________________
॥पञ्चम: सर्गः॥ ॥दत्त-नन्दन-प्रह्लादचरितम्।।
अरतीर्थेऽथाऽऽसन् विष्णु-बल-प्रत्यर्धचक्रिणः । दत्त-नन्दन-प्रह्लादास्तेषां चरितमुच्यते॥१॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहविभूषणम् । पू: सुसीमाऽस्ति तत्राऽभूत् पृथ्वीनाथो वसुन्धरः ॥२॥ स चिरं पालयित्वा क्ष्मां सुधर्ममुनिसन्निधौ । व्रतमादाय मृत्वा च ब्रह्मलोकमुपाययौ ॥३॥ पाईतोऽस्य जम्बूद्वीपस्य भरतार्धेऽत्र दक्षिणे । नाम्ना मन्दरधीरोऽभूत् पुरे शीलपुरे नृपः॥४॥ गुणरत्नार्णवस्तस्य महावीर्यो महाभुजः । सूनुर्ललितमित्रोऽभून्मित्रो मित्राम्बुजन्मनाम् ।।५।। ज्ञापयित्वा दृप्त इति तं प्रत्याख्याय भूपते: । भ्रातरं युवराजत्वे खलो मन्त्री न्यवेशयत् ॥६॥ ततो ललितमित्रोऽपि विरक्तः सन् पराभवात् । घोषसेनमुने: पार्श्वे परिव्रज्यामुपाददौ ।।७।। तप्यमानः स विदधे निदानमिति दुर्मना: । वधाय तपसाऽनेन तस्य स्यां खलमन्त्रिणः ।।८।। स निदानमनालोच्य कालधर्ममुपागतः । सौधर्मे देवलोकेऽभूत् त्रिदश: परमर्द्धिकः ।।९।। बाखलाख्य: सचिव: सोऽपि चिरं भ्रान्त्वा भवाटवीम् । अस्यैव जम्बूद्वीपस्य गिरौ वैताढ्यनामनि ॥१०॥ उत्तरश्रेणितिलके पुरे सिंहपुराभिधे। विद्याधरेन्द्रः प्रह्लादः प्रतिविष्णुरजायत ॥११॥[युग्मम्] माइतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे च दक्षिणे। पुरी वाराणसीत्यस्ति श्रिता सख्येव गङ्गया ॥१२॥
अग्निवत् तेजसा तत्र सिंहवच्च पराक्रमात् । अग्निसिंह इतीक्ष्वाकुवंशेऽभूद् वसुधाधवः ॥१३॥ तस्य स्थैर्याभियोगाभ्यां पक्षाभ्यामिव विष्टंपे। निरन्तरं यशोहंसो न व्यरंसीत् परिभ्रमन् ॥१४॥ सलीलं समरारम्भे दृष्ट्वा तेनमितं धनुः । तद्वेलामिव बिभ्राणा नेमुः प्रत्यर्थिपार्थिवाः ॥१५॥ बलिष्ठे तस्य दो:स्तम्भे दृढेरालानिता गुणैः । स्थिरतां कलयामास श्रीर्वारणवधूरिव ॥१६।। तस्याऽभूतामुभे पत्न्यौ जयन्ती शेषवत्यपि। अशेषभुवनस्त्रीणां जयन्त्यौ रूपसम्पदम् ॥१७|| वसुन्धरवरो देवश्च्युत्वा पञ्चमकल्पतः । स जयन्त्या महादेव्या उदरे सेमवातरत् ॥१८॥ चतु:स्वप्नाख्यातरॉमावतारो नन्दनाभिध: । जगदानन्दनस्तस्या: समये समभूत् सुतः ।।१९।। सौधर्माल्ललितश्च्युत्वा शेषवत्यामभूत् सुतः । सप्तस्वप्नाख्यातकृष्णावतारो दत्तसञ्जया ॥२०॥ तौ षड्विंशतिधन्वोच्चौ श्वेत-श्यामावुभावपि । अब्धी क्षीरोद-कालोदाविव पुंस्त्वमुपेयतुः ॥२१॥ नील-पीताम्बरधरौ ताल-ता_ध्वजौ च तौ। सेवयस्काविव ज्येष्ठ-कनिष्ठावपि चेरतुः ॥२२।।
भरतार्धप्रभविष्णु: प्रतिविष्णुरथाऽन्यदा। श्रुत्वैरावणसंकाशं गजेन्द्रं तावयाचत ॥२३॥ तस्मिन नन्दन-दत्ताभ्यामदत्ते कुञ्जरोत्तमे । सद्यश्चकोप प्रह्लादः पञ्चास्य इव तेर्जितः ॥२४॥ सर्वाभिसारतो द्वावप्यभ्यषेणयतां मिथ: । विष्णुश्च प्रतिविष्णुश्च क्रुद्धौ वनगजाविव ॥२५॥ सैन्ये प्रह्लादसैन्येन नीते दैन्यदशां क्षणात् । युधे चेलतुरारूढस्यन्दनौ सीरि-शाङ्गिणौ ॥२६॥ दध्मौ दत्तः पाञ्चजन्यं द्विषद्बलहरस्वरम् । शार्ङ्ग चाऽऽस्फालयामास जयकुञ्जरडिण्डिमम् ॥२७।। १. पृथ्वी ॥२. इतश्च मु.॥३. सूर्यः ॥ ४. मित्राण्येव अम्बुजन्मानि कमलानि तेषाम् ।। ५. गर्विष्ठः ।। ६. निषिध्य ॥७. दुष्टं मनो यस्य सः॥ ८. इति नाम्ना बभूव वसुधा०हे. ।। ९. नृपः ।।१०. तत्स्थै र्य-व्यवसायाभ्याम् हे. ॥११. अभियोगो व्यवसाय उद्योग इति यावत् ॥१२. जगति ।। १३. तेनाऽऽकृष्टम् ।। १४. तन्मर्यादामिव ।। १५. शत्रुनृपाः ।। १६. बद्धाः ॥१७. श्रीनिर्वाणवधूरिव हे. ।। १८. हस्तिनीव ।। १९. समवासरत् छा. पा. ।। २०. बलदेवावतारः।। २१. वासुदेवावतारः ।। २२. क्षीरोदधि-कालोदधिसमुद्रौ पुंस्त्वं-मनुष्यत्वं उपेयतुः-प्रापतुरिव ।। २३. समानवयसाविव ।। २४. प्रभुः ।। २५. सिंहः ॥ २६. तिरस्कृतः ॥२७. समग्रसैन्येन ।। २८. युद्धाय अभ्यगमताम् ।। २९. युधि मु. खंता. ॥ ३०. नन्दन-दत्तौ ॥ ३१. द्विषदलहरं वरम् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org