥[युग्मम्] कृष्णेक्षुवाटैरभ्युद्यत् कृष्णपक्षमिव क्वचित् । उच्छुक्लपक्षमिव च क्वचित् पुण्ड्रेक्षवाटकैः ॥२०५।। नांगरङ्गैः पक्कफलैः शोणाश्मभिरिवाचितम् । राजमानं मेरुबकैर्नीलबद्धमिवाऽभितः ॥२०६।। नारीकुचवदुष्णत्वात् पथिकै: शीतपीडितैः । आचम्यमानकूपाम्बु सेव्यमानवद्रुमम् ॥२०७।। हेमन्तलक्ष्मीहसितैरिव कुन्दैर्विकस्वरैः । शोभमानं तदुद्यानं प्रविवेश जगद्गुरुः ॥२०८।।चतुर्भि: कलापकम्।। बहि:परिच्छदार्हाणां त्रिभिणां शतैः समम् । स्त्रीणामयान्तरपरीवारार्हाणां त्रिभिः शतैः ॥२०९॥ मार्गस्य शुक्लैकादश्यां पूर्वाह्न भेऽश्वयुज्यथ। यथाविधि प्रभुमल्लिः प्रवव्राज कृताष्टम:(मा) ॥२१०॥[युग्मम्] मन:पर्ययमुत्पेदे मल्लेर्ज्ञानं तदैव हि । तस्मिन्नेव दिनेऽशोकमूले केवलमप्यभूत् ।।२११॥ शक्रादिभिश्च समवसरणं विदधेऽमरैः । धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभितम् ॥२१२॥ तत्र प्रविश्य प्रारद्वारा मल्लिस्त्रिश्चैत्यपादपम् । प्रदक्षिणीकृत्य “नमस्तीर्थाये"त्यभिधाय च ।।२१३॥ प्राक्सिंहासनमध्यास्त प्राङ्मुखाऽथाऽन्यदिक्ष्वपि । सद्यस्तत्प्रतिरूपाणि विचक्रुर्व्यन्तरामराः ।।२१४॥[युग्मम्] अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । कुम्भस्ते षट् च राजानोऽनुशक्रं समुपाविशन् ।।२१५।। देवराज-कुम्भराजौ नमस्कृत्य जगद्गुरुम् । श्रद्धाधौतान्तरात्मानाविति तुष्टुवतुर्मुदा ॥२१६॥
"दिष्ट्या प्रणमतां भाले त्वत्पादनखरश्मयः । भवन्ति भवभीतानां रक्षातिलकसन्निभाः ॥२१७॥ १. सुवर्णमयी॥२.मस्तद्धि है. ॥३. वपुषः॥४. वीर्य-शोणिताभ्यामुद्भूतम् ॥५. कललं गर्भवेष्टनचर्म, तद्वद्भूतम् ॥६. मांसपेशी गर्भस्थप्राण्यवयवविशेषः ।। ७. निर्यासरस:-सत्त्वरसः ।। ८. गर्भाशय: ।। ९. देहस्य ।।१०.०शुक्राञ्चितात्मन: मु.॥११. दृति:-चर्ममयी, पात्रविशेषः ।। १२. पुर:स्रोतस: छा. पा.हे. खंता, पाता.; 'खाळ-गटर' इति भाषायाम् ।। १३. तृतीयेऽस्मिन् मु.॥१४. विचारयताम् ।।१५. लौकान्तिकामरैः मु.॥१६. जुम्भकदेवैः पूर्ण: अर्थोधनं यस्मिन् तद्-दानम् ।। १७. निष्क्रमणोत्सवः पाता. ।। १८. जरतीनाम० मु.।। १९. श्वेतेञ्जवाटैः ।। २०. नागरङ्गीपक्कफलैः ला. मु.॥ २१. शोणाश्मखचितैरिव हे., शोणाश्मभिरिवाश्चितम् मु.; शोणमणिभिः ।। २२. मरुचकैर्नील० मु. ॥२३. नृणां दशशतैः समम् मु. खंता. पाता. ॥ २४. स्त्रीणामप्यन्तर० मु. ॥ २५. प्रात:काले ॥ २६. पूर्वद्वारेण ।। २७. मल्लिस्तं चैत्य० ला. मु. ॥ २८. प्राङ्मुखो० मु.॥ २९. शक्रः ॥ ३०. श्रद्धया धौत: निर्मलीकृत: अन्तरात्मा ययोः तौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org