________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। सोऽप्याख्यद् भवदादेशाद् गतेन मिथिलां मया। आयुर्ग्रन्थौ कुम्भपुत्र्या मल्लेरधिकमीक्षितः ॥९२।। अदृष्टप्रतिरूपं च तस्या रूपमपि प्रभो! । कथ्यमानमसम्भाव्यं प्रत्येतव्यं तु मद्गिरा ॥९३॥ अदृष्टपूर्वं स्त्रीरत्नं मम तद्दष्टपूर्विणः । अन्यस्त्रीवर्णने जिह्वा मौनव्रतमशिश्रियत् ॥१४॥ तस्या ह्यग्रे विभान्त्यन्यास्तन्निर्माल्योपमा: स्त्रियः । पुर: कल्पलताया हि सहकारलता: कियत् ? ॥९५।। श्रुत्वा जातानुरागेण सद्यो राज्ञाऽपि रुक्मिणा । दूत: प्रेष्यत कुम्भाय मल्लिमार्गणहेतवे ॥९६।। "इतश्च वसुजीवोऽपि वैजयन्तात् परिच्युतः । जज्ञे वाराणसीपुर्यां शङ्खो नामाऽवनीपतिः ॥९७॥ मल्लेस्तत्कुण्डलद्वन्द्वं दिव्यं विजघटेऽन्यदा। राज्ञाऽऽदिष्टा: स्वर्णकारास्तस्य सङ्घटनाय च ॥९८|| वयं दिव्यमिदं देव! न सङ्घट्टयितुं क्षमाः । इत्युक्तवन्तस्ते पुर्या राज्ञा निर्वासिता: क्रुधा ।।९९॥ ते च वाराणसीमेयुः शङ्खाय च महीभुजे । तदशेष समाचख्युरात्मनिर्वासकारणम् ॥१०॥ कुण्डलप्रक्रमायातं मल्ले रूपं तदद्भुतम् । राज्ञोऽग्रे वर्णयामासुदृष्टादूनतरं तु ते ॥१०१।। तस्या मुखस्य शशभृदोष्ठयोर्बिम्बिकाफलम् । कण्ठदेशस्य कम्बुश्च दोष्णोर्बिसलताऽपि च ॥१०२॥ मध्यस्य पविमध्यं च तथोर्वो: करिण: कर: । नाभेश्च सरितावर्तो जघनस्य च दर्पणम् ॥१०३।। जङ्घयोश्च मृगीजङ्घा पाणि-पादस्य पङ्कजम् । उपमेयतया जज्ञे यदन्यत्रोपमानभाक् ॥१०४॥त्रिभिर्विशेषकम्।। पूर्वस्नेहानुबन्धेन तद्रूपाकर्णनेन च । कुम्भादर्थयितुं मल्लीं शङ्खो दूतमथाऽऽदिशत् ॥१०५।। पाजीवो वैश्रवणस्याऽपि वैजयन्तात् परिच्युतः। अदीनशत्रुर्नाम्नाऽभूनृपतिर्हस्तिनापुरे ॥१०६|| इतश्च मल्लेरनुजो मल्लो नाम कुतूहलात् । अकारयच्चित्रकरैश्चित्रितां चित्रशालिकाम् ॥१०७।। चित्रीयमाणश्चित्रेण तत्रैकश्चित्रकृद्वरः । एकाङ्गदर्शनात् तादृक् सर्वाङ्गालेख्यलब्धिमान् ॥१०८।। अन्तर्जवनिकं मल्ले: पादाङ्गुष्ठं निरीक्ष्य सः। सर्वाङ्गोपाङ्गसहितं यथावद्रूपमालिखत् ॥१०९॥ तत्र च क्रीडितुं मल्लो गत: प्रेक्ष्य च चित्रगाम् । मल्लीं साक्षान् मन्यमानो लज्जयाऽपासरद् द्रुतम् ।।११०।। धात्र्या किमेतदित्युक्ते कुमारोऽप्यब्रवीदिति । स्वसा मल्ली पुरोऽस्त्येषा ततोऽत्र क्रीड्यते कथम् ? ॥१११।। सम्यग् निरूप्य धात्री साऽप्याचख्यौ परिभाव्यताम् । न साक्षान् मल्ल्यसौ किन्तु चित्रस्था माऽपसर्प तत् ॥११२।। क्रुद्धो मल्लकुमारोऽपि तस्य चित्रस्य लेखकम् । निकर्त्य दक्षिणकरसन्दंशं निरवासयत् ॥११३।। सोऽभ्येत्य हास्तिनपुरेऽदीनशत्रोर्महीपतेः । तं वृत्तान्तं समाचख्यौ मल्लीं चैवमवर्णयत् ॥११४॥ अशेषजगदाकाशशशिलेखा वराङ्गना। मल्लिं विना क्वचित् क्वाऽपि नाऽस्ति नाऽभून्न भाविनी ॥११५।। यस्तां कन्यां समालोक्याऽऽलोकयेदपरामपि । महानीलमणिं दृष्ट्वा काचखण्डं स पश्यति ॥११६।। रूपेण लेवणिम्ना च गत्या चाऽन्यैश्च चेष्टितैः । सैवैका योषितां धुर्या सरितामिव जाह्नवी ॥११७।। इति तद्वर्णनं कृत्वा स चित्रकरपुङ्गवः। आकृष्य चित्रफलकं चित्रस्थां तामदर्शयत् ॥११८॥ दृष्ट्वा तां विस्मित: पूर्वस्नेहादुत्कण्ठितश्च सः। प्रेषीत् तद्याचनायोपकुम्भराजं स्वपूरुषम् ॥११९॥ "इतोऽभिचन्द्रजीवोऽपि वैजयन्तात् परिच्युतः । काम्पील्यनगरे नाम्ना जितशत्रुपोऽभवत् ।।१२०।। धारिणीप्रमुखं राज्ञीसहस्रं तस्य चाऽभवत् । पुण्याकृष्टं देवलोकाद् वृन्दमप्सरसामिव ॥१२१॥ इतश्च मिथिलापुर्यां चोक्षा नाम विचक्षणा । एका परिव्राजिकाऽऽख्यद् रौजेश्वरगृहेष्विति ॥१२२॥ १. अदृष्टं प्रतिरूपं प्रतिकृति: यस्य तत् ।। २. विश्वसनीयम् ।। ३. दृष्टं पूर्वं येन सः, तस्मै ॥ ४. विसमघट्यत हे. । बभ ।। ५. राजादिष्टा: खंता. ॥ ६. सङ्घट्टनाय मु.॥ ७. समर्थाः ।। ८. निष्कासिताः ॥९. वाणारसी० पाता. ॥१०. दृष्ट्वादूनतरं मु.; यथा तैदृष्टमासीत् तथा वर्णयितुमसमर्थत्वाद् दृष्टाद् ऊनतरं-अल्पतरं वर्णयामासुरित्यर्थः ॥ ११. कण्ठभागस्य ।। १२. मध्यदेश: कटिभागः ॥ १३. पविर्वजं, वज्रमध्यम् ।। १४. अन्यस्त्रीषु पूर्वोक्ताश्चन्द्रादय उपमानतां प्राप्नुवन्ति अस्यां तु उपमेयतामित्यर्थः ॥१५. मल्लीशब्दो दीर्घान्तोऽपि प्रयुक्त: सज्ञात्वात् ॥ १६. आश्चर्यकारकः ॥ १७. तत्रैकचित्रकृद्वरः सं., तेष्वेकश्चित्रकृद्वरः मु.॥ १८. सर्वाङ्गालेख्ये० ला. छा. |१९. छित्त्वा ।। २०. दक्षिणकरं सन्दंशं ला. मु.; तर्जनी अगुष्ठं च अनयोः सम्मीलनेन सन्दंशाकृतिर्भवति, 'सन्दंश: स्यात् कङ्कमुख' (अभि.चिन्ता.) चीपियो' इति भाषायाम् ।। २१. मल्लेः प्रतिकृति: काऽपि हे. ।। २२. लावण्येन ।। २३. निष्कास्य ॥ २४. धारणी० खंता. ॥ २५. राज्ञां ईश्वराणां धनिकानां च गृहेषु ।।
विसमघट्यत है. मासीत् तथा वर्णायसाधु पूर्वोक्ताभन्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org