SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्त्वा कन्यां ततस्तस्मै तस्यैवाऽभूत् स सेवकः ।।८९।। पकृपभेक इवाऽनन्यगोऽथ पप्रच्छ मातरम् । सुभूम: किमियानेव लोकोऽयमधिकोऽपि किम् ? ||९|| माताऽप्यचीकथदथो लोकोऽनन्तो हि वत्सक! | मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः ॥९॥ अस्मिंल्लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत् तत्र राजा महाभुजः ॥१२॥ हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं नि:क्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥१३॥ तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः क्षात्रं तेजो हि दुर्धरम् ॥१४॥ तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ता: पायसीभूता: सुभूमो बुभुजे च सः॥९५।। उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जघ्निरे मेघनादेन व्याघेण हरिणा इव ॥९६॥ प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाऽऽययौ ।।९७।। रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥९८।। शस्त्राभावात् सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीबभूव तत्सद्य: किं न स्यात् पुण्यसम्पदा ? ॥९९॥ चक्रवर्त्यष्टमः सोऽथ तेन चक्रेण भास्वता। शिर: परशुरामस्य पङ्कजच्छेदमच्छिदत् ॥१०॥ क्षितिं नि:क्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्मणामसौ॥१०१॥ पाक्षुण्णक्षितिप-हस्त्यश्व-पदातिव्यूहलोहितैः । वाहयन् वाहिनीनव्या: स प्राक् प्राचीमसाधयत् ॥१०२।। सच्छिन्नानेकसुभटमुण्डमण्डितभूतल: । आक्रामुद्दक्षिणां दक्षिणाशापतिरिवाऽपरः ॥१०३॥ भटास्थिभिर्दन्तुरयन् शुक्ति-शखैरिवाऽभितः । रोधो नीरनिधे: सोऽथ प्रतीचीमजयद्दिशम् ॥१०४॥ हेलोद्घाटितवैताढ्यकन्दरं स्थाममन्दरः । म्लेच्छान् विजेतुं भरतोत्तरखण्डं विवेश सः॥१०५।। उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राऽथ सोऽभाङ्क्षीदिशूनिव महाकरी ॥१०६॥ मेघनादाय वैताढ्यगिरिश्रेण्योर्द्वयोरपि। विद्याधरेन्द्रपदवीं सुभूमश्चक्रभृद्ददौ ॥१०७।। पाषष्टिवर्षसहस्रायुश्चतुर्दिशमिति भ्रमन् । निहत्य सुभटानुर्वी स षट्खण्डामसाधयत् ॥१०८॥ उज्जासयन्नसुमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा। आसाद्य कालपरिणामवशेन मृत्यु तां सप्तमी नरकभूमिमगात् सुभूमः ॥१०९।। कुमारभावेऽब्दसहस्रपञ्चकं तन्मण्डलित्वेऽथ शतानि पञ्च। येऽर्धलक्षं पुनरब्दपञ्चशत्यूनमस्याऽजनि चक्रभृत्त्वे ॥११०॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि सुभूमचरितवर्णनो नाम चतुर्थः सर्गः॥ १. अन्यत्र न गच्छति सः; इवाऽनन्यगोप: मु.प्रभृतिषु ॥२. मङ्गलवत्॥३.वैरिणो ला. मु.॥४.सुभुजो० मु.॥५. सुभौमाय० खंता. ।। ६. परशुः ।। ७. अग्निकण इव ।। ८.पुण्यसम्पदः मु.॥९. क्षुण्णा-मृता ये क्षितिपा-राजानस्तेषां हस्तिनोऽश्वा: पदातयोऽपि मृताः, तेषां सर्वेषां व्यूहः-समूहः,तस्य लोहितैःरक्तैः ।।१०. सेना: नदीश्च ।।११. यमः ।।१२. दन्तुरं-दन्तयुक्तं कुर्वन् ।।१३. तीरम् ।।१४. स्थाम-बलं, तेन मन्दरो मेरुरिव ॥१५.०रसच्छडा० खंता. ॥ १६. महाकिरिः हे. पा.छा.॥१७.आयुर्वर्षाणि ६०सहस्रमितानि ।।१८. हिंसन्॥१९. कौमारे वर्षाणि ५सहस्रमितानि॥२०.मण्डलित्वे वर्षाणि ५सहस्रमितानि ।। २१. दिग्विजये वर्षाणि ५००मितानि ।। २२. चक्रित्वे वर्षाणि ५०सहस्रमितानि पञ्चशतवर्षोनानि ।। २३. सुभूमचक्रवर्तिवर्णनो मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy