________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । इक्ष्वाकुवंशक्षीराब्धिसुधाकुम्भो भुवः पतिः । कुम्भ इत्यभवल्लक्ष्मीनिवासो निधिकुम्भवत् ।।२८।।
आश्रय: स श्रियामेक: स्रवन्तीनामिवाऽर्णवः । उत्पत्तिभूमिर्नीतीनां मणि(णी)नामिव रोहण: ।।२९।। विदाञ्चकार शस्त्राणि शास्त्राणि च महामतिः । मेदिन्या: करमादत्त दुःस्थितेभ्यो ददौ च सः ॥३०॥ लोभो यशसि नो लक्ष्म्यां त्यागो द्रव्ये न सीमनि । धर्मे च व्यसनं नाऽक्षादिष्वभूत् तस्य धीमतः ॥३१।। आस्यप्रभापराभूतचन्द्रा नाम्ना प्रभावती। अभूत् तस्य महादेवी शची देवीव वज्रिणः ॥३२॥ पृथिव्या मण्डनं सैका तस्याः शीलं च मण्डनम् । प्रक्रियामात्रमभवत् केयूरकटकादि तु ॥३३।। पावयन्ती सतीत्वेनाऽमलेन सकलं जगत् । कल्याणहेतुः शुशुभे सा तीर्थमिव जङ्गमम् ॥३४॥ भोगान् सह तया देव्या बुभुजे कुम्भभूपतिः । सदा हृदयहारिण्या दाक्षायण्येव चन्द्रमाः ।।३५।। जीवो महाबलस्याऽथ पूर्णायुर्वैजयन्तत: । प्रच्युत्य फाल्गुनश्वेतचतुर्थ्यां भेऽश्वयुज्यपि ॥३६॥ चतुर्दशमहास्वप्नसूचितार्हतवैभवः । प्रभावतीमहादेव्याः कुक्षाववततार सः॥३७|| तस्मिन् गर्भस्थिते देव्यास्तृतीये मासि दोहदः । माल्येषु शयितुं जज्ञे देवताभिश्च पूरितः ॥३८।। पूर्णे काले मार्गशुक्लैकादश्यां भेऽश्वयुज्यथ । प्राग्जन्ममायाजनितस्त्रीकर्मत्वेन कन्यकाम् ॥३९॥ एकोनविंशमर्हन्तमाश्चर्यं कुम्भलाञ्छनाम् । नीलत्विषं सर्वशुभलक्षणां सुषुवे च सा ॥४०॥युग्मम्।। उपेत्य दिक्कुमार्योऽस्या: सूतिकर्माणि चक्रिरे । मेरुमूर्ध्नि च नीत्वा तामिन्द्राश्चाऽस्नपयन् क्रमात् ॥४१॥ स्नपनानन्तरं शक्रस्तां विलिप्याऽऽय॑ च स्वयम् । उत्तार्याऽऽरात्रिकं चेति भक्तिनिर्भरमस्तवीत ॥४२।। "ज्ञानत्रयनिधानाय प्रधानाय जगत्त्रये। एकोनविंशतितमायाऽर्हते ते नमो नमः ॥४३।। दिष्ट्या त्वद्दर्शनेनाऽनुगृहीतोऽस्मि चिरादहम् । सामान्यपुण्यैर्न ह्यर्हन् देव: साक्षान्निरीक्ष्यते ॥४४।। देवानामद्य देवत्वं चरितार्थं चिरादभूत् । तव देवाधिदेवस्य जन्मोत्सवनिरीक्षणात् ॥४५।। एकतोऽच्युतनाथस्य प्राणिमात्रस्य चाऽन्यत: । समानुग्रहबुद्धे! त्वं पाहि नः पततो भवे ॥४६।। अस्मिन् मेरुगिरी धात्र्यां सुवर्णमुकुटायिते । इन्द्रनील इव न्यस्ता(स्त:) त्वमतीव विराजसे ॥४७।। स्मरणेनाऽपि मोक्षायाऽनीहमानस्य जायसे । दृष्ट्वा स्तुत्वा याच्यसे किं ततोऽप्यभ्यधिकं फलम् ॥४८।। धर्माण्येकत्र सर्वाणि तव चैकत्र दर्शनम् । फलातिसाधकतमं द्वितीयमतिरिच्यते ॥४९॥ नेन्द्रत्वे नाऽहमिन्द्रत्वे मन्ये मोक्षेऽपि नो तथा । यथा सुखं स्याल्लुठतः पुरस्त्वत्पादपद्मयोः ॥५०॥ स्तुत्वैवं शक्र एकोनविंशमर्हन्तमुच्चकैः । नीत्वा च मिथिलापुर्याममुचन् मातृसन्निधौ ॥५१॥ गर्भस्थायां तत्र मातुर्यन्माल्यस्वापदोहदः । जज्ञे तदकरोत् तस्या नाम मल्लीति भूपतिः ॥५२॥ धात्रीभिरिन्द्रायुक्ताभिः पञ्चभिः प्रतिवासरम् । पुष्पमिव लाल्यमाना वृद्धिमाप क्रमेण सा ॥५३॥
इतश्चाऽचलजीवोऽपि वैजयन्तात् परिच्युतः। अभूदु भरतसाकेते प्रतिबुद्ध्यभिधो नृपः ॥५४॥ तस्य पदावती नाम साक्षात् पैं।व रूपतः । बभूव प्रेयसी सर्वान्तःपुरस्त्रीशिरोमणिः ॥५५।। इतश्च नगरे तस्मिन्नैशान्यां नागवेश्मनि । अतिष्ठनागप्रतिमा उपयाचितपूरिका: ॥५६।। देवी पद्मावती तासां यात्रायै साऽन्यदा नृपम् । आपप्रच्छे प्रतिबुद्धिं सोऽपि तामन्वमन्यत ॥५७|| तस्याः पुष्पादि सम्पाद्य प्रतिबुद्धिरपि स्वयम् । जगाम यात्रादिवसेऽधिनागप्रतिमागृहम् ।।५८॥ पुष्पमण्डपिकां पुष्पमुद्गरं स्वां प्रियामपि । प्रेक्ष्येत्यूचे प्रतिबुद्धिः सुबुद्धिं सचिवोत्तमम् ।।५९॥ १. नदीनाम् ।। २. दरिद्रेभ्यः ।। ३. दानम् ।। ४. राज्यविस्तारे।। ५. धूतपाशकादिषु ॥ ६. मुखकान्त्या पराभूतश्चन्द्रः यया सा ॥७. इन्द्राणी ॥८. इन्द्रस्य ।। ९. दक्षपुत्र्या रोहिण्या॥१०. नक्षत्रे अश्विन्या-अश्विनीनक्षत्रे ।।११. अस्मिन् मु.खंता. पाता.॥१२. कुम्भलाञ्छनम् खंता. ॥१३. पृथिव्याः सुवर्णमुकुटीभूते ।। १४. सुवर्णमुकुटायते खंता. पाता. हे. सं. विना ।।१५. अनिच्छोः॥१६. कर्माण्येकत्र पा. छा. । धर्मशब्दः पुंक्लीबलिङ्गः ॥ १७. फलातिसाधकत्वेन पाता., फलाप्तिसाधकत्वेन मु.॥१८. तव दर्शनम् ॥१९. ०र्यन्माल्यतल्पदोहदः हे. ॥२०. लक्ष्मीरिव ॥ २१. इच्छितपूरिकाः; उपयाचितपूरका: मु.॥ २२. तया मु. ॥ २३. पुष्पगुच्छकम् ।। २४. स्वबुद्धिम् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org