________________
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । प्रह्लादोऽपि धनुर्हादैहर्दियन्नभितो दिशः । डुढौके दृढदोर्दण्डो दण्डपाणिरिवोत्कटः ॥२८॥ उभौ मुमुचतुर्बाणान् हरि-प्रतिहरी रुषा । मिथश्चिच्छिदतुश्चोभावन्योऽन्यजयकाङ्क्षिणौ ॥२९॥ गदा-मुद्गर-दण्डादीन्यायुधान्यपराण्यपि। परस्परं चिच्छिदतुश्छेदेच्छेकावुभावपि ॥३०॥ उल्काकुलं युगान्तार्कमिव ज्वालाशताकुलम् । प्रह्लादो भ्रमयित्वा खेऽमुचच्चक्रं हरिं प्रति ॥३१॥ मोघीभूतं समीपस्थं हरिश्चक्रं तदेव हि। उपादाय प्रह्लादाय मुक्त्वा चिच्छेद तच्छिर:॥३२॥ तथैव कृत्वा दिग्यात्रां भरतार्धमसाधयत् । अथोद्दधे कोटिशिलामर्धचक्री च सोऽभवत् ॥३३॥ कौमारे द्वे वर्षशते मण्डलित्वे दिशां जये। प्रत्येकमब्दपञ्चाशदभूदु दत्तस्य शाङ्गिणः ॥३४॥ षट्पञ्चाशतमब्दानां सहस्राण्यतिवाह्य स: । ययौ कर्मवशाद् दत्त: पञ्चमी नरकावनिम् ।।३५।। दत्तस्य शाङ्गिणो जातेऽवसाने कालमत्यगात् । कथञ्चित् पञ्चषष्ट्यब्दसहस्रायुर्हलायुधः ॥३६।।
भ्रातृव्ययेन भवभावनया च भूरिवैराग्यभाग् भुवनशोभित आत्तदीक्षः । तीव्र व्रतं निरतिचारमपालयच्चाऽगान् नन्दनस्तदनु सिद्धिपदप्रतिष्ठाम् ॥३७||
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि नन्दन-दत्त-प्रहाद
चरितवर्णनो नाम पञ्चमः सर्गः॥
१.धनुःशब्दैः।।२. गर्जयन् ।। ३. यमः॥४. दत्त-प्रह्लादौ॥५. छेदे छेकौ-चतुरौ॥६.निष्फलीभूतम् ॥७.वासुदेवः।। ८. नन्दनबलदेवः ॥९. भ्रातृमरणेन॥१०. संसारभावनया॥११.भूरिवैराग्यवान् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org