________________
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
"विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी' । विद्या तस्याऽतिसारार्त्या विस्मृताऽऽकाशगामिनी ॥५६॥ रामेण प्रेतिचरितो भेषजाद्यैः स्वबन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ ॥५७॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत् ततः प्रभृति विश्रुतः ॥ ५८ ॥
अन्येद्युः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किञ्चन ॥५९॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्यो ऽरमयत् कामः कामं निरङ्कुशः ॥ ६० ॥ ऋषिपत्न्या तया राजाऽहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥ ६१॥ अनन्तवीर्यात् तनयो रेणुकायामजायत । ममतायामिवोर्तथ्यसधर्मिण्यां बृहस्पतिः ||६२॥ तेनाऽपि सह पुत्रेण रेणुकामानयन् मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ॥६३॥ तां पुत्रसहितां वल्लीमकालफलितामिव । सञ्जातकोप: परशुरामः परशुनाऽच्छिदत् ॥६४॥ ||तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ॥ ६५ ॥ ततश्चाऽवार्यदोर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाऽभाङ्गीन् मत्त इव द्विपः ॥६६॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्तत ॥ ६७॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाऽधावत् साक्षादिवाऽन्तकः ॥६८॥ सुभटग्रामसङ्ग्रामकौतुकी जमदग्निजः । पर्शुना खण्डशश्चक्रे दौरुवद्दारुणेन तम् ॥ ६९॥
राज्ये निवेशयाञ्चक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ॥७०॥ तस्याऽभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव ॥ ७१ ॥ भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् ॥७२॥ कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवाऽऽगत्य जमदग्निममारयत् ॥७३॥ रामः पितृवधक्रुद्धो द्राग् गत्वा हस्तिनापुरे । अमारयत् कृतवीर्यं किं यमस्य 'दैवीयसि ? ||७४ || जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥७५॥ ||रामाक्रान्तपुराद् राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेंणीवाऽगमत् तापसाश्रमम् ॥७६॥ कृपाधनैर्भूर्गृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात् परशुरामतः ॥७७॥ चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं मुखेनाऽभूत् सुभूमो नामतस्ततः ॥७८॥ क्षत्रियो यत्र यत्राऽऽसीत् तत्र तत्राऽप्यदीप्यत । पर्शुः परशुरामस्य कोपाग्निरिव मूर्तिमान् ॥ ७९ ॥ रामोऽगादन्यदा तत्राऽऽश्रमे पर्शुश्च सोऽज्वलत् । क्षेत्रं चाऽसूचयद्धूम इव धूमध्वजं तदा ॥८०॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥८१॥ रामोऽप्यमर्षान्निः क्षत्रां संप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥ ८२ ॥ क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥८३॥ रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वध: ? । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥८४॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥८५॥ रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्राऽस्थापयत् स्थालमग्रतः ॥८६॥
९२
(षष्ठं पर्व
अथाऽऽश्रमे स्वर्णवर्णोऽष्टाविंशतिधनून्नतिः । गतोऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् ॥८७॥ विद्याधरो मेघनादोऽन्येद्युर्नैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ? ॥८८॥
१. अतिसारवान् ।। २. सेवितः ॥ ३. स बन्धुवत् हे. ला. ॥ ४. परशुसम्बन्धिनीम् ॥ ५. इन्द्रः । ६. बृहस्पतिस्तस्य भ्रातुरुतथ्यस्य भार्यां ममतां भुक्तवांस्ततस्तस्याः पुत्रोऽजायतेति पुराणकथानकं श्रूयते; ०तथ्यः सधर्मिण्यां बृहस्पतेः खंता. विना ॥ ७. ०शुनाऽच्छिनत् खंता. ला. मु. विना ॥ ८. अग्निमिव ॥ ९. पवनः ।। १०. यमः ।। ११. सुभटसमूह ॥ १२. काष्ठवत् ॥ १३. प्रधानपुरुषैः ॥ १४. आदिष्टश्चाऽसौ अहिः सर्पश्च ।। १५. अतिदूरे ।। १६. गर्भिणी ।। १७. मृगीव ॥ १८. भुवि गृहं भूगृहं तस्याऽन्तः ॥ १९. भूमीमुखेन हे ॥ २०. क्षत्रियम् ॥ २१. अग्निम् ॥ २२. सप्तवारान् ।। २३. मृतानां क्षत्रियाणां दंष्ट्राभिरित्यर्थः ॥ २४. तत
आगतस्ततस्त्यः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org